नारदपुराणम्- उत्तरार्धः/अध्यायः ३७

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

मोहिन्युवाच ।।
एकादशीसमं देवाः पावनं नापरं भवेत् ।।
यया पूता महापापा गच्छंति हरिमंदिरम् ।। ३७-१ ।।

तत्समीपे मम स्थानं युक्तं भाति विचार्यताम् ।।

देवा ऊचुः ।।
वेधो निशीथे देवानामुपकाराय मोहिनी ।। ३७-२ ।।

सूर्योदये सुराणां च हरिणा परिकल्पितः ।।
पारणं च त्रयोदश्यामुपवासविनाशनम् ।। ३७-३ ।।

महाद्वादशिका ह्यष्टौ याः स्मृता वैष्णवागमे ।।
तास्तु ह्येकादशीभिन्ना उपोष्यंते च वैष्णवैः ।। ३७-४ ।।

एकादशीव्रतं भिन्नं वैष्णवानां महात्मनाम् ।।
नित्यं पक्षद्वये प्रोक्तं विधिना त्रिदिनात्मके ।। ३७-५ ।।

सायं प्रातस्त्यजेद्भुक्तिं क्रमात्पूर्वापराह्णयोः ।।
एकादशी यदा भिन्ना उपोष्या हि परेऽहनि ।।
द्वादश्यां हि व्रतं कार्यं निरंबु समुपोषणम् ।। ३७-६ ।।

लंघने त्वसमर्थानां जलं शाकं फलं पयः ।।
नैवेद्यं वा हरेः प्रोक्तं स्वाहारात्पादसंमितम् ।। ३७-७ ।।

स्वाती सूर्योदये विद्धो त्यजंत्यकादशीं सति ।।
निष्कामा मध्यरात्रे च विद्धां मुंचन्ति याम्यया ।। ३७-८ ।।

सर्वेष्वपि तु लोकेषु विदिता दशमी तिथिः ।।
यमस्य तस्याः प्रांति तु स्थितिः कार्या त्वयानघे ।। ३७-९ ।।

एतेन देवकार्यं च सिद्धं भवति शोभने ।।
सूर्येन्दुचारा तिथ्यास्तु दशम्याः प्रांतगामिनी ।। ३७-१० ।।

भुवि तीर्थानि चैव त्वं स्वाघनाशाय संचर ।।
अरुणोदयमारभ्य यावत्सूर्योदयो भवेत् ।। ३७-११ ।।

तदंतस्त्वं व्रते प्राप्ता लभस्वैकादशीफलम् ।।
यः कश्चित्कुरुते विद्धं त्वया ह्येकादशीव्रतम् ।। ३७-१२ ।।

स तीपकारकस्तुभ्यं भविष्यति सुरप्रिये ।।
मुहूर्तद्वयमात्रं तु ज्ञेयं चात्रारुणोदयम् ।। ३७-१३ ।।

मूहूर्ताः पंचदश च स्मृता रात्रेर्दिनस्य च ।।
ज्ञेयास्ते ह्रस्वदीर्घत्वे त्रैराशिक विधानतः ।। ३७-१४ ।।

त्रयोदशान्मुहूर्तांत्तु रात्रैरूर्द्ध्वा समागता ।।
सब्ध्वोपवासिनां पुण्यं स्वस्था भव शुचिस्मिते ।। ३७-१५ ।।

यमसंस्थापनार्थाय वैकुण्ठध्वंसनाय च ।।
पाखण्डानां विवृद्ध्यर्थँ पापसंचनाय च ।। ३७-१६ ।।

दत्तं ते मोहिनि स्थानं प्रत्यूषसमयांकितम् ।। ३७-१७ ।।

विद्धं त्वयैकादशिकाव्रतं ये कुर्वंति कर्तार इह प्रयत्नात् ।।
तेषां भवेद्यत्सुकृतं शुभे फलं भुंक्ष्व प्रसन्ना भव भूसुरे त्वम् ।। ३७-१८ ।।

एवं प्रदिष्टा कमलासनाद्यैः सा मोहिनी हृष्टतरा बभूव ।।
मेने कृतार्थं निजजीवितं च स्वपापतीर्थाभिनिषेवणेन ।। ३७-१९ ।।

संसाधितं कार्यमिदं सुराणां भस्मावशेषं हि गतेऽपि देहे ।।
चैतन्यमात्रे पवनात्मकेऽस्मिन् संमार्जितो भूपकृतस्तु पंथाः ।। ३७-२० ।।

नीतं मया चात्मकृतं हि वाक्यं प्रहृष्टया वै यदुदाहृतं हि ।।
एवं विमृश्य क्षिप्तिपालदेवान्प्रणम्य हृष्टा च पुरोधसं स्वम् ।। ३७-२१ ।।

प्रांते स्थिता सूर्यविहीनसंज्ञे काले दशम्या जनमोहनाय ।।
कृच्छ्रांतरूपा च दिनं च भुंक्ते प्रकृष्टरूपा नरकाय नॄणाम् ।।। ३७-२२ ।।

प्रांतस्थितां तां रविजो निरीक्ष्य प्रहृष्टवक्त्रो वचनं जगाद ।।
त्वया प्रतिष्ठा मम चारुनेत्रे कृतात्र लोके पुनरेव सम्यक् ।।
विभोदितो रुक्मविभूषणस्य मत्तेभसंस्थः पटहः सुघोषः ।। ३७-२३ ।।

दृष्टे कार्ये जनः सर्वः प्रत्ययं कुरुते त्विति ।। ३७-२४ ।।

सूर्योदय स्पृशा ह्येषा दशमी गर्हिता सदा ।।
अस्पृष्टमुदयं नॄणां मोहनाय भविष्यति ।। ३७-२५ ।।

विहाय तां यत्प्रिययोगभुक्तिं पादस्थिता सापि ह्यदृष्यरूपा ।।
सत्यं हि ते नाम विशालनेत्रे यन्मोहिनीत्येव जनो ब्रवीति ।। ३७-२६ ।।

विमोहयित्वा हि जनं समस्तं पटे मदीये लिखितं करोषि ।।
इत्येवमुक्त्वा तनयो विवस्वतः प्रणम्य तां ब्रह्मसुतां प्रहृष्टः ।। ३७-२७ ।।

जगाम देवैः सह नाकलोकं करे गृहीत्वा लिपिलेखितारम् ।।
गतेषु देवेषु विमोहिनी सा ब्रह्माणमासाद्य सुरासुरेशम् ।। ३७-२८ ।।

विज्ञापयामास पितः पुरोधा ममायमत्युग्रतरश्च कोपात् ।।
दग्धं शरीरं मम लोकनाथ पुनः प्रपत्स्येऽथ तथा कुरुष्व ।। ३७-२९ ।।

विमोहितं चैव जगन्मयेदं प्रांते समास्थाय यमस्य तिथ्याः ।।
जितो हि राज्ञा शमनः पुराद्य कृतो जयी तात तव प्रभावात् ।। ३७-३० ।।

तव कृत्यमिदं तात यत्पुनर्देहधारिणी ।।
भूयामहं जगन्नाथ ब्रह्मणं सांत्ययस्व भोः ।। ३७-३१ ।।

तच्छ्रुत्वा मोहिनीवाक्यं ब्रह्मा लोकविधानकृत् ।।
ब्राह्मणं सांत्वयामास पुनरेव सुताकृते ।। ३७-३२ ।।

वसो तात निबोधेदं यद्ब्रवीमि हितावहम् ।।
तव चास्या महाभाग सर्वलोकहिताय च ।। ३७-३३ ।।

त्वयेयं मोहिनी कोपात्कृता भस्मावशेषिता ।।
पुनः शरीरं याचेत तदाज्ञां देहि मानद । ३७-३४ ।।

मत्पुत्री तव याज्येयं दुर्गतिं तात गच्छति ।।
त्वया मया च सपाल्या कृतकार्या तपस्विनी ।। ३७-३५ ।।

यदि त्वं शुद्धभावेन मां ज्ञापयसि मानद ।।
तातोऽहमस्या भूयोऽपि देहमुत्पादयाम्यहम् ।। ३७-३६ ।।

किंतु विष्णुदिनस्यैषा वैरिणी पापकारिणी ।।
यथा शुद्ध्येति विप्रेंद्र तथैवाशु विधीयताम् ।। ३७-३७ ।।

तच्छ्रुत्वा वचनं तस्य ब्रह्मणः स पुरोहितः ।।
याज्याया देहयोगार्थमादिदेश मुदान्वितः ।। ३७-३८ ।।

विप्रवाक्यं समाकर्ण्य ब्रह्मा लोकपितामहः ।।
कमंडलुजलेनौक्षन्मोहिन्या देहभस्म तत् ।। ३७-३९ ।।

समुक्षिते ब्रह्मणा लोककर्त्रा सा मोहिनी देहयुता बभूव ।।
प्रणम्य तातं च वसोः पुरोधसो जग्राह पादौ विनयेन नत्वा ।। ३७-४० ।।

ततो वसुर्याजक एव राज्ञो मुदान्वितो याज्यनितंबिनीं ताम् ।।
विमोहिनीं स्वामिसुतोंज्झितां च जगाद वाक्यं विदुतामवीराम् ।। ३७-४१ ।।

वसुरुवाच ।।
क्रोधस्त्यक्तो मया देवि ब्रह्मणो वचनादथ ।।
गतिं ते कारयिष्यामि तीर्थस्नानादिकर्मणा ।। ३७-४२ ।।

इत्युक्त्वा मोहिनीं विप्रो ब्रह्माणां जगतां पतिम् ।।
विससर्ज नमस्कृत्य मोहिनीपितरं मुदा ।। ३७-४३ ।।

मोहिन्या वसुना चैव प्रीत्या ब्रह्मा विसर्जितः ।।
जगाम लोकं तमसः परमव्यक्तवर्त्मना ।। ३७-४४ ।।

स वसुर्ब्राह्मणश्रेष्ठो रुक्मांगदपुरोहितः ।।
मोहिनीं समनुग्राह्यां मत्वा हृदि विचारयन् ।। ३७-४५ ।।

मुहूर्त्तं ध्यानमापन्नो बुबुधे कारणं गतेः ।। ३७-४६ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सप्तत्रिंशोऽध्यायः ।। ३७ ।।