नारदपुराणम्- उत्तरार्धः/अध्यायः ६२
वसिष्ठ उवाच ।।
एतच्छ्रुत्वा तु भूपाल मोहिनी विधिनंदिनी ।।
पुरुषोत्तममाहात्म्यं भुक्तिमुक्तिप्रदायकम् ।। ६२-१ ।।
पुनः पप्रच्छ तं विप्रं वसुं स्वस्य पुरोहितम् ।।
मोहिन्युवाच ।।
श्रुतमत्यद्भुतं विप्र पुरुषोत्तमसंभवम् ।। ६२-२ ।।
माहात्म्यं चाधुना ब्रूहि प्रयागस्यापि सुव्रत ।।
तीर्थराजः प्रयागाख्यः श्रुतः पूर्वं मया गुरो ।। ६२-३ ।।
तन्माहात्म्यं ममाख्याहि तीर्थयात्राविधानयुक् ।।
स मान्यानां विशेषाणां तीर्थानां गमने द्विज ।। ६२-४ ।।
यत्कर्त्तव्यं च विधिना नृभिर्द्धर्मपरायणैः ।।
तच्छ्रुत्वा स द्विजो राजन्मोहिन्या भाषितं वचः ।। ६२-५ ।।
सामान्यविधिपूर्वं तत्प्रयागाख्यानमब्रवीत् ।।
वसुरुवाच ।।
श्रृणु भद्रे प्रवक्ष्यामि तीर्थाभिगमने विधिम् ।। ६२-६ ।।
यं समाश्रित्य मनुजो यथोक्तं फलमाप्नुयात् ।।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ।। ६२-७ ।।
अनुपोष्य त्रिरात्राणि तीर्थान्यप्यभिगम्य च ।।
अदत्त्वा कांचनं गाश्च दारिद्रो जायते नरः ।। ६२-८ ।।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ।। ६२-९ ।।
अज्ञानेनापि यस्येह तीर्थामिगमनं भवेत् ।।
सर्वकामसमृद्धः स स्वर्गलोके महीयते ।। ६२-१० ।।
स्थानं च लभते नित्यं धनधान्यसमाकुलम् ।।
ऐश्वर्यज्ञानसंपूर्णः सदा भवति भोगवान् ।। ६२-११ ।।
तारिताः पितररतेन नरकात्प्रपितामहाः ।।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।। ६२-१२ ।।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।।
प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित् ।। ६२-१३ ।।
अहंकारविमुक्तश्च स तीर्थफलमाप्नुयात ।।
अकल्पको निरारम्भो लघ्वाहारो जितेंद्रियः ।। ६२-१४ ।।
विनुक्तः सर्वसंगैस्तु स तीर्थफलभाग्भवेत् ।।
तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः ।। ६२-१५ ।।
कृतपापो विशुध्येत्तु किं पुनः शुद्धकर्मकृत् ।।
अश्रद्दधानः पापार्तो नास्तिकोऽच्छिन्नसंशयः ।। ६२-१६ ।।
हेतुनिष्टश्च पंचैते न तीर्थफलभागिनः ।।
नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ।। ६२-१७ ।।
यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम् ।।
कामं क्रोधं च लोभं च यो जित्वा तीर्थमाविशेत् ।।
न तेन किञ्चिदप्राप्तं तीर्थाभिगमनाद्भवेत् ।।
तीर्थानि च यथाक्तेन विधिना संचरंति ये ।।
सर्वद्वंद्वसहा धीरास्ते नराः स्वर्गगामिनः ।। ६२-१८ ।।
गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च संति ।।
भावोज्झितास्ते न फलं लभंते तीर्थाच्च देवायतनाच्च मुख्यात् ।। ६२-१९ ।।
भावं ततो हृत्कमले निधाय तीर्थानि सेवेत समाहितात्मा ।।
या तीर्थयात्रा कथिता मुनींद्रैः कृता प्रयुक्ता ह्यनुमोदिता च ।। ६२-२० ।।
तां ब्रह्मचारी विधिवत्करोति सुसंयतो गुरुणा संनियुक्तः ।।
सर्वस्वनाशेऽप्यथवाल्पपक्षे स ब्राह्मणानग्रत एव कृत्वा ।। ६२-२१ ।।
यज्ञाधिकारेऽप्यथवा निवृत्ते विप्रस्तु तीर्थानि परिभ्रमेच्च ।।
तीर्थेष्वलं यज्ञफलं हि यस्मात्प्रोक्तं मुनींद्रैरमलस्वभावैः ।। ६२-२२ ।।
यस्येष्टियज्ञेष्वधिकारितास्ति वरं गृहं गृहधर्माश्च सर्वे ।।
एवं गृहस्ताश्रमसंस्थितस्य तीर्थे गतिः पूर्वतरैर्निषिद्धा ।।
सर्वाणि तीर्थान्यपि चाग्निहोत्रतुल्यानि नैवेति वदंति केचित् ।। ६२-२३ ।।
यो यः कश्चित्तीर्थयात्रां तु गच्छेत्सुसंयतः स च पूर्वं गृहेषु ।।
कृतावासः शुचिरप्रमत्तः संपूजयेद्भक्तिनम्रो गणेशम् ।। ६२-२४ ।।
देवान्पितॄन्ब्राह्मणांश्चैव साधून्धीमान्विप्रो वित्तशक्त्या प्रयत्नात् ।।
प्रत्यागतश्चापि पुनस्तथैव देवान्पितृन्ब्राह्मणान्पूजयेच्च ।। ६२-२५ ।।
एवं कुर्वतस्तस्य तीर्थाद्यदुक्तं फलं तत्स्यान्नात्र संदेहलेशः ।। ६२-२६ ।।
गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्स सर्पिषा ।।
यात्रार्थमिति तत्प्रोक्तं प्रवेशे च संशयः ।। ६२-२७ ।।
प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।।
कचानां वपनं कुर्याद् वृथा न विकचो भवेत् ।। ६२-२८ ।।
उद्यतश्चेद्गयां गंतुं श्राद्धं कृत्वा विधानतः ।।
विधाय कार्पटीवेषं कृत्वा ग्रामप्रदक्षिणाम् ।। ६२-२९ ।।
ततो ग्रामांतरं गत्वा श्राद्धशेषस्य भोजनम् ।।
ततः प्रतिदिनं गच्छैत्प्रतिग्रहविवर्जितः ।। ६२-३० ।।
पदेपदेऽश्वमेधस्य स्यात्फलं गच्छतो गयाम् ।।
बलीवर्दसमारूढस्तीर्थं यो याति सुव्रते ।। ६२-३१ ।।
नरके वसते घोरे गवां क्रोधो हि दारुणः ।।
सलिलं च न गृह्णंति पितरस्तस्य देहिनः ।। ६२-३२ ।।
ऐश्वर्याल्लोभमोहाद्वा गच्छेद्यानेन यो नरः ।।
निष्फलं तस्य तत्तीर्थं तस्माद्यान विवर्जयेत् ।। ६२-३३ ।।
गोयाने गोवधः प्रोक्तो हययाने तु निष्फलम् ।।
नरयाने तदर्द्धं स्यात्पद्भ्यां तच्च चतुर्गुणम् ।। ६२-३४ ।।
वर्षातपादिके छत्री दंडी शर्करकंटके ।।
शरीरत्राणकामोऽसौ सोपानत्कः सदा व्रजेत् ।। ६२-३५ ।।
तीर्थं प्राप्यानुषंगेण स्नानं तीर्थे समाचरन् ।।
स्रानजं फलमाप्नोति तीर्थयात्राफलं न तु ।। ६२-३६ ।।
षोडशांशं स लभते यः परार्थेन गच्छति ।।
अर्द्धं तीर्थफलं तस्य यः प्रसंगेन गच्छति ।। ६२-३७ ।।
तीर्थेषु ब्राह्मणं नैव परीक्षेत कदाचन ।।
अत्रार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत् ।। ६२-३८ ।।
सक्तुभिः पिंडदानं च संयावैः पायसेन वा ।।
बदरामलकैर्वापि पिण्याकैर्वा सुलोचने ।। ६२-३९ ।।
श्राद्धं तु तत्र कर्तव्यमर्च्चावाहनवर्जितम् ।।
श्वध्वांक्षगृध्रपापानां नैव दृष्टिहतं च यत् ।। ६२-४० ।।
श्राद्धं तु तैर्थिकं प्रोक्तं पितॄणां तृप्तिकारकम् ।।
अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः ।। ६२-४१ ।।
प्राप्तैरेव सदा तत्र कर्तव्यं पितृतर्पणम् ।।
विलंबो नैव कर्तव्यो नैव विघ्नं समाचरेत् ।। ६२-४२ ।।
प्रतिकृतिं कुशमयीं तीर्थवारिणि मज्जयेत् ।।
यमुद्दिश्य विशालाक्षि सोऽष्टमांशं फलं लभेत् ।। ६२-४३ ।।
कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा ।।
त्वयि स्नाते तु स स्नातो यस्येदं ग्रंथिबन्धनम् ।। ६२-४४ ।।
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ।।
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।। ६२-४५ ।।
भौमानामथ तीर्थानां पुण्यत्वे कारणं श्रृणु ।।
यथा शरीरस्योद्देशाः केचिन्मुख्यतमाः स्मृताः ।। ६२-४६ ।।
प्रभावादद्भूमेः सलिलस्य च तेजसः ।।
परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता ।। ६२-४७ ।।
गंगां संप्राप्य यो देवि मुंडनं नैव कारयेत् ।।
क्रिया तस्याक्रिया सर्वा तीर्थद्रोही भवेत्तथा ।। ६२-४८ ।।
गंगायां भास्करक्षेत्रे मुंडनं यो न कारयेत् ।।
स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ।। ६२-४९ ।।
गंगां प्राप्य सरिच्छ्रेष्ठां कल्पांतपापसंचयाः ।।
केशानाश्रित्य तिष्ठंति तस्मात्तान्परिवर्जयेत् ।। ६२-५० ।।
यावंति नखलोमानि गंगातोये पतंति वै ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। ६२-५१ ।।
प्रयागव्यतिरेके तु गंगायां मुंडनं न हि ।।
योऽन्यथा कुरुते मोहात्स महारौरवं विशेत् ।। ६२-५२ ।।
स जीवत्पितृको यस्तु तीर्थं प्राप्य विधानवित् ।।
क्षौरं समाचरेन्नैव श्मश्रूणां वपनं सति ।। ६२-५३ ।।
गयादावपि देवेशि श्मश्रूणां वपनं विना ।।
न क्षौरं मुनिभिः सर्वैर्निषिद्धं चेति कीर्तितम् ।। ६२-५४ ।।
सश्मश्रुकेशवपनं मुंडनं तद्विदुर्बुधाः ।।
न क्षौरं मुंडनं सुभ्रु कीर्तितं वेदवेदिभिः ।। ६२-५५ ।।
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे प्रयागराजमाहगात्म्ये तीर्थविधिर्नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।