नारदपुराणम्- उत्तरार्धः/अध्यायः २
← अध्यायः १ | नारदपुराणम् - उत्तरार्धः अध्यायः २ वेदव्यासः |
अध्यायः ३ → |
वसिष्ट उवाच ।।
इममेवार्थमुद्दिश्य नैमिषारण्यवासिनः ।।
पप्रच्छुर्मुनयः सूतं व्यासशिष्यं महामतिम् ।। २-१ ।।
स तु पृष्टो महाभाग एकादश्याः सुविस्तरम् ।।
माहात्म्यं कथयामास उपवासविधिं तथा ।। २-२ ।।
तद्वाक्यं सूतपुत्रस्य श्रुत्वा द्विजवरोत्तमाः ।।
माहात्म्यं चक्रिणश्चापि सर्वपापौघ शांतिदम् ।। २-३ ।।
पुनः पप्रच्छुरमलं सूतं पौराणिकं नृप ।।
अष्टादश पुराणानि भवान् जानाति मानद ।। २-४ ।।
कानीनस्य प्रसादेनः महाभारतमप्युत ।।
तन्नास्ति यन्न वेत्सि त्वं पुराणेषु स्मृतिष्वपि ।। २-५ ।।
चरिते रघुनाथस्य शतकोटिप्रविस्तरे ।।
अस्माकं संशयः कश्चिद्धृदये संप्रवर्तते ।। २-६ ।।
तं भवानर्हति च्छेत्तुं याथार्थ्येन सुविस्तरात् ।।
तिथेः प्रांतमुपोष्यं स्यादाहोस्विन्मूलमेव च ।। २-७ ।।
दैवे पैत्र्ये समाख्याहि नावेद्यं विद्यते तवल ।।
सौतिरुवाच ।।
तिथेः प्रांतं सुराणां हि उपोष्यं प्रीतिवर्द्धनम् ।। २-८ ।।
मूलं तिथेः पितॄणां तु कालज्ञैः प्रियमीरितम् ।।
अतः प्रांतमुपोष्यं हि तिथेर्दशफलेप्सुभिः ।। २-९ ।।
मूलं हि पितृतृप्त्यर्थं विज्ञेयं धर्मकांक्षिभिः ।।
पूर्वविद्धा न कर्तव्या द्वितीया चाष्टमी तथा ।। २-१० ।।
षष्ठी चैकादशी भूप धर्मकामार्थलिप्सुभिः ।।
पूर्वविद्धा द्विजश्रेष्ठाः कर्तव्या सप्तमी सदा ।। २-११ ।।
दर्शश्च पौर्णमासश्च पितुः सांवत्सरं दिनम् ।।
पूर्वविद्धानिमांस्त्यक्त्वा नरकं प्रतिपद्यते ।। २-१२ ।।
हानिं च संततेर्भूपदौर्भाग्यं समवाप्नुयात् ।।
एतच्छ्रुतं मया विप्राः कृष्णद्वैपायनात्पुरा ।। २-१३ ।।
आदित्योदयवेलायां यास्तोकापि तिथिर्भवेत् ।।
पूर्वविद्धा तु मंतव्या प्रभूता नोदयं विना ।। २-१४ ।।
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।।
पित्र्येऽस्तमनवेलायां स्पर्शे पूर्णा निगद्यते ।। २-१५ ।।
न तत्रोदयिनी ग्राह्या दैवस्योदयिकी तिथिः ।।
प्रत्यहं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिंतकात् ।। २-१६ ।।
तिथिप्रमाणं विप्रेंद्राः क्षपाकरदिवाकरौ ।।
चंद्रार्कचारविज्ञानात्कालं कालविदो विदुः ।। २-१७ ।।
पूर्वायाः संगदोषेण न योग्यास्ताः प्रपूजने ।।
वर्जयन्ति नरास्तज्ज्ञा यामांश्च चतुरो द्विजाः ।। २-१८ ।।
अत ऊर्द्ध्वं प्रवक्ष्यामि स्नानपूजाविधिक्रमम् ।।
न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते ।। २-१९ ।।
दिनकार्यमशेषं हि कर्तव्यं शर्वरीमुखे ।।
विधिरेष मया ख्यातो नराणामुपवासिनाम् ।। २-२० ।।
अल्पायामथ विप्रेंद्रा द्वादश्यामरुणोदये ।।
स्नानार्चनक्रिया कार्य्या दानहोमादिसंयुता ।। २-२१ ।।
त्रयोदश्यां हि शुद्दायां पारणे पृथिवीफलम् ।।
शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम् ।। २-२२ ।।
एतस्मात्कारणाद्विप्राः प्रत्यूषे स्नानमाचरेत् ।।
पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम् ।। २-२३ ।।
महाहानिकरा ह्येषा द्वादशी लंघिता नृभिः ।।
करोति धर्महरणमस्नातेव सरस्वती ।। २-२४ ।।
क्षये वाप्यथवा वृद्धौ संप्राप्ते वा दिनोदये ।।
उपोष्या द्वादशी पुण्या पूर्वविद्धां विवर्जयेत् ।। २-२५ ।।
ब्राह्मण उवाच ।।
यदा च प्राप्यते सूत द्वादश्यां पूर्वसंभवा ।।
तदोपवासो हि कथं कर्तव्यो मानवैर्वद ।। २-२६ ।।
उपवासदिनं विद्धं यदा भवति पूर्वया ।।
द्वितीयेऽह्नि यदा न स्यात्स्वल्पाप्येकादशी तिथिः ।। २-२७ ।।
तत्रोपवासो विहितः कथं तद्वद सूतज ।
सौतिरुवाच ।।
यदा न प्राप्यते विप्रा द्वादश्यां पूर्वसम्भवम् ।। २-२८ ।।
रविचन्द्रार्कजाहं तु तदोपोष्यं परं दिनम् ।।
बह्वा गमविरोधेषु ब्राह्मणेषु विवादिषु ।। २-२९ ।।
उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारणम् ।।
एकादश्यां तु विद्धायां संप्राप्ते श्रवणे तथा ।। २-३० ।।
उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि ।।
एष वो निर्णयः प्रोक्तो मया शास्त्रविनिर्णयात् ।। २-३१ ।।
किमन्यच्छ्रोतुकामा हि तद्भवंतो ब्रुवंतु मे ।।
ऋषय ऊचुः ।।
युगादीनां वद्विधिं सौते सम्यग्यथातथम् ।। २-३२ ।।
रविसंक्रातिकादीनां नावेद्यं विद्यते तव ।।
सौतिरुवाच ।।
द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः ।। २-३३ ।।
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे ग्राह्येऽपराह्णिके ।।
अयनं दिनभागाढ्यं संक्रमः षोडशः पलः ।। २-३४ ।।
पूर्वे तु दक्षिणे भागे व्यतीते चोत्तरो मतः ।।
मध्यकाले तु विषुवे त्वक्षया परिकीर्तिता ।। २-३५ ।।
ज्ञात्वा विप्रास्तिथिं सम्यक्सांवत्सरसमीरिताम् ।।
कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेत् ।। २-३६ ।।
पूर्वविद्धां प्रकुर्वाणो नरो धर्मं निकृंतति ।।
संततेस्तु विनाशाय संपदां हरणाय च ।। २-३७ ।।
पलवेधेऽपि विप्रेंद्रा दशम्या वर्जयेच्छिवाम् ।।
सुराया बिंदुना स्पृष्टं यथा गंगाजलंत्यजेत् ।। २-३८ ।।
श्वहतं पंचगव्यं च दशम्या दूषितां त्यजेत् ।।
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि ।। २-३९ ।।
पूर्वविद्धा पुरा दत्ता सा तिथिर्यदुमौलिना ।।
दानवेभ्यो द्विजश्रेष्ठाः प्रीणनार्थं महात्मनाम् ।। २-४० ।।
अकाले यद्धनं दत्तमपात्रेभ्यो द्विजोत्तमाः ।।
संक्रुद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम् ।। २-४१ ।।
पूर्वविद्धतिथौ दत्तं तद्दत्तमसुरेष्वथ ।।
यदुच्छिष्टेन दत्तं तु यद्दत्तं पतितेष्वपि ।। २-४२ ।।
स्त्रीजेतेषु च यद्दत्तं यद्दत्तं जलवर्जितम् ।।
पुनः कीर्तनसंयुक्तं तद्दत्तमसुरेषु वै ।। २-४३ ।।
तस्माद्विप्रा न कर्त्व्या विद्धाप्येकादशी तिथिः ।।
यथा हंतिपुरा पुण्यं श्राद्धं च वृषलीपतिः ।। २-४४ ।।
दत्तं जप्तं हुतं स्नातं तथा पूजा कृता हरेः ।।
तिथौ विद्धे क्षयं याति तमः सूर्योदये यथा ।। २-४५ ।।
जीर्णं पतिं यौवनगर्विता यथा त्यजंति नार्यो झषकेतुनार्दिताः ।।
तथा हि वेधं विबुधास्त्यजंति तिथ्यंतरं धर्मविवृद्धये सदा ।। २-४६ ।।
श्रीबृहन्नारदीयपुरणोत्तरभागे तिथिविचारो नाम द्वितीयोऽध्यायः ।। २ ।।