नारदपुराणम्- उत्तरार्धः/अध्यायः ७५

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

अथ लक्ष्मणाचल माहात्म्यमारभ्यते ।।

मोहिन्युवाच ।।
श्रुतं गोकर्णमाहात्म्यं वसो पापविनाशनम् ।।
लक्ष्मणस्यापि माहात्म्यं वक्तुमर्हसि सांप्रतम् ।। ७५-१ ।।

वसुरुवाच ।।
श्रृणु देवि प्रवक्ष्यामि माहात्म्यं लक्षणस्य च ।।
यं दृष्ट्वा मनुजो देवं मुच्यते सर्वपातकैः ।। ७५-२ ।।

चतुर्व्यूहावतारे यो देवः संकर्षणः स्वयम् ।।
सर्वभूमंडलं ह्येतत्स हस्रवदनः स्वराट् ।। ७५-३ ।।

एकस्मिञ्छिरसि न्यस्तं नावैत्सिद्धार्थकोपमम् ।।
देवो नारायणः साक्षाद्रामो ब्रह्मादिवेदितः ।। ७५-४ ।।

प्रद्युन्नो भरतो भद्रे शत्रुघ्नो ह्यनिरुद्धकः ।।
लक्ष्मणस्तु महाभागेस्वयं संकर्षणः शिवः ।। ७५-५ ।।

ब्रह्माद्यैः प्रार्थितः पूर्वं साक्षाद्देवो रमापतिः ।।
रामादिनामभिर्जज्ञे चतुर्द्धा दिग्ग्रन्थन्नृपात् ।। ७५-६ ।।

ततः कालांतरे देवि विश्वामित्रो मुनीश्वरः ।।
यज्ञरक्षार्थमागत्य प्रार्थयद्रामलक्ष्मणौ ।। ७५-७ ।।

ततो राजा दशरथः प्राणेभ्योऽपि प्रियौ सुतौ ।।
मुनेः शापभयाद्भीतोददौ तौ रामलक्ष्मणौ ।। ७५-८ ।।

गत्वा यज्ञं मुनींद्रस्य गाधिपस्य ररक्षतुः ।।
सताडकं सुबाहुं तु हत्वा प्रक्षिप्य दूरतः ।। ७५-९ ।।

मारीचं मानवास्त्रेण विश्वामित्रमतोषयत् ।।
यतः प्रीतान्मुनिश्रेष्ठादस्त्रग्राममवाप्य च ।। ७५-१० ।।

उवास स कियत्कालं सानुजस्तेन सत्कृतः ।।
वैदेहनगरं नीतो विश्वामित्रेण तत्परम् ।। ७५-११ ।।

ततस्तु राजा जनको विश्वामित्रं सुसत्कृतम् ।।
पप्रच्छ बालकावेतौ कस्य क्षत्त्रकुलेशितुः ।। ७५-१२ ।।

ततस्तस्मै मुनिवरो राज्ञो दशरथस्य तौ ।।
पुत्रौ निवेदयामास भ्रातरौ रामलक्ष्मणौ ।। ७५-१३ ।।

ततो विदेहः सुप्रीतो दृष्ट्वा रामं च लक्ष्मणम् ।।
सीतोर्मिलाख्यवोः पुत्र्योश्चेतसाकल्पयत्पती ।। ७५-१४ ।।

त्रिका लज्ञस्तु स मुनिर्ज्ञात्वा तस्य मनोगतम्ष।।
मोदमानोऽथ जनकं प्राह दर्शय तद्धनुः ।। ७५-१५ ।।

सीतास्वयंवरे न्यस्तं न्यासभूतं महेशितुः ।।
राजा श्रुत्वा तु तद्वाक्यं विश्वामित्रस्य सत्वरम् ।। ७५-१६ ।।

भृत्यत्रिशत्यानाय्यास्मै दर्शयामास सादरम् ।।
रामश्चंडीशचापं तद्वामदोष्णोद्धरन् क्षणात् ।। ७५-१७ ।।

सज्यं विकृष्य सहसा बभं जेक्षुमिवेभराट् ।।
ततोऽति मिथिलः प्रीतः स्वे कन्ये रामलक्ष्मणौ ।। ७५-१८ ।।

समभ्यर्च्यार्पयामास ताभ्यां ते विधिपूर्वकम् ।।
ज्ञात्वा मुनिवरादन्यौ राज्ञो दशरथस्य तु ।। ७५-१९ ।।

ताभ्यां सह तमाहूय भ्रातृकन्ये अदापयत् ।।
ततः स कृतदारैस्तु चतुर्भिस्तनयैः सह ।। ७५-२० ।।

समर्चितो विदेहेनायोध्यां मुन्याज्ञया ययौ ।।
मार्गे भृगुपतेदर्पं शमयित्वा स राघवः ।। ७५-२१ ।।

पितृभ्रातृयुतः श्रीमान्मुमुदे बहुवत्सरान् ।।
पंडितैस्तु वसिष्ठाद्यैर्बोधितोऽसौ निजं महः ।। ७५-२२ ।।

ब्रह्माख्यं बुबुधे रामो मानुषत्वं विडंबयन् ।।
ततो दशरथो राजा ज्ञातज्ञेयं निजं सुतम् ।। ७५-२३ ।।

रामं समुद्यतो इष्टो यौवरा राज्येऽभिषेचितुम् ।।
यज्ज्ञात्वा कैकयी देवी राज्ञः प्रेष्ठा कनीयसी ।। ७५-२४ ।।

सन्निवार्य हठात्तस्य पुत्रस्य तदरोचत ।।
ततो रामो मुदे तस्याः पित्राननुमतो ययो ।। ७५-२५ ।।

सभार्यः स ससौमित्रिश्चित्रकूटं गिरिं शुभे ।।
कियत्कालमुवासासौ तत्रैव मुनिवेषधृक् ।। ७५-२६ ।।

मातामहगृहात्तच्च श्रुत्वाऽऽयतः पितुर्वधम् ।।
स विज्ञाय मृतं तातं हा रामेति विराविणम् ।। ७५-२७ ।।

धिक्कृत्य कैकयीं यातो रामं स विनिवर्तितुम् ।।
ततः स्वपादुके दत्वा भरतं विनिवर्त्य च ।। ७५-२८ ।।

रामोऽत्रेश्चाप्यगस्त्यस्य सुतीक्ष्णस्याश्रमेष्वगात् ।।
तेषु द्वादश वर्षाणि गमयित्वा रघूद्वहः ।। ७५-२९ ।।

भार्यानुजान्वितः श्रीमांस्ततः पंचवटीमगात् ।।
तत्रावसज्जनस्थाने त्रिशिरःखरदूषणान् ।। ७५-३० ।।

शूर्पणख्या विकृतया प्रेरितान्स व्यनाशयत् ।।
ततो रक्षःसहस्रैश्च चतुर्दशभिरागतान् ।। ७५-३१ ।।

विचित्रवाजैर्नाराचैर्यमक्षयमनीनयत् ।।
यच्छ्रुत्वा रक्षसां राजा मारीचं कांचनं मृगम् ।। ७५-३२ ।।

दर्शयित्वापवाह्यैतौ सीतां हृत्वा जटायुषम् ।।
रुंधानं मार्गमाहत्य लंकायां समुपानयत् ।। ७५-३३ ।।

आगत्य तौ हृतां सीतां मार्गमाणौ समंततः ।।
दृष्ट्वा जटायुषं शांतं दग्ध्वा हत्वा कबंधकम् ।। ७५-३४ ।।

शबरीमनुकंप्याथ ऋष्यमूकमुपागतौ ।।
ततस्तु हनुमद्वाक्यात्स्वसख्युः प्लवगेशितुः ।। ७५-३५ ।।

विद्विषं वालिनं हत्वा सुग्रीवमकरोन्नृपम् ।।
तदाज्ञप्तास्तु ते कीशाः सर्वतः समुपागताः ।। ७५-३६ ।।

हनुमत्प्रमुखाः सीतां मार्गंतो दक्षिणोदधिम् ।।
प्राप्य संपातिवचनाल्लंकायां निश्चयं गताः ।। ७५-३७ ।।

ततस्तु हनुमानेकः प्राप्य लंकां पुरीं कपिः ।।
समुद्रस्य परे पारेऽपश्यद्रामप्रियां सतीम् ।। ७५-३८ ।।

दत्त्वा रामांगुलीरत्नं विश्वासमुपपाद्य ताम् ।।
तयोः कुशलमाश्राव्य लब्ध्वा चूडामणिं ततः ।। ७५-३९ ।।

भङ्क्त्वा चाशोकवनिकां हत्वा चाक्षं ससैन्यकम् ।।
इंद्रजिद्बंधनात्प्राप्य संभाष्यापि च रावणम् ।। ७५-४० ।।

दग्ध्वा लंकां पुरीं कृत्स्नां पुनर्दृष्ट्वा तु मैथिलीम् ।।
लब्धाज्ञोऽर्णवमुलंध्य रामायैनां न्यवेदयत् ।। ७५-४१ ।।

श्रुत्वा रामोऽपि तां सीतां राक्षसस्य निवासगाम् ।।
सार्द्धं स कपिसैन्येन संप्राप्तो मकरालयम् ।। ७५-४२ ।।

सागरानुमतेनासौ सेतुं बद्ध्वा महोदधौ ।।
अद्रिकूटैः परं तीरं प्राप्य सेनां न्यवेशयत् ।। ७५-४३ ।।

ततोऽसौ रावणो भ्रात्राबोधितोऽपि कनीयसा ।।
प्रदानं तत्रमैथिल्यास्तद्भर्त्रे न त्वरोचयत् ।। ७५-४४ ।।

पदा हतस्ततस्तेन रावणेनविभीषणः ।।
संप्राप्तः शरणं रामं रामो लंकामुपारुणत् ।। ७५-४५ ।।

ततस्तु मंत्रिणोऽमात्याः पुत्रा भृत्याः प्रचोदिताः ।।
युद्धाय ते क्षयं नीतास्ताभ्यां संख्ये कपीश्वरैः ।। ७५-४६ ।।

लक्ष्मणः शक्रजेतारं जघ्निवान्निशितैः शरैः ।।
रामोऽपि कुभश्रवणं रावणं चाप्यजीघनत् ।। ७५-४७ ।।

विभीषणेन तत्कृत्यं कारयित्वा निजां प्रियाम् ।।
वह्नौ संशोध्य दत्वास्मै रामो रक्षोगणेशताम् ।। ७५-४८ ।।

लंकामायुश्च कल्पांतं ययौ चीर्णव्रतः पुरीम् ।।
पुष्पकेण विमानेन ससुग्रीवविभीषणः ।। ७५-४९ ।।

नंदिग्रामस्थभरतं नीत्वायोध्यां समाविशत् ।।
मातॄः प्रणम्य ताः सर्वा भ्रातरस्ते पुरोधसा ।। ७५-५० ।।

बसिप्रेनानुविज्ञाप्य रामं राज्येऽभ्यषेचयन् ।।
ततो रामोऽपि भगवान्प्रजाः शासन्निवौरसान् ।। ७५-५१ ।।

लोकापवादात्संत्रस्तः सीतां तत्याज धर्मंवित् ।।
सा तु संप्राप्य वाल्मीकेराश्रमं न्यवसत्सुखम् ।। ७५-५२ ।।

पुत्रौ च सुषुवे तत्र नाम्ना ख्यातौ कुशीलवौ ।।
वल्मीकिस्तु तयोः कृत्वा यथा समुदिताः क्रियाः ।। ७५-५३ ।।

रामायणं विरच्यैतावध्यापयदुदारधीः ।।
तौ गायमानौ सत्रेषु मुनीनां ख्यातिमागतौ ।। ७५-५४ ।।

यज्ञे रामस्य संप्राप्तौ वाजिमेधे प्रवर्तिते ।।
तत्र ताभ्यां तु तद्गीतं स्वचरित्रं प्रसन्नधीः ।। ७५-५५ ।।

मुनिमाकारयामास ससीतं तत्र संसदि ।।
सा तु रामाय तौ पुत्रौ निवेद्य जगतीजनिः ।। ७५-५६ ।।

जगत्या विवरं भूयो विवेशासीत्तदद्भुतम् ।।
ततः परं ब्रह्मचर्यं यज्ञमेव त्रयोदश ।। ७५-५७ ।।

सहस्राब्दान्प्रकुवार्णस्तस्थौ भुवि रधूत्तमः ।।
ततस्तु काले दुर्वासाः संप्राप्तो राघवं प्रति ।। ७५-५८ ।।

ब्रह्मणा प्रेषितो भद्रे वैकुंठगमनाय च ।।
स एकांतगतो रामं प्राह कोऽपीहनाऽऽव्रजेत् ।। ७५-५९ ।।

आगतो वध्ग्रतां यातु रामस्तत्प्रतिजज्ञिवान् ।।
स लक्ष्मणं समाहूय प्रोवाच रघुनंदनः ।। ७५-६० ।।

द्वारि तिष्ठात्र निर्विष्टो वव्यतां मे प्रयास्यति ।।
स तथेति प्रतिज्ञाय रामस्याज्ञां समाचरन् ।। ७५-६१ ।।

प्रवेशनं न कस्यापि प्रददौ रामसन्निधौ ।।
एवमेकां तगे रामं कालसंविदमास्थितम् ।। ७५-६२ ।।

ज्ञात्वाथ द्वारि दुर्वासा लक्ष्मणं समुपागमत् ।।
तमागतं तु संप्रेक्ष्य सौमित्रिः प्रणिपत्य च ।। ७५-६३ ।।

मुहूर्तं पालयेत्याह मंत्रव्यग्रोऽस्ति राघवः ।।
दुर्वासास्तद्वचः श्रुत्वा कालस्यार्थविधायकः ।। ७५-६४ ।।

क्रुद्धः प्रोवाच सौमित्रिं देहि मेऽन्तः प्रवेशनम् ।।
नो चेत्त्वां भस्मसात्सद्यः करिष्यामि विचारय ।। ७५-६५ ।।

वचो दुर्वाससः श्रुत्वा लक्ष्मणो जातसंभ्रमः ।।
मुने र्भीतो विवेशांतर्विज्ञापयितुमग्रजम् ।। ७५-६६ ।।

दृष्ट्वा तु लक्ष्मणं काल उत्थाय कृतमंत्रकः ।।
प्रतिज्ञां पालयेत्युक्त्वा ययौ रामविसर्ज्जितः ।। ७५-६७ ।।

ततो निष्कम्य भगवान्रामो धर्मभृतां वरः ।।
प्रतोष्य तं मुनिं प्रीतो दुर्वाससमभोजयत् ।। ७५-६८ ।।

भोजयित्वा प्रणम्यैनं विसृज्य प्राह लक्ष्मणम् ।।
भ्रातर्लक्ष्मण संप्राप्तं संकटं धर्मकारणात् ।। ७५-६९ ।।

यत्त्वं मे वध्यतां प्राप्तो दैवं हि बलवत्तरम् ।।
मया त्यक्तस्ततो वीर यथेच्‌छं गच्छ सांप्रतम् ।। ७५-७० ।।

ततः प्रणम्य तं रामं सत्यधर्मे व्यवस्थितम् ।।
दक्षिणां दिशमाश्रित्य तपश्चक्रे नगोपरि ।। ७५-७१ ।।

ततो रामोऽपि भगवान्ब्रह्मप्रार्थनया पुनः ।।
स्वधा माविशदव्यग्रः ससाकेतः सकोशलः ।। ७५-७२ ।।

गोपग्रतारे सरय्वां ये रामं संचिंत्य संप्लुताः ।।
ते रामधाम विविशुर्दिव्यांगा योगिदुर्लभम् ।। ७५-७३ ।।

लक्ष्मणस्तु कियत्कालं तपोयोगश्चलान्वितः ।।
रामानुगमनेनैव स्वधामाविशदव्ययम् ।। ७५-७४ ।।

सान्निध्यं पर्वतं तस्मिन्दत्त्वा सौमित्रिरन्वहम् ।।
चक्रे निजाधिकारं स ततस्तत्क्षेत्रमुत्तमम् ।। ७५-७५ ।।

ये पश्यंति नरा भक्त्या लक्ष्मणं लक्ष्मणाचले ।।
ते कृतार्था न संदेहो गच्छंति हरि मंदिरम् ।। ७५-७६ ।।

तत्र दानं प्रशंसंति स्वर्णगोभूमिवाजिनाम् ।।
दत्तं तत्राक्षयं सर्वं हुतं जप्तं कृतं तथा ।। ७५-७७ ।।

बहुना किमिहोक्तेन दर्शनं तस्य दुर्लभम् ।।
अगस्त्याज्ञांतरा देवि दृष्टे मुक्तिर्न संशयः ।। ७५-७८ ।।

एतद्रामत्तरित्रं तु लक्ष्मणाख्यानसंयुतम् ।।
श्रावयेद्योऽपि श्रृणुयात्स्यातां तौ रामवल्लभौ ।। ७५-७९ ।।


इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे रामलक्ष्मणचरित्रसहितलक्ष्मणाचलमाहात्म्यं नाम पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।

इति लक्ष्मणाचलमाहात्म्यम् ।।