नारदपुराणम्- उत्तरार्धः/अध्यायः ६६

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

।। अथ गङ्गाद्वारमाहात्म्यं प्रारभ्यते ।।

।। मोहिन्युवाच ।।
कुरुक्षेत्रस्य माहात्म्यं श्रुतं पापापहं महत् ।।
त्वत्तो द्विजवरश्रेष्ठ सर्वसिद्धिप्रदं नृणाम् ।। ६६-१ ।।

गंगाद्वारेति यत्ख्यातं तीर्थं पुण्यावहं गुरो ।।
तत्समाख्याहि भद्रं ते श्रोतुं वांछास्ति मे हृदि ।। ६६-२ ।।

वसुरुवाच ।।
श्रृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् ।।
गंगाद्वारस्य ते पुण्यं श्रृण्वतां पठतां शुभम् ।। ६६-३ ।।

यत्र भूमिमनुप्राप्ता भगीरथरथानुगा ।।
श्रीगंगालकनंदाख्या नगान्भित्त्वा सहस्रशः ।। ६६-४ ।।

यत्रायजत यज्ञेशं पुरा दक्षः प्रजापतिः ।।
तत्क्षेत्रं पुण्यदं नॄणां सर्वपातकनाशनम् ।। ६६-५ ।।

यस्मिन्यज्ञे समाहूता देवा इंद्रपुरोगमाः ।।
स्वैः स्वैर्गणैः समायाता यज्ञभागजिघृक्षया ।। ६६-६ ।।

तत्र देवर्षयः प्राप्तास्तथा ब्रह्मर्षयोऽमलाः ।।
शिष्यप्रशिष्यैः सहितास्तथा राजर्षयः शुभे ।। ६६-७ ।।

सर्वेनिमंत्रितास्तेन ब्रह्मपुत्रेण धीमता ।।
गंधर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः ।। ६६-८ ।।

संप्राप्ता यज्ञसदनमृते शर्वं पिनाकिनम् ।।
ततस्तु गच्छतां तेषां सप्रियाणां विमानिनाम् ।। ६६-९ ।।

दक्षयज्ञोत्सवं प्रीत्यान्योन्यं वर्णयतां सती ।।
श्रुत्वा सोत्का महादेवं प्रार्थयामास भामिनी ।। ६६-१० ।।

तच्छत्वा भगवानाह न श्रेयो गमनं ततः ।।
अथ देवमनादृत्य भाविनोऽर्थस्य गौरवात् ।। ६६-११ ।।

जगामैकाकिनी भद्रे द्रष्टुं पितृमखोत्सवम् ।।
ततः सा तत्र संप्राप्ता न केनापि सभाजिता ।। ६६-१२ ।।

प्राणांस्तत्याज तन्वंगी तज्जातं क्षेत्रमुत्तम् ।।
तस्मिंस्तीर्थे तु ये स्नात्वा तर्पयंति सुरान्पितॄन् ।। ६६-१३ ।।

ते स्युर्देव्याः प्रियतमा भोगमोक्षैकभागिनः ।।
येऽन्येऽपि तत्र स्वान्प्राणांस्त्यजंत्यनशनादिभिः ।। ६६-१४ ।।

तेऽपि साक्षाच्छिवं प्राप्य नाप्नुवंति पुनर्जनिम् ।।
अथ तन्नारदाच्छ्रुत्वा भगवान्नीललोहितः ।। ६६-१५ ।।

मरणं स्वप्रियायास्तु वीरभद्रं विनिर्ममे ।।
स सर्वैः प्रमथैर्युक्तस्तं यज्ञं समनाशयत् ।। ६६-१६ ।।

पुनर्विधेः प्रार्थनया मीढ्वान्सद्यः प्रसादितः ।।
संदधे च पुनर्यज्ञं विकृतं प्रकृतिस्थितम् ।। ६६-१७ ।।

ततस्तत्तीर्थमतुलं सर्वपातकनाशनम् ।।
जातं यत्राप्लुतः सोमो मुक्तो यक्ष्मग्रहादभूत् ।। ६६-१८ ।।

तत्र यो विधिवत्स्नात्वा यं यं कामं विचिंतयेत् ।।
तं तमाप्नोति विधिजे नात्र कार्या विचारणा ।। ६६-१९ ।।

यत्र यज्ञेश्वरः साक्षाद्भगवान्विष्णुरव्ययः ।।
स्तुतो दक्षेण देवैश्च तत्तीर्थं हरिसंज्ञितम् ।। ६६-२० ।।

तत्र यो विधिवन्मर्त्यः स्नायाद्धरिपदे सति ।।
स विष्णोर्वल्लभो भूयाद्भुक्तिमुक्तयकभाजनम् ।। ६६-२१ ।।

अतः पूर्वदिशि क्षेत्रं त्रिगगं नाम विश्रुतम् ।।
यत्र त्रिपथगा साक्षादृश्यते सकलैर्जनैः ।। ६६-२२ ।।

तत्र स्नात्वाथ संतर्प्य देवर्षिपितृमानवान् ।।
सम्यक्छ्रद्धायुतो मर्त्यो मोदते दिवि देववत् ।। ६६-२३ ।।

तत्र यस्त्यजति प्राणान्प्रवाहे पतितः सति ।।
स व्रजेद्वैष्णवं धाम देवैः सम्यक्सभाजितः ।। ६६-२४ ।।

ततः कनखले तीर्थे दक्षिणीं दिशमाश्रिते ।।
त्रिरात्रोपोषितः स्नात्वा मुच्यते सर्वकिल्बिषैः ।। ६६-२५ ।।

अथ यास्तत्रगां दद्याद्बाह्यणे वेदपारगे ।।
स कदाचिन्न पश्येत्तु देवि वैतरणीं यमम् ।। ६६-२६ ।।

अत्र जप्तं हुतं तप्तं दत्तमानंत्यमश्नुते ।।
अत्रैव जहुतीर्थँ च यत्र वै जह्रुना पुरा ।। ६६-२७ ।।

राजर्षिणा निपीताभूद्गंडूषीकृत्य सा नदी ।।
प्रसादितेन सा तेन मुक्ता कर्णाद्विनिर्गता ।। ६६-२८ ।।

तत्र स्नात्वा महाभागे यो नरः श्रद्धयान्वितः ।।
सोपवासः समभ्यर्चेद्बाह्यणं वेदपारगम् ।। ६६-२९ ।।

भोजयेत्परमान्नेन स्वर्गे कल्पं वसेत्स तु ।।
अथ पश्चाद्दिशि गतं कोटितीर्थँ सुमध्यमे ।। ६६-३० ।।

यत्र कोटिगुणं पुण्यं भवेत्कोटीशदर्शनात् ।।
ओष्यैकां रजनीं तत्र पुंडरीकमवाप्नुयात् ।। ६६-३१ ।।

तथैवोत्तरदिग्भागे सप्तगंगेति विश्रुतम् ।।
तीर्थं परमकं देवि सर्वपातकनाशनम् ।। ६६-३२ ।।

यत्राश्रमाश्च पुण्या वै सप्तर्षीणां महामते ।।
तेषु सर्वेषु तु पृथक् स्नात्वा संतर्प्य देवताः ।। ६६-३३ ।।

पितॄंश्च लभते मर्त्य ऋषिलोकं सनातनम् ।।
भगीरथेन वै राज्ञा यदानीता सुरापगा ।। ६६-३४ ।।

तदा सा प्रीतये तेषां सप्तधारागताभवत् ।।
सप्तगंगं ततस्तीर्थं भुवि विख्यातिमागतम् ।। ६६-३५ ।।

स आवर्तं ततः प्राप्य संतर्प्यामरपूर्वकान् ।।
स्रात्वा देवेंद्रभवने मोदते युगमेव च ।। ६६-३६ ।।

ततो भद्रे समासाद्य कपिलाह्रदमुत्तमम् ।।
धेनुं दत्त्वा द्विजाग्र्याय गोसहस्रफलं लभेत् ।। ६६-३७ ।।

अत्रैव नागराजस्य तीर्थं परमपावनम् ।।
अत्राभिषेकं यः कुर्यात्सोऽभयं सर्पतो लभेत् ।। ६६-३८ ।।

ततो ललितकं प्राप्य शंतनोस्तीर्थमुत्तमम् ।।
स्नात्वा संतर्प्य विधिवत्सुरादील्लँभते गतिम् ।। ६६-३९ ।।

यत्र शंतनुनां लब्धा गंगा मानुष्यमागता ।।
तत्रैव तत्यजे देहं वसून्सूत्वानुवत्सरम् ।। ६६-४० ।।

तद्देहो न्यपतत्तत्र तत्राभूद्दक्षजन्म च ।।
तत्र यः स्नाति मनुजो भक्षयेदोषधीं च ताम् ।। ६६-४१ ।।

स न दुर्गतिमाप्नोति गंगादेवीप्रसादतः ।।
भीमस्थलं ततः प्राप्य यः स्नायात्सुकृती नरः ।। ६६-४२ ।।

भोगान्भुक्त्वेह देहांते स्वर्गतिं समवाप्नुयात् ।।
एतान्युद्देशतो देवि तीर्थानि गदितानि ते ।। ६६-४३ ।।

अन्यानि वै महाभागे संति तत्रल सहस्रशः ।।
योऽस्मिन्क्षेत्रे नरः स्नायात्कुंभगेज्येऽजगे रवौ ।। ६६-४४ ।।

स तु स्याद्वाक्पतिः साक्षात्प्रभाकर इवापरः ।।
अथ याते प्रयागादिपुण्यतीर्थे पृथूके ।। ६६-४५ ।।

अथ यो वारुणे योगे महावारुणके तथा ।।
महामहावारुणे च स्नायात्तत्र विधानतः ।। ६६-४६ ।।

संपूज्य ब्राह्मणान् भक्त्या स लभेद्ब्रह्मणः पदम्।।
संक्रान्तौ वाप्यमायां वा व्यतीपाते युगादिके ।। ६६-४७ ।।

पुण्येऽहनि तथान्यद्वै यत्किंचिद्दानमाचरेत् ।।
तत्तु कोटिगुणं भूयात्सत्यमेतन्मयोदितम् ।। ६६-४८ ।।

गंगाद्वारं स्मरेद्यो वै दूरसंस्थोऽपि मानवः ।।
सद्गतिं स समाप्नोति स्मरन्नंते यथा हरिम् ।। ६६-४९ ।।

यं यं देवं हरिद्वारे पूजयेत्प्रयतो नरः ।।
स स देवः सुप्रसन्नः पूरयेत्तन्मनोरथान् ।। ६६-५० ।।

एतदेव तपःस्थानमेतदेव जपस्थलम् ।।
एतदेव हुतस्थानं यत्र गंगा भुवं गता ।। ६६-५१ ।।

यस्तत्र नियतो मर्त्यो गंगानामसहस्रकम् ।।
त्रिकालं पठति स्नात्वा सोऽक्षयां संततिं लभेत् ।। ६६-५२ ।।

गंगाद्वारे पुराणं तु श्रृणुयाद्यश्च भक्तितः ।।
नियमेन महाभागे स याति पदमव्ययम् ।। ६६-५३ ।।

हरिद्वारस्य माहात्म्यं यः श्रृणोति नरोत्तमः ।।
पठेद्वा भक्तिसंयुक्तः सोऽपि स्नानफलं लभेत् ।। ६६-५४ ।।

देवि तिष्ठति यद्गेहे माहात्म्यं लिखितं त्विदम् ।।
तद्गृहे सर्पचौराग्निग्रहराजभयं नहि ।। ६६-५५ ।।

वर्द्धतेसंपदः सर्वा विष्णुदेवप्रसादतः ।। ६६-५६ ।।

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे हरिद्वारमाहात्म्यं नाम षट्षष्टितमोऽध्यायः ।। ६६ ।।

इति गङ्गाद्वारं (हरिद्वार)माहात्म्यं समाप्तम् ।।