नारदपुराणम्- उत्तरार्धः/अध्यायः ५६
वसुरुवाच ।।
अन्यच्छणु महाभागे तस्मिञ्छ्रीपुरुषोत्तमे ।।
तीर्थव्रजं महत्पुण्यं दर्शनात्पापनाशनम् ।। ५६-१ ।।
अनंताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च ।।
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ।। ५६-२ ।।
श्वेतगंगां नरः स्नात्वा यः पश्येच्छ्वतमाधवम् ।।
मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ।। ५६-३ ।।
तुषारप्रतिमं शुद्धं शंखचक्रगदाधरम् ।।
सर्वलक्षणसंयुक्तं पुंडरीकायतेक्षणम् ।। ५६-४ ।।
श्रीवत्सवक्षसा युक्तं सुप्रसन्नं चतुर्भुजम् ।।
वनमालावृतोरस्कं मुकुटांगदधारिणम् ।। ५६-५ ।।
पीतवस्त्रं सुपीनांसं कुंडलाभ्यामलं कृतम् ।।
कुशाग्रेणापि राजेंद्र श्वेतगांगेयमेव च ।। ५६-६ ।।
स्पृष्ट्वा स्वर्गं गमिष्यंति विष्णुभक्ताः समाहिताः ।।
यस्त्विमां प्रतिमां पश्येन्माधवाख्यां शशिप्रभाम् ।। ५६-७ ।।
शंखगोक्षीरसंकाशामशेषाघविनाशिनीम् ।।
तां प्रणम्य सकृद्भक्त्या पुंडरीकनिभेक्षणाम् ।। ५६-८ ।।
विहाय सर्वकामान्वै विष्णुलोके महीयते ।।
मन्वंतराणि तत्रैव देवकन्याभिरावृतः ।। ५६-९ ।।
गीयमानश्च गंधर्वैः सिद्धविद्याधरार्चितः ।।
भुनक्ति विपुलान्भोगान्यथेष्टं दैवतैः सह ।। ५६-१० ।।
च्युतस्तस्मादिहागत्य मानुष्ये ब्राह्मणो भवेत् ।।
वेदवेदांगविद्धीमान् भोगवांश्चिरजीवितः ।। ५६-११ ।।
गजाश्वरथयानाढ्यो धनधान्यवृतः शुचिः ।।
रूपवान्बहुभाग्यश्च पुत्रपौत्रसमन्वितः ।। ५६-१२ ।।
पुरुषोत्तमं पुनः प्राप्य वटमूलेऽथ सागरे ।।
त्यक्त्वा देहं हरिं स्मृत्वा ततः शांतं पदं व्रजेत् ।। ५६-१३ ।।
श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् ।।
एकार्णवे जले पूर्वं रूपं रोहितमास्थितः ।। ५६-१४ ।।
वेदानां हरणार्थाय रसातलतले स्थितः ।।
चिंतयित्वा क्षितिं मत्स्यं तस्मिन्स्थाने व्यवस्थितम् ।। ५६-१५ ।।
आधाय तरुणं रूपं माधवं मत्स्यमाधवम् ।।
प्रणम्य प्रयतो भूत्वा सर्वान्कष्टान्विमुंचति ।। ५६-१६ ।।
प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् ।।
काले पुनरिहायातो राजा स्यात्पृथिवीतले ।। ५६-१७ ।।
मत्स्यमाधवमासाद्य दुराधर्षो भवेन्नरः ।।
दाता भोक्ता भवेद्योद्धा वैष्णवः सत्यसंगरः ।। ५६-१८ ।।
योगं प्राप्य हरेः पश्चात्ततो मोक्षमवाप्नुयात् ।।
मत्स्यमाधवमाहात्म्यं मया ते परिकीर्तितम् ।। ५६-१९ ।।
यं दृष्ट्वा ब्रह्मतनये सर्वान्कामानवाप्नुयात् ।।
मार्जनं तत्र वक्ष्यामि मार्कंडेयह्रदे शुभे ।। ५६-२० ।।
भक्त्या तु तन्मना भूत्वा पुराणं पुण्यमुक्तिदम् ।।
मार्कंडेयह्रदे स्नानं सर्वकालं प्रशस्यते ।। ५६-२१ ।।
चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ।।
तद्वत्स्नानं समुद्रस्य सर्वकालं प्रशस्यते ।। ५६-२२ ।।
पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ।।
पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ।। ५६-२३ ।।
तदा गच्छेद्विशेषण तीर्थराजं परं शुभम् ।।
कायवाङ्मानसैः शुद्धसद्भावोऽनन्यमानसः ।। ५६-२४ ।।
सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः ।।
कल्पवृक्षं वटं रम्यं यत्र साक्षाज्जनार्दनः ।। ५६-२५ ।।
प्रदक्षिणं प्रकुर्वीतं त्रीन्वारान्सुसमाहितः ।।
दृष्ट्वा नश्यति यत्पापं सप्तजन्मसमुद्भवम् ।। ५६-२६ ।।
पुण्यं प्राप्नोति विपुलं गतिमिष्टां च मोहिनि ।।
तस्य नामानि वक्ष्यामि सप्रमाणं युगे युगे ।। ५६-२७ ।।
वटं वटेश्वरं शांतं पुराणपुरुषं विदुः ।।
वटस्यैतानि नामानि कीर्तितानि कृतादिषु ।। ५६-२८ ।।
योजनं पादहीनं च योजनार्द्धतदर्द्धकम् ।।
प्रमाणं कल्पवृक्षस्य कृतादिषु यथाक्रमम् ।। ५६-२९ ।।
पूर्वोक्तेन तु मंत्रेण नमस्कृत्त्वा च तं वटम् ।।
दक्षिणाभिमुखो गच्छेद्धन्वंतरशतत्रयम् ।। ५६-३० ।।
यत्रासौ दृश्यते चिह्नं स्वर्गद्वारं मनोरमम् ।।
सागरांतः समाकृष्टं काष्ठं सर्वगुणान्वितम् ।। ५६-३१ ।।
प्रणिपत्य ततस्तिष्ठेत्परिपूज्य ततः पुनः ।।
मुच्यते सर्वपापौघैस्तथा पापग्रहादिभिः ।। ५६-३२ ।।
उग्रसेनः पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् ।।
गत्वाऽऽचम्य शुचिस्तत्रध्यात्वा नारायणं परम् ।। ५६-३३ ।।
न्यसेदष्टाक्षरं मंत्रं पश्चाद्धस्तशरीरयोः ।।
ॐ नमो नारायणायेति यं वदंति मनीषिणः ।। ५६-३४ ।।
किं कार्यं बहुभिर्मंत्रैर्मनोविभवकारकैः ।।
नमोनारायणायेति मन्त्रः सर्वार्थसाधकः ।। ५६-३५ ।।
आपो नरस्य सूनुत्वान्नारा इति ह कीर्तिताः ।।
विष्णोस्तस्त्वालयं पूर्वं तेन नारायणः स्मृतः ।। ५६-३६ ।।
नारायणपरा वेदा नारायणपरा द्विजाः ।।
नारायणपरं ज्ञानं नारायणपरा क्रिया ।। ५६-३७ ।।
नारायणपरो धर्मो नारायणपरं तपः ।।
नारायणपरं दानं नारायणपरं व्रतम् ।। ५६-३८ ।।
नारायणपरा लोका नारायणपराः सुराः ।।
नारायणपरं नित्यं नारायणपरं पदम् ।। ५६-३९ ।।
नारायणपरा पृथ्वी नारायणपरं जलम् ।।
नारायणपरो वह्निर्नारायणपरं नभः ।। ५६-४० ।।
नारायणपरो वायुर्नारायणपरं मनः ।।
अहंकारश्च बुद्धिश्च उभे नारायणात्मके ।। ५६-४१ ।।
भूतं भव्यं भविष्यच्च यत्किंचिज्जीवसंज्ञितम् ।।
स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ।। ५६-४२ ।।
नारायणात्परं किंचिन्नेह पश्यामि मोहिनि ।।
तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ।। ५६-४३ ।।
आपो ह्यायतनं विष्णोः स चा सावम्भसांपतिः ।।
तस्मादप्सु स इत्येवं नारायणमघापहम् ।। ५६-४४ ।।
स्नानकाले विशेषेण चोपस्थाय जले शुचिः ।।
स्मरेन्नारायणं ध्यायेद्धस्ते काये च विन्यसेत् ।। ५६-४५ ।।
ॐकारं वामकट्यां तु नाकारं दक्षिणे तथा ।।
राकारं नाभिदेशे तु यकारं वामबाहुके ।। ५६-४६ ।।
णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ।।
अधश्चोर्द्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः ।। ५६-४७ ।।
ध्यात्वा नारायणं पश्चादारभेत्कवचं बुधः ।।
पूर्वे मां पातु गोविंदो दक्षिणे मधुसूदनः ।। ५६-४८ ।।
पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ।।
पातु विष्णुस्तथाग्नेये नैर्ऋते माधवोऽव्ययः ।। ५६-४९ ।।
वायव्ये तु हृषीकेशस्तथेशाने च वामनः ।।
भूतले पातु वाराहस्तथोर्द्ध्वे च त्रिविक्रमः ।। ५६-५० ।।
कृत्वैवं कवचं पश्चादात्मानं चिंतयेत्ततः ।।
अहं नारायणो देवः शंखचक्रगदाधरः ।। ५६-५१ ।।
एवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीरयेत् ।।
"त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः ।। ५६-५२ ।।
प्रधानः सर्वभूतानां जीवानां प्रभुख्ययः ।।
अमृतस्यारणिस्त्वं हि देवयोनिरपांपते ।। ५६-५३ ।।
वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते" ।।
एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् ।। ५६-५४ ।।
अन्यथा ब्रह्मतनये स्नानं तत्र न शस्यते ।।
कृत्वा चाब्दैवतैमत्रैरभिषेकं च मार्जनम् ।। ५६-५५ ।।
अन्तर्जले जपन्पश्चात्त्रिरावृत्याघमर्षणम् ।।
हयमेधो यथा देवि सर्वपापहरः क्रतुः ।। ५६-५६ ।।
तथाघमर्षणं चात्र सूक्तं सर्वाघपर्षणम् ।।
उत्तीर्य वाससी धौते निर्मले परिधाय च ।। ५६-५७ ।।
प्राणानायम्य चाचम्य संध्यां चोपास्य भास्करम् ।।
उपातिष्ठेत्ततश्चोर्द्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् ।। ५६-५८ ।।
उपस्थायोर्द्धबाहुश्च तल्लिंगैभांस्करं ततः ।।
गायत्रीं पावनीं देवीं जपेदष्टोत्तरं शतम् ।। ५६-५९ ।।
अन्यांश्च सोरमन्त्रान्हि जप्त्वा तिष्ठन्समाहितः ।।
कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च ।। ५६-६० ।।
स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद्देवमानवान् ।।
ऋषीन्पितॄन्हि स्वीयांश्च विधिवन्नामगोत्रवित् ।। ५६-६१ ।।
तोयेन तिलमिश्रेण विधिवत्सुसमाहितः ।।
श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् ।। ५६-६२ ।।
तर्पणे तूभयं कुर्यादेष एव विधिः सदा ।।
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।। ५६-६३ ।।
तृप्यतामिति सुव्यक्तं नामगोत्रेण वाग्यतः ।।
कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् ।। ५६-६४ ।।
तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ।।
जले स्थित्वा स्थले दत्तं स्थले स्थित्वा जलेऽर्पितम् ।। ५६-६५ ।।
नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रतदीयते ।।
पितॄणामक्षयं स्थानं मही दत्ता विरंचिना ।। ५६-६६ ।।
तस्मात्तत्रैव दातव्यं पितॄणां प्रीतिमिच्छता ।।
भूमिस्तेन समुत्पन्ना भूम्यां चैव तु संस्थितम् ।। ५६-६७ ।।
भूम्यां चैव लयं यांति भूमौ दद्यात्ततो जलम् ।।
आस्तीर्य च कुशान्साग्रानावाह्य स्वस्वमन्त्रतः ।।
प्राचीनाग्रेषु वै देवान्याम्याग्रेषु तथा पितॄन् ।। ५६-६८ ।।
इति श्रीबगृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये षट्पञ्चाशत्तमोऽध्यायः ।। ५६ ।।