नारदपुराणम्- उत्तरार्धः/अध्यायः १०
वसिष्ठ उवाच ।।
ततः प्राह विशालाक्षी भर्तुर्वाक्यं निशम्य सा ।।
सत्यमुक्तं त्वया राजन्पुत्रसौख्यात्परं सुखम् ।। १०-१ ।।
न भवेदिह राजेंद्र मुनीनां भाषितं यथा ।।
तुल्यं भवति लोकेऽस्मिन् विष्ण्वाख्यस्य परस्य हि ।। १०-२ ।।
पुत्रे भारस्त्वया न्यस्तः सप्तद्वीपसमुद्भवः ।।
मार्गी हिंसां परित्यज्य यज्ञैरिष्ट्वा जनार्दनम् ।। १०-३ ।।
भोगस्पृहां परित्यज्य सेवस्व सुरनिम्नगाम् ।।
एतन्न्याय्यं भवति भो न न्याय्यो मृगनिग्रहः ।। १०-४ ।।
हृदये नखपातो हि वृद्धाया भूपते यथा ।।
तथा विषयसेवा हि पितॄणां पुत्रिणां विदुः ।। १०-५ ।।
गृहे वापि हृषीकेशं पूजयस्व महीपते ।।
निर्दोषमृगयूथानां न युक्तं सूदनं तव ।। १०-६ ।।
अहिंसा परमो धर्मः पुराणे परिकीर्तितः ।।
हिंसया वर्तमानस्य व्यर्थो धर्म्मोभवेदिति ।।
कुर्वन्नपि वृथा धर्मान्यो हिंसामनुवर्तते ।। १०-७ ।।
परैरुपहतां भूप नोपभुंजंति साधवः ।।
षड्विधं नृप ते प्रोक्तं विद्वद्भिर्जीवघातनम् ।। १०-८ ।।
अनुमोदयिता पूर्वं द्वितीयो घातकः स्मृतः ।।
विश्वासकस्तृतीयोऽपि चतुर्थो भक्षकस्तथा ।।
पंचमः पाचकः प्रोक्तः षष्ठो भूपात्र विग्रही ।।
हिं सया संयुतं धर्ममधर्मं च विदुर्बुधाः ।। १०-९ ।।
न पापं कुरुते भूप पुत्रे भारं निवेश्य वै ।।
धर्मं समाश्रयमन्सम्यक्संजातपलितः पिता ।। १०-१० ।।
परित्यज्य इमं भावं मृगहिंसासमुद्भवम् ।।
मृगशीला हि राजानो विनष्टाः शतशो नृप ।। १०-११ ।।
तस्माद्दुष्टं हि तन्मन्ये यत्र मृगपातनम् ।।
दया वरा मृगेराज्ञां धर्मिणामपि दृश्यते ।। १०-१२ ।।
निवारितो मया हि त्वं हितबुद्ध्या पुनः पुनः ।।
एवं ब्रुवाणां तां भार्यां नृपो वचनमब्रवीत् ।। १०-१३ ।।
नहिहिंसे मृगान्देवि मृगव्याजेन कानने ।।
पर्य्यटिष्ये धनुष्पाणिः कुर्वन्कंटकशोधनम् ।। १०-१४ ।।
जनमध्ये सुतो मेऽस्तु काननेऽहं वरानने ।।
श्वापदेभ्यश्च दस्युभ्यः प्रजा रक्ष्या महीभृता ।। १०-१५ ।।
आत्मनावाथ पुत्रेण गोपनीयाः प्रजा शुभे ।।
प्रजा अरक्षन्नृपतिः सधर्म्मोऽपि व्रजत्यधः ।। १०-१६ ।।
सोऽहं रक्षणमुद्दिश्यगमिष्यामि वनं प्रिये ।।
विमुक्तभावोऽहमिति मेरुश्रृंगे रविर्यथा ।। १०-१७ ।।
एवमुद्दिश्य तां राजा आरुरोह हयोत्तमम् ।।
दोषापतिसमप्रख्यं निर्दोषं क्षितिभूषणम् ।। १०-१८ ।।
देववाहसमं रूपे प्रभंजनसमं जवे ।।
धरामादृत्य भूपालो दत्वा तं दक्षिणं करम् ।। १०-१९ ।।
सहस्रकोटिदातारं कामिनीकुचपीडनम् ।।
अशोकपल्लवाकारं वज्रांकुशविरोहणम् ।। १०-२० ।।
संप्रतस्थे महीपालश्चालयानो महीतलम् ।।
साधयानो ययौ देशान्काननं स नृपोत्तमः ।। १०-२१ ।।
वाजिवेगेन निर्द्धूता वारणाः स्यंदना हयाः ।।
पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले ।। १०-२२ ।।
स राजा सहसा प्राप्तो मुनीनामाश्रमं परम् ।।
योजनानां समुत्तीर्य शतमष्टोत्तरं नृप ।। १०-२३ ।।
प्रविवेशाश्रमं रम्यं कदलीखण्डमण्डितम् ।।
अशोकबकुलोपेतं पुन्नागसरलावृतम् ।। १०-२४ ।।
मातुलिंगैः कपित्थैश्च खर्जूरैः पनसादिभिः ।।
नारिकेलैस्तथा तालैः केतकैः सिंदुवारकैः ।। १०-२५ ।।
चन्दनैः सतमालैश्च सालैः पिप्पलचंपकैः ।।
क्रमुकैर्दाडिमैश्चैव धात्रीवृक्षैः सहस्रशः ।। १०-२६ ।।
निम्बवृक्षैश्च बहुशस्तथाम्रैर्लोध्रपादपैः ।।
परिपक्वफलैर्नम्रैः खगारूढैः समावृतम् ।। १०-२७ ।।
ह्यद्येन वायुना युक्तं पुष्पगन्धावृतेन हि ।।
पश्यमानो मुनिं राजा ददर्श हुतभुक्प्रभम् ।। १०-२८ ।।
वामदेवं द्विजवरं बहुशिष्यसमावृतम् ।।
अवरुह्य हयाद्दृष्ट्वा प्रणनाम च सादरम् ।। १०-२९ ।।
तेनापि मुनिना राजा ह्यर्घाद्यैरभिपूजितः ।।
उपविश्यासने कौशे प्राह संहृष्टया गिरा ।। १०-३० ।।
अद्य मे पातकं क्षीणं संप्राप्तं कर्मणः फलम् ।।
दृष्ट्वा तव पदांभोजं सम्यग्ध्यानपरस्य च ।। १०-३१ ।।
तच्छ्रुत्वा वचनं तस्य रुक्मांगदमहीपतेः ।।
संपृष्ट्वा कुशलं प्राह वामदेवो मुदान्वितः ।। १०-३२ ।।
राजंस्त्वयातिपुण्येन विष्णुभक्तेन वीक्षितः ।।
ममाश्रमो महाभाग पुण्यो जातो धरातले ।। १०-३३ ।।
कस्तेऽन्यस्तुल्यतामेति पार्थिवो धरणीतले ।।
येन वैवस्वतो माग्रो भग्नो निर्जित्य वै यमम् ।। १०-३४ ।।
प्रापितः सकलो लोको वैकुंठं पदमव्ययम् ।।
उपोषयित्वा नृपतेद्वादशीं पापनाशिनीम् ।। १०-३५ ।।
चतुर्भिः शोभनोपायैः प्रजाः सयम्य भूतले ।।
स्वकर्मस्था विकर्मस्था नीता मधुभिदः पदम् ।। १०-३६ ।।
सोऽस्माकं द्रष्टुकामानां संप्राप्तो दर्शनं नृप ।।
श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः ।। १०-३७ ।।
विष्णुभक्तिविहीनस्तु द्विजोऽपि श्वपचाधिकः ।।
दुर्लभा भूप राजानो विष्णुभक्ता महीतले ।। १०-३८ ।।
नावैष्णवो भवेद्राजा क्षितिलक्ष्मीप्रसाधकः ।।
यो न राजा हरेर्भक्तो देवेष्वन्येषु भक्तिमान् ।। १०-३९ ।।
यथा जारे पतिं त्यक्त्वा रता स्त्री स तथा नृपः ।।
एवं व्यतिक्रमस्तस्य नृपतेर्भवति ध्रुवम् ।। १०-४० ।।
धर्मस्यार्थस्य कामस्य प्रज्ञायाश्च गतेरपि ।।
तत्त्वया न्यायविहितं कृतं विष्णोः प्रपूजनम् ।। १०-४१ ।।
तेन धन्योऽसि नृपते वयं धन्यास्तवेक्षणात् ।।
इत्येवं भाषमाणं तु वामदेवं नृपोत्तमः ।। १०-४२ ।।
उवाचावनतो भूत्वा प्रकृत्या विनयान्वितः ।।
क्षामये त्वा द्विजश्रेष्ठ नाहमेतादृशो विभो ।। १०-४३ ।।
त्वत्पादपांसुना तुल्यो नाहं विप्र भवामि हि ।।
न विप्रेभ्योऽधिका देवा भवंतीह कदाचन ।। १०-४४ ।।
परितुष्टैर्द्विजैर्भक्तिर्जंतोर्भवति माधवे ।।
द्वेष्यो भवति तै रुष्टैः सत्यमेतन्मयेरितम् ।। १०-४५ ।।
तमाह वामदेवस्तु ब्रूहि किं ते ददाम्यहम् ।।
नादेयं विद्यते राजन्गृहायातस्य तेऽधुना ।। १०-४६ ।।
अभीष्टं हि महीपाल यो ददाति महीतले ।।
पटहं वासरे विष्णोः प्रजाभोजनवारणम् ।। १०-४७ ।।
तमाह नृपतिर्विप्रं कृतांजलिपुटस्तदा ।।
प्राप्तमेव मया सर्वं त्वदंघ्रियुगलेक्षणात् ।। १०-४८ ।।
ममैकः संशयो ब्रह्मन् वर्तते बहुकालतः ।।
तं पृच्छामि द्विजाग्र्यं त्वां सर्वसंदेहभञ्जनम् ।। १०-४९ ।।
त्रैलोक्यसुन्दरी भार्या मम केन सुकर्मणा ।।
या विलोकयते दृष्ट्या मां सदा मन्मथाधिकम् ।। १०-५० ।।
यत्र यत्र पदं देवी ददाति वरवर्णिनी ।।
तत्र तत्र निधानानि प्रकाशयति मेदिनी ।। १०-५१ ।।
यस्याश्चांगं जराहीनं वलीपलितवर्जितम् ।।
सदा भाति मुनिश्रेष्ठ शारदेंदुप्रभा यथा ।। १०-५२ ।।
विनाग्निनापि सा विप्र साधयत्येव षड्रसम् ।।
अन्नं पचति यत्स्वल्पं तस्मिन्भुञ्जंति कोटयः ।। १०-५३ ।।
पतव्रता दानशीला सर्वभूतसुखावहा ।।
नावज्ञा क्रियते ब्रह्मन् वाक्येनापि प्रसूप्तया ।। १०-५४ ।।
यस्यां जातस्तु तनयो ममाज्ञायां स्थितः सदा ।।
अहमेव धरापृष्ठे पुत्री द्विजवरोत्तम ।। १०-५५ ।।
यस्य पुत्रः पितुर्भक्तो ह्यधिको गुणसंचयैः ।।
एकद्वीपपतिश्चाहं विदितो धरणीतले ।। १०-५६ ।।
पुत्रो ममाधिको जातः सप्तद्वीपप्रपालकः ।।
मदर्थे येन विप्रेंद्र समानीता नृपात्मजा ।। १०-५७ ।।
विद्युल्लेखेति विख्याता रणे जित्वा महीभुजः ।।
अथ तेनाधिपतिना रूपद्रविणशालिना ।। १०-५८ ।।
षण्मासेन रणे जित्वा कृत्वा सर्वान्निरायुधान् ।।
यो गत्वा प्रमदाराज्यं जित्वा ताः प्रमदा रणे ।। १०-५९ ।।
आजहार शुभास्तासां मध्यादष्टौ वरांगनाः ।।
प्रददौ मयि ताः सर्वाः प्रणम्य च पुनः पुनः ।। १०-६० ।।
यानि वासांसि दिव्यानि यानि रत्नानि भूतले ।।
तानि मे प्रददौ पुत्रो जनन्या तूपवर्णितः ।। १०-६१ ।।
एकाह्ना पृथिवीं सर्वामतीत्य बहुयोजनाम् ।।
पुनरायाति शर्वर्यां मत्पादाभ्यंगकारणात् ।। १०-६२ ।।
निशीथेंऽगानि संवाह्य द्वारि तिष्ठति दंशितः ।।
प्रबोधयन्प्रेष्यजनान्निद्रया संकुलेंद्रियान् ।। १०-६३ ।।
तथायं मे मुनिश्रेष्ठ देहो रोगविवर्जितः, ।।
अप्रमेयं मम सुखं वशगा हि प्रिया गृहे ।। १०-६४ ।।
वाजिनो वारणाश्चैव धनधान्यमनंतकम् ।।
वर्तते हि जनः सर्वो ममाज्ञापालकः क्षितौ ।। १०-६५ ।।
केन कर्मप्रभावेण ममेदं सांप्रतं सुखम् ।।
इह जन्मकृतं वापि परजन्मकृतं तथा ।। १०-६६ ।।
मम पुण्यं वद ब्रह्मन् विचार्य स्वमनीषया ।। १०-६७ ।।
देहे न रोगो वशगाप्रिया च गृहे विभूतिर्नृहरौ च भक्तिः ।।
विद्वत्सु पूजा द्विजदानशक्तिर्मन्येऽहमेतत्सुकृतप्रसूतम् । १०-६८ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्मांगद वामदेवसंवादो नाम दशमोऽध्यायः ।। १० ।।