नारदपुराणम्- उत्तरार्धः/अध्यायः ५८
वसुरुवाच ।।
एवं संपूज्य विधिवद्भक्त्या तं पुरुषोत्तमम् ।।
प्रणम्य शिरसा पश्चात्सागरं च प्रसादयेत् ।। ५८-१ ।।
"प्राणस्त्वं सर्वभूतानां विश्वस्मिन्सरितां पते ।।
तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय ।। ५८-२ ।।
स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे शुभे ।।
तीरे चाभ्यर्च्य विधिवन्नारायणमनामयम् ।। ५८-३ ।।
रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् ।।
शतानामश्वमेधानां फलं प्राप्नोति मानवः ।। ५८-४ ।।
सर्वपापिविनिर्मुक्तः सर्वदुःखविवर्जितः ।।
वृंदारकहरिः श्रीमाचूपयौवनगर्वितः ।। ५८-५ ।।
विमानेनार्कवर्णेन दिव्यगंधर्वनादिना ।।
कुलेकविंशतिं धृत्वा विष्णुलोकं च गच्छति ।। ५८-६ ।।
भुक्त्वा तत्र वरान्भोगाक्रीडित्वा च सुरैस्सह ।।
च्युतस्तस्मादिहायातो ब्राह्मणो ब्रह्मवित्तमः ।। ५८-७ ।।
यशस्वी मतिमाञ्छ्रीमान्सत्यवादी जितेंद्रियः ।।
वेदशास्त्रार्थविद्विप्रो भवेत्पश्चात्तु वैष्णवः ।। ५८-८ ।।
योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ।।
ग्रहोपरागे संक्रांत्यामयने विषुवे तथा ।। ५८-९ ।।
युगादिषु च मन्वादौ व्यतीपाते दिनक्षये ।।
आषाढ्यां चैव कार्तिक्यां माध्यां वान्यशुभे तिथौ ।। ५८-१० ।।
ये त्वत्र दानं विप्रेभ्यः प्रयच्छंतिसुमेधसः ।।
फलं सहस्रगुणतमन्यतीर्थाल्लभंति ते ।। ५८-११ ।।
पितॄणां ये प्रयच्छंति पिंडं तत्र विधानतः ।।
अक्षयां पितरस्तेषां तृप्तिं संप्राप्नुवंति वै ।। ५८-१२ ।।
एवं स्नानफलं सम्यक् सागरस्य मयेरितम् ।।
दानस्य च फलं देवि पिंडदानस्य चैव हि ।। ५८-१३ ।।
धर्मार्थमोक्षफलदमायुः कीर्तियशस्करम् ।।
भुक्तिमुक्तिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ।। ५८-१४ ।।
सर्वपापाहरं पुण्यं सर्वकामफलप्रदम् ।।
नास्तिकाय न वक्तव्यं शठाय कृपणाय च ।। ५८-१५ ।।
तावद्गर्ज्जंति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ।।
यावन्न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजैः ।। ५८-१६ ।।
पुष्करादीनि तीर्थानि प्रयच्छंति स्वकं फलम् ।।
तीर्थराजः समुद्रस्तु सर्वतीर्थफलप्रदः ।। ५८-१७ ।।
भूतले यानि तीर्थानि सरितश्च सरांसि च ।।
विशंति सागरे तानि तेन वै श्रेष्ठतां गतः ।। ५८-१८ ।।
राजा समस्ततीर्थानां सागरः सरितां पतिः ।।
तस्मात्समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः ।। ५८-१९ ।।
तमो नाशं यथाभ्येति भास्करेऽभ्युदिते सति ।।
कोट्यो नवनवत्यस्तु यत्र तीर्थानि संति वै ।। ५८-२० ।।
तस्मात्स्नानं च दानं च होमं जप्यं सुरार्चनम् ।।
यत्किञ्चित्क्रियते तत्र तदक्षयमितीरितम् ।। ५९-२१ ।।
मोहिन्युवाच ।।
सर्वेषु तु समुद्रेषु क्षारोऽयं सरितां पतिः ।।
कथं जातो गुरो ब्रूहि सर्वज्ञोऽसि यतो द्विज ।। ५८-२२ ।।
वसुरुवाच ।।
श्रृणु वक्ष्यामि सुभगे क्षारत्वं चास्य वारिधेः ।।
यथा प्राप्तः पुरासीच्च मात्रास्य जगतामपि ।। ५८-२३ ।।
पुरा सृष्टिक्रमे जाताः समुद्राः सप्त मोहिनि ।।
राधिका गर्भसंभूता दिव्यदेहाः पृथग्विधाः ।। ५८-२४ ।।
एकदा राधिकानाथः कांतया सह संगतः ।।
आस्ते वृन्दावने साक्षाद्गोपगोपीगवांपतिः ।। ५८-२५ ।।
रासमंडलमध्ये तु सुदीप्ते मणिमण्डपे ।।
सुस्निग्धया समायुक्तः श्रृंगारे कांतया तया ।। ५८-२६ ।।
ते सप्त सागरा बालाः स्तन्यपानकृतक्षणाः ।।
ततस्ते सर्वतो दृष्ट्वा मातरं तां जगत्प्रसूम् ।। ५८-२७ ।।
क्षुधार्ताश्च रुदंतस्तु आसेदुर्मणिमंडपम् ।।
तत्र जग्मुस्तु ते सर्वे स्तन्यपान कृतेक्षणाः ।। ५८-२८ ।।
सर्वे निवारिताश्चापि द्वारस्थैर्वल्लवीगणैः ।।
विविशुश्च भृशं क्रुद्धा बालकास्ते स्तनार्थिनः ।। ५८-२९ ।।
उपेक्षिता गोपिकाभिर्मातुरुत्संगवर्तिनः ।।
ततस्तु प्ररुदन्तो वै ते गत्वा मणिमंडपम् ।। ५८-३० ।।
उच्चैः प्रचुक्रुशुद्रेवि मातः क्वासीतिवादिनः ।।
यदा नाह्वयते माता बालकांस्तान्स्तनार्थिनः ।। ५८-३१ ।।
तदा कनिष्ठः सर्वेषां विवेशायं रतिस्थलम् ।।
तं दृष्ट्वा स्वसुतं राधा मुग्धं श्रृंगारभंगदम् ।। ५८-३२ ।।
शशाप क्षुभिता भद्रे भूर्लोकं यात मा चिरम् ।।
यतः श्रृंगारभंगं तु मम कर्तुं समुद्यताः ।। ५८-३३ ।।
ततो यूयं भुवं गत्वा स्थास्यथैकाकिनः सुताः ।।
तच्छ्रुत्वा वचनं मातुर्जगद्धात्र्या विरंचिजे ।। ५८-३४ ।।
अत्युच्चै रुरुदुः सर्वे वियोगभयकातराः ।।
ततः प्रसन्नो भगवाञ्छ्रीकृष्णः प्रणतार्तिहा ।। ५८-३५ ।।
मा भैष्ट पुत्रास्तिष्ठामि समीपे भवतामहम् ।।
द्रवरूपा भवंतस्तु पृथग्रूपचराः सदा ।। ५८-३६ ।।
वर्तध्वं क्षारतां यातु कनिष्ठोऽभ्यंतरे स्थितः ।।
एवमुक्त्वा जगन्नाथो बालकान्विससर्ज ह ।। ५८-३७ ।।
तेषां तु सांत्वनोर्थाय समीपस्थः सदाभवत् ।।
यः प्रविष्टो रतिगृहं स क्षारोदो बभूव ह ।।
अन्ये तु द्रवरूपा वै क्षीरोदाद्याः पृथक् स्थिताः ।। ५८-३८ ।।
मोहिन्युवाच ।।
का राधा भवता प्रोक्ता गुरो लोकप्रसूः सती ।।
तस्यास्तत्वं समाख्याहि श्रोतुं कौतूहलं मम ।। ५८-३९ ।।
पुराणेषु रहस्यं तु राधामाधववर्णनम् ।।
यतः सर्वं भवान्वेत्ति याथातथ्येन सुव्रत ।। ५८-४० ।।
वसिष्ठ उवाच ।।
तच्छ्रुत्वा मोहिनीवाक्यं भूपते स वसुर्महान् ।।
अतीव भक्तो गोविंदे निमग्रहृदयोऽभवत् ।। ५८-४१ ।।
पुलकांकितसर्वांगः प्रहृष्टहृदयो मुदा ।।
उवाच मोहमापन्नो मोहिनीं द्विजसत्तमः ।। ५८-४२ ।।
वसुरुवाच ।।
श्रृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।।
सुगोप्यं कृष्णचरितं ब्रह्मैकत्वविधायकम् ।। ५८-४३ ।।
प्रकृतेः पुरुषस्यापि नियंतारं विधेर्विधिम् ।।
संहर्तारं च संहर्तुर्भगवंतं नतोऽस्म्यहम् ।। ५८-४४ ।।
देवि सर्वेऽवतारास्तु ब्रह्मणः कृष्णरूपिणः ।।
अवतारी स्वयं कृष्णः सगुणो निर्गुणः स्वयम् ।। ५८-४५ ।।
स एव रामः कृष्णश्च वस्तुतो गुणतः पृथक् ।।
सर्वे प्राकृतिका लोका गोलोको निर्गुणः स्वयम् ।। ५८-४६ ।।
गावस्तेजोंऽशवो भद्रे वेदविद्भिर्निरूपिताः ।।
ब्रह्मविष्णुशिवाद्यास्तु प्राकृता गुणनिर्मिताः ।। ५८-४७ ।।
तत्तेजः सर्वदा देवि निर्गुणं गुणकृन्मतम् ।।
गुणास्तदंशवो भद्रे सर्वे व्याकृतरूपिणः ।। ५८-४८ ।।
व्याकृतोत्पादका ज्ञेया रजः सत्त्वतमोभिधाः ।।
अव्याकृतस्य पुंसो हि गुणा विज्ञापकाः शुभे ।। ५८-४९ ।।
देहभूताः स्मृतास्तस्य तच्छक्तिः प्रकृतिर्मता ।।
प्रधानप्रकृतिं प्राहुः कार्यकारणरूपिणीम् ।। ५८-५० ।।
साक्षिणं पुरुषं प्राहुर्निर्गुणं तु सनातनम् ।।
पुरुषो वीर्यमाधत्त प्रकृत्यां च ततो गुणाः ।। ५८-५१ ।।
सत्त्वाद्या ह्यभवंस्तेभ्यो महत्तत्वं समुद्गतम् ।।
पुरुषस्येच्छया तत्तु व्याकृतं समभूदहम् ।। ५८-५२ ।।
तत्त्रिधा समभूद्भद्रे द्रव्यज्ञानक्रियात्मकम् ।।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।। ५८-५३ ।।
वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।। ५८-५४ ।।
दिग्वातार्कप्रचेतोश्विब्रंह्मेंद्रोपेंद्रमित्रकाः ।।
तैजसानींद्रियाण्याहुर्ज्ञानकर्ममयानि च ।। ५८-५५ ।।
श्रोत्रत्वग्घ्राणदृग्जिह्वाविज्ञानेंद्रियरूपकाः ।।
कर्मेंद्रियाणि सुभगे वाग्वोर्मेढ्रांघ्रिपायवः ।। ५८-५६ ।।
शब्दस्तु तामसाज्जज्ञे तस्मादाकाश एव च ।।
आकाशादभवत्स्पर्शस्तस्माद्वायुरभूत्सति ।। ५८-५७ ।।
वायोरभूत्ततो रूपं तस्मात्तेजो व्यजायत ।।
तेजसस्तु रसस्तस्मादापः समभवन्सति ।। ५८-५८ ।।
अद्भ्यो गंधः समुत्पन्नो गंधात्क्षितिरजायत ।।
चराचरस्य निष्ठा तु भूमावेव प्रदृश्यते ।। ५८-५९ ।।
आकाशादिषु तत्वेषु एकद्वित्रिचतुर्गुणाः ।।
भूमौ पंच गुणाः प्रोक्ता विशेषस्तु ततः क्षितेः ।। ५८-६० ।।
कालमायांशलिंगेभ्य एतेभ्योंऽडमचेतनम् ।।
समभूच्चेतनं जातं दरेण विशता सति ।। ५८-६१ ।।
तस्मादंडाद्विराड् जज्ञे सोऽशयिष्ट जलांतरे ।।
मुखादीन्यस्य जातानि विराजोऽवयवा अपि ।। ५८-६२ ।।
वचनादेश्च सिद्ध्यर्थं सलिलस्थस्य भामिनि ।।
तस्य नाभ्यामभूत्पद्मं सहस्रार्कोरुदीधितिः ।। ५८-६३ ।।
तस्मिन्स्वयंभूः समभूल्लोकानां प्रपितामहः ।।
तेन तप्त्वा तपस्तीव्रं पुंसोऽनुज्ञामवाप्य च ।। ५८-६४ ।।
लोकाश्च लोकपालाश्च कल्पिता ब्रह्मणा सति ।।
कट्यादिभिरधः सप्त सप्तोर्द्धं जघनादिभिः ।। ५८-६५ ।।
चतुर्दशभिरेभिस्तु लोकैर्ब्रह्मांडमीरितम् ।।
तस्मिन्ससर्ज भूतानि स्थावराणि चराणि च ।। ५८-६६ ।।
ब्रह्मणो मनसो जाताश्वत्वारः सनकादयः ।।
देहाद्भावादयो देवि यैरिदं वर्द्धितं जगत् ।। ५८-६७ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये ब्रह्माण्डोत्पत्तिवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायाः ।। ५८ ।।