सामग्री पर जाएँ

नारदपुराणम्- उत्तरार्धः/अध्यायः ५५

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

मोहिन्युवाच ॥
कस्मिन्कालें द्विजश्रेष्ठ गंतव्यं पुरुषोत्तमे ॥
विधिना केन कर्तव्या पंचतीर्थ्यपि मानद ॥ ५५-१ ॥
एकैकस्य च तीर्थस्य स्नाने दाने च यत्फलम् ॥
देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक् ॥ ५५-२ ॥
वसुरुवाच ॥
निराहारः कुरुक्षेत्रे पादेनैकेन यस्तपेत् ॥
जितेंद्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥ ५५-३ ॥
दृष्ट्वा सकृज्ज्येष्ठशुक्लद्वादश्यां पुरुषोत्तमम् ॥
कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम् ॥ ५५-४ ॥
तस्माज्ज्येष्ठे तु सुभगे प्रयत्नेन सुसंयतैः ॥
स्वर्गलोकेप्सुभिर्मर्त्यैर्द्रष्टव्यः पुरुषोत्तमः ॥ ५५-५ ॥
पंचतीर्थीं च विधिवत्कृत्वा ज्येष्ठे नरोत्तमः ॥
द्वादश्यां शुक्लपक्षस्य पश्येत्तं पुरुषोत्तमम् ॥ ५५-६ ॥
ये पश्यंत्यव्ययं देवं द्वादश्यां पुरुषोत्तमम् ॥
ते विष्णुलोकमासाद्य न च्यवंते कदाचन ॥ ५५-७ ॥
तस्माज्ज्येष्ठे प्रयत्नेन गंतव्यं विधिनंदिनि ॥
कृत्वा सम्यक्पंचतीर्थीं द्रष्टव्यः पुरुषोत्तमः ॥ ५५-८ ॥
सुदूरस्थोऽपि प्रीतात्मा कीर्तयेत्पुरुषोत्तमम् ॥
अहन्यहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत् ॥ ५५-९ ॥
यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥ ५५-१० ॥
चक्रं दृष्ट्वा हरेर्दूरात्प्रासादोपरि संस्थितम् ॥
सहसा मुच्यते पापान्नरो भक्त्या प्रणम्य तम् ॥ ५५-११ ॥
पंचतीर्थीविधिं वक्ष्ये श्रृणु मोहिनि सांप्रतम् ॥
यस्यां कृतायां मनुजो माधवस्य प्रियो भवेत् ॥ ५५-१२ ॥
मार्गंडेयह्रदं गत्वा स्नात्वा चोदङ्मुखः शुचिः ॥
निमज्जेत्तत्र त्रीन्वारानिमं मंत्रमुदीरयेत् ॥ ५५-१३ ॥
"संसारसागरे मग्नि पापग्रस्तमचेतनम् ॥
त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥ ५५-१४ ॥
नमः शिवाय शांताय सर्वपापहराय च ॥
स्नानं करोमि देवेश मम नश्यतु पातकम्" ॥ ५५-१५ ॥
नाभिमात्रे जले स्थित्वा विधिवद्देवता ऋषीन् ॥
तिलोदकेन मतिमान्पितॄनन्यांश्च तर्पयेत् ॥ ५५-१६ ॥
स्नात्वैवं च तथाचम्य ततो गच्छेच्छिवालयम् ॥
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ५५-१७ ॥
मूलमंत्रेण संपूज्य मार्कंडेयेशमादरात् ॥
अघोरेण तु मंत्रेण प्रणिपत्य क्षमापयेत् ॥ ५५-१८ ॥
"त्रिलोचन नमस्तेऽस्तु नमस्ते शशिभूषण ॥
त्राहि मां पुंडरीकाक्ष महादेव नमोऽस्तुते" ॥ ५५-१९ ॥
मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शंकरम् ॥
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ५५-२० ॥
पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति ॥
तत्र भुक्त्वा वरान्भोगान्यावदाभूतसंप्लवम् ॥ ५५-२१ ॥
इह लोकं समासाद्य भवेद्विप्रो बहुश्रुतः ॥
शांकरंयोगमासाद्य ततो मोक्षमवाप्नुयात् ॥ ५५-२२ ॥
कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् ॥
पूजयेत्परया भक्त्या मंत्रेणानेन तं वटम् ॥ ५५-२३ ॥
"ॐ नमोऽव्यक्तरूपाय महते नतपालिने ॥
महोदकोपविष्टाय न्यग्रोधाय नमोऽस्तु ते ॥ ५५-२४ ॥
अवसस्त्वं सदा कल्पे हरेश्चायतने वटे ॥
न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते" ॥ ५५-२५ ॥
भक्त्या प्रदक्षिणं कृत्वा गत्वा कल्पवटं नरः ॥
सहसोज्झति पापौघं जीर्णां त्वचमिवोरगः ॥ ५५-२६ ॥
छायां तस्य समाक्रम्य कल्पवृक्षस्य मोहिनि ॥
ब्रह्मह्त्यां नरो जह्यात्पापेष्वन्येषु का कथा ॥ ५५-२७ ॥
दृष्ट्वा कृष्णांगसंभूते ब्रह्मतेजोमयं परम् ॥
न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च वैधसि ॥ ५५-२८ ॥
राजसूयाश्वमेधाभ्यां फल प्राप्नोति चाधिकम् ॥
तथा कुलं समुद्धृत्य विष्णुलोकं स गच्छति ॥ ५५-२९ ॥
वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् ॥
सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥ ५५-३० ॥
दृष्ट्वा वटं वैनतेयं यः पश्येत्पुरुषोत्तमम् ॥
संकर्षणं सुभद्रां च स याति परमां गतिम् ॥ ५५-३१ ॥
प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् ॥
संकर्षणं सुभद्रां च भक्त्या पूज्य प्रसादयेत् ॥ ५५-३२ ॥
नमस्ते हलधृङ्नाम्ने नमस्ते मुसलायुध ॥
नमस्ते रेवतीकांत नमस्ते भक्तवत्सल ॥ ५५-३३ ॥
नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर ॥
प्रलंबारे नमस्तेऽस्तु त्रीहि मां कृष्णपूर्वज ॥ ५५-३४ ॥
एवं प्रसाद्य चानंतमजेयं त्रिदशार्चितम् ॥
कैलासशिखराकारं चंद्रकांतवराननम् ॥ ५५-३५ ॥
नीलवस्त्रधरं देवं फणाविकटमस्तकम् ॥
महाबलं हलधरं कुंडलैकविभूषितम् ॥ ५५-३६ ॥
रौहिणेयं नरो भक्त्या लभेदभिमतं फलम् ॥
सर्वपापैर्विनिर्मुक्तो विष्णुलोकं च गच्छति ॥ ५५-३७ ॥
आभूतसंप्लवं यावद्भुक्त्वा तत्र स्वयं बुधः ॥
पुण्यक्षयादिहागत्य प्रवरो योगिनां कुले ॥ ५५-३८ ॥
ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः ॥
ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ ५५-३९ ॥
एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः ॥
द्वादशाक्षरमंत्रेण पूजयेत्सुसमाहितः ॥ ५५-४० ॥
द्विषट्कवर्णमंत्रेण भक्त्या ये पुरुषोत्तमम् ॥
पूजयंति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥ ५५-४१ ॥
न तां गतिं सुरा यांति योगिनो नैव सोमपाः ॥
यां गतिं यांति विधिजे द्वादशाक्षरतत्पराः ॥ ५५-४२ ॥
तस्मात्तेनैव मंत्रेण भक्त्या कृष्णं जगद्गुरुम् ॥
संपूज्य गंधपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥ ५५-४३ ॥
जय कृष्ण जगन्नाथ जय सर्वाघनाशन ॥
जय चाणूरकेशिघ्नजय कंसनिषूदन ॥ ५५-४४ ॥
जय पद्मपलाशाक्ष जय चक्रगदाधर ॥
जय नीलांबुदश्याम जय सर्वसुखप्रद ॥ ५५-४५ ॥
जय देव जगत्पूज्य जय संसारनाशन ॥
जय लोकपते नाथ जय वांछाफलप्रद ॥ ५५-४६ ॥
संसारसागरे घोरे निःसारे दुःखफेनिले ॥
क्रोधग्राहाकुले रौद्रे विषयोदकसंप्लवे ॥ ५५-४७ ॥
नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे ॥
निमग्नोऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥ ५५-४८ ॥
एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् ॥
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ ५५-४९ ॥
पीनांसं द्विभुजं कृष्णं पद्मपत्रायतेक्षणम् ॥
महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥ ५५-५० ॥
शंखचक्रगदापाणिं मुकुटांगदभूषणम् ॥
सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥ ५५-५१ ॥
दृष्ट्वा नरोंऽजलिं कृत्वा दंडवत्प्रणिपत्‌य च ॥
अश्वमेधसहस्राणां फलं प्राप्नोति मोहिनि ॥ ५५-५२ ॥
यत्फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५५-५३ ॥
यत्फलं सर्ववेदेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥ ५५-५४ ॥
यत्फलं सर्वदानेषु व्रतेषु नियमेषु च ॥
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५५-५५ ॥
यत्फलं ब्रह्मचर्येण सम्यक् चीर्णेन कीर्तितम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५५-५६ ॥
गार्हस्थ्येन यथोक्तेन यत्फलं समुदाहृतम् ॥
नरस्त्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितम् ॥ ५५-५७ ॥
यत्फलं वनवासेन वानप्रस्थस्य कीर्तितम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितम् ॥ ५५-५७ ॥
सन्यासेन यथोक्तेन यत्फलं समुदाहृतम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितम् ॥ ५५-५९ ॥
किं चात्र बहुनोक्तेन माहात्म्यं तस्य भामिनि ॥
दृष्ट्वा कृष्णं नरोभक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥ ५५-६० ॥
पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः ॥
श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥ ५५-६१ ॥
सर्वकामसमृद्धेन विमानेन सुवर्चसा ॥
त्रिःसप्तकुलमृद्धृत्य नरो विष्णुपुरं व्रजेत् ॥ ५५-६२ ॥
ततः कल्पशतं यावद्बुक्त्वा भोगान्मनोरमान् ॥
गंधर्वाप्सरसैः सार्धं यथा विष्णुश्चतुर्भुजः ॥ ५५-६३ ॥
च्युतस्तस्मादिहायातो विप्राणां प्रवरे कुले ॥
सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥ ५५-६४ ॥
स्वधर्मनिरतः शांतो दाता भूतहिते रतः ॥
आसाद्य वैष्णवं ज्ञानं ततो मुक्तिमवाप्नुयात् ॥ ५५-६५ ॥
ततः संपूज्य मंत्रेण सुभद्रां भक्तवत्सलाम् ॥
प्रसादयेच्च विधिजेप्रणिपत्य कृतांजलिः ॥ ५५-६६ ॥
"नमस्ते सर्वगे देवि नमस्ते शुभसौख्यदे ॥
त्राहि मां पद्मपत्राक्षि कात्यायनि नमोऽस्तु ते" ॥ ५५-६७ ॥
एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् ॥
बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥ ५५-६८ ॥
कामगेन विमानेन नरो विष्णुपुरं व्रजेत् ॥
आभूतसंप्लवं यावत्क्रीडित्वा तत्र देववत् ॥ ५५-६९ ॥
इह मानुषतां प्राप्तो ब्राह्मणो वेदविद्भवेत् ॥
प्राप्य योगं हरेस्तत्र मोक्षं च लभते ध्रुवम् ॥ ५५-७० ॥
निष्क्रम्य देवतागारात्कृतकृत्यो भवेन्नरः ॥
प्रणम्यायतने पश्चाद्व्रजेत्तत्र समाहितः ॥ ५५-७१ ॥
इंद्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः ॥
अंतर्धानेऽपि तं नत्वा ततो विष्णुपुरं व्रजेत् ॥ ५५-७२ ॥
सर्वदेवमयो देवो हिरण्यकशिपूद्धरः ॥
यत्रास्ते नित्यदा देवि सिंहार्द्धकृतविग्रहः ॥ ५५-७३ ॥
भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नृहरिं शुभे ॥
मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥ ५५-७४ ॥
नरसिंहस्य ये भक्त्या भवंति भुवि मानवाः ॥
न तेषां दुष्कृतं किंचित्फलं च स्याद्यदीप्सितम् ॥ ५५-७५ ॥
तस्मात्सर्वप्रयत्नेन नरसिंहं समाश्रयेत् ॥
धर्मार्थकाममोक्षाणां फलं यस्मात्प्रयच्छति ॥ ५५-७६ ॥
तस्मात्तं ब्रह्मतनये भक्त्या संपूजयेत्सदा ॥
मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥ ५५-७७ ॥
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रांत्यजादयः ॥
संपूज्य तु सुरश्रेष्ठं भक्ताः सिंहवपुर्द्धरम् ॥ ५५-७८ ॥
मुच्यंते चाशुभाहुःखाज्जन्मकोटिसमुद्भवात् ॥
संपूज्य तं सुरश्रेष्ठं प्राप्नुवंत्यभिवांछितम् ॥ ५५-७९ ॥
देवत्वममरेशत्वं धनेशत्वं च भामिनि ॥
यक्षविद्याधरत्वं च तथान्यच्च प्रयच्छति ॥ ५५-८० ॥
श्रृणुष्व नरसिंहस्य प्रभावं विधिनंदिनि ॥
अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ ५५-८१ ॥
कः शक्नोति गुणान्वक्तुं समस्तांस्तस्य सुव्रते ॥
सिंहार्द्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ ५५-८२ ॥
याः काश्चित्सिद्धयश्चात्र श्रूयंते दैवमानुषाः ॥
प्रसादात्तस्य ताः सर्वाः सिद्ध्यंते नात्र संशयः ॥ ५५-८३ ॥
स्वर्गे मर्त्ये च पाताले दिवितोये सुरे नगे ॥
प्रसादात्तस्य देवस्य भवत्यव्याहता गतिः ॥ ५५-८४ ॥
असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे ॥
नरसिंहस्य सुभगे सदा भक्तानुकंपिन ॥ ५५-८५ ॥
विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् ॥
येन प्रसीदते चासौ सिंहार्द्धकृतविग्रहः ॥ ५५-८६ ॥
यत्तत्वं तस्य देवस्य तदज्ञातं सुरासुरैः ॥
शाकयावकमूलैस्तु फलपिण्याकसक्तुभिः ॥ ५५-८७ ॥
पयोभक्ष्येण वा भद्रे वर्तते साधकेश्वरः ॥
कासकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः ॥ ५५-८८ ॥
अरण्ये विजने देशे नदीसंगमपर्वते ॥
सिद्धक्षेत्रे चोषरे च नरसिंहाश्रमे तथा ॥ ५५-८९ ॥
प्रतिष्ठाप्य स्वयं चापि पूजांकृत्वा विधानतः ॥
उपपातकवान्देवि महापातकवानपि ॥ ५५-९० ॥
मुक्तो भवेत्पातकेभ्यः साधको नात्र संशयः ॥
कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् ॥ ५५-९१ ॥
गंधपुष्पादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥
कर्पूरचंदनाक्तानि जातीपुष्पाणि मस्तके ॥ ५५-९२ ॥
प्रदद्यान्नरसिंहस्य ततः सिद्धिः प्रजायते ॥
भगवान्सर्वकार्येषु न क्वचित्प्रतिदूयते ॥ ५५-९३ ॥
न शक्तास्तं समाक्रांतुं ब्रह्मरुद्रादयः सुराः ॥
किं पुनर्दानवा लोके सिद्धगंधर्वमानुषाः ॥ ५५-९४ ॥
विद्याधरां यक्षगणाः सकिन्नरमहोरगाः ॥
ते सर्वे प्रलयं यांति दिव्या दिव्याग्नितेजसा ॥ ५५-९५ ॥
सकृज्जप्त्वाग्निशिखया हन्यात्सर्वानुपद्रवान् ॥
त्रिर्जप्त्वा कवचं दिव्यं संरक्षेद्दैत्यदानवात् ॥ ५५-९६ ॥
भूतात्पिशाचाद्रक्षोभ्यो ये चान्ये परिपंथिनः ॥
त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः ॥ ५५-९७ ॥
योजनद्वादशांतस्तु देवो रक्षति सर्वदा ॥
नरसिंहो महाभागे महाबलपराक्रमः ॥ ५५-९८ ॥
ततो गत्वा बिलद्वारमुपोष्य रजनत्रयम् ॥
पलाशकाष्ठैः प्रज्वाल्य भगवज्जातवेदसम् ॥ ५५-९९ ॥
पालाशसमिधं तत्र जुहुयात्त्रिमधुप्लुताम् ॥
द्वेऽयुते कंजनयने शकटश्चैव साधकः ॥ ५५-१०० ॥
ततः कवल्लीविवरं प्रकटं जायते क्षणात् ॥
ततो विशेत्तु निःशंकः कवल्लीविवरं बुधः ॥ ५५-१०१ ॥
गच्छतः शकटस्याथ तमो मोहश्च नश्यति ॥
राजमार्गस्तु विस्तीर्णो दृश्यते तत्र मोहिनि ॥ ५५-१०२ ॥
नरसिंहं स्मरंस्तत्र पातालं विशते तदा ॥
गत्वा तत्र जपेच्छुद्धो नरसिंहं तमव्ययम् ॥ ५५-१०३ ॥
ततः स्त्रीणां सहस्राणि वीणाचामरकर्मणाम् ॥
निर्गच्छँति पुराच्चैव स्वागतं ता वदंति च ॥ ५५-१०४ ॥
प्रवेशयंति तं हस्ते गृहीत्वा साधकेश्वरम् ॥
ततो रसायनं दिव्यं पाययंति सुलोचने ॥ ५५-१०५ ॥
पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥
क्रीडते दिव्यकन्याभिर्यावदाभूतसंप्लवम् ॥ ५५-१०६ ॥
भिन्नदेहो वासुदेवं नीयते नात्र संशयः ॥
यदा न रोचयन्त्येतास्ततो निर्गच्छते पुनः ॥ ५५-१०७ ॥
पट्टं शूलं च खङ्गं च रोचनां च मणिं तथा ॥
रसं रसायनं चैव पादुकांजनमेव च ॥ ५५-१०८ ॥
कृष्णांजलिं च सुभगे गुटिकां च मनःशिलाम् ॥
मुंडलां चाक्षसूत्रं च षष्ठीं संजीवनीं तथा ॥ ५५-१०९ ॥
सिद्धां विद्यां च शास्त्राणि गृहीत्वा साधकोत्तमः ॥
ज्वलद्वह्निस्फुलिंगोर्मिवेष्टितं त्रिदशं हृदि ॥ ५५-११० ॥
सकृन्न्यस्तं दहेत्सर्वं वृजिनं जन्मकोटिकम् ॥
विषेन्यस्तं विषं हन्यात्कुष्ठं हन्यात्तनौ स्थितम् ॥ ५५-१११ ॥
सुदेहभ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥
महाग्रहगृहीतेषु ज्वलमानं विचिंतयेत् ॥ ५५-११२ ॥
रुदंतिं वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः ॥
बालानां कंठके बद्ध्वा रक्षा भवति नित्यशः ॥ ५५-११३ ॥
गंडपिंडककृत्यानां नाशनं कुरुते ध्रुवम् ॥
व्याधिघाते समिद्भिश्च घृतं क्षीरेण होभयेत् ॥ ५५-११४ ॥
त्रिसंध्यं मासमेकं तु सर्वरोगान्विनाशयेत् ॥
असाध्यं नास्य पश्यामि तत्वस्य सचराचरे ॥ ५५-११५ ॥
यां यां कामयते सिद्धिं तां तां प्राप्नोत्यपि ध्रुवम् ॥
अष्टोत्तरशतं त्वेकं पूजयित्वा मृगाधिपम् ॥ ५५-११६ ॥
मृत्तिकां सप्त वल्मीके श्मशाने च चतुष्पथे ॥
रक्तचंदनसंमिश्रां गवां क्षीरेण लेपयेत् ॥ ५५-११७ ॥
सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडंगुलाम् ॥
भूर्जपत्रे विशेषेण लिखेद्रोचनया तथा ॥ ५५-११८ ॥
नरसिंहस्य कंठे तु बद्ध्वा चैव समंत्रवत् ॥
जपेत्संख्याविहीनं तु पूजयित्वा जलाशये ॥ ५५-११९ ॥
यावन्मंत्रं तु जपति सप्ताहं संयतेन्द्रियः ॥
जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी ॥ ५५-१२० ॥
अथवा शुद्धवृक्षाग्रे नरसिंहं तु पूजयेत् ॥
जप्त्वा चाष्टशतं तत्त्वं वर्षं तद्विनिवारयेत् ॥ ५५-१२१ ॥
तमेव पिंजके बद्ध्वा भ्रामयेत्साधकोत्तमः ॥
महावातो मुहूर्तेन आगच्छेन्नात्र संशयः ॥ ५५-१२२ ॥
पुनश्च वारयन्सिक्तां सप्तजप्तेन वारिणा ॥
अथ तां प्रतिमां द्वारे निखनेद्यस्य साधकः ॥ ५५-१२३ ॥
गोत्रोत्सादो भवेत्तस्य उद्धृते चैव शांतिदः ॥
तस्माद्वै ब्रह्मतनये पूजयेद्भक्तितः सदा ॥ ५५-१२४ ॥
मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥
दृष्ट्वा स्तुत्वा नमस्कृत्य संपूज्य नृहरिं शुभे ॥ ५५-१२५ ॥
प्राप्नुवंति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् ॥
नरसिंहं नरो दृष्ट्वा लभेदभिमतं फलम् ॥ ५५-१२६ ॥
विमुक्तः सर्वपापेभ्यो विष्णु लोकं च गच्छति ॥
सकृद्दृष्‌टवा तु तं देवं भक्त्या सिंहवपुर्द्धरम् ॥ ५५-१२७ ॥
मुच्यते पातकैः सर्वैः कायवाक्चित्तसंभवैः ॥
संग्रामे संकटे दुर्गे चौख्याघ्रादिपीडिते ॥ ५५-१२८ ॥
कांतारे प्राणसंदेहे विषवह्निजलेषु च ॥
राजादिभीषु संग्रामे ग्रहरोगादिपीडिते ॥ ५५-१२९ ॥
स्मृत्वा तं यो हि पुरुषः संकटैर्विप्रमुच्यते ॥
सूर्योदये यथा नाशं तमोऽभ्येति महत्तरम् ॥ ५५-१३० ॥
तथा संदर्शने तस्य विनाशं यांत्युपद्रवाः ॥
गुटिकां जनपाताले पादलेपरसायनम् ॥ ५५-१३१ ॥
नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वांछितान् ॥
यान्यान्कामानभिध्यायन्भजेत नृहरिं नरः ॥ ५५-१३२ ॥
तांस्तान्कामानवाप्नोति नरो नास्त्यत्र संशयः ॥ ५५-१३३ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये पंचपंचाशत्तमोऽध्यायः ॥ ५५ ॥