नारदपुराणम्- उत्तरार्धः/अध्यायः ४०
वसुरुवाच ।।
अथ कालविशेषे तु गंगास्नानस्य ते फलम् ।
कीर्तयिष्यामि वामोरु सावधाना निशामय ।। ४०-१ ।।
नैरंतर्येण गंगाया माघे स्नाति च यो नरः ।।
सशक्रलोके सुचिरं कालं तिष्ठेत्सगोत्रजः ।। ४०-२ ।।
ततो ब्रह्मपुरं याति कल्पकोटिशतायुतैः ।।
नैरंतर्येण विधिवद्गङ्गायां स्नाति यो नरः ।। ४०-३ ।।
षण्मासमेककालाशी सकृदेवोत्तरायणे ।।
सोऽपि विष्णुपदं याति कुलानां शतमुद्धरन् ।। ४०-४ ।।
संक्रांतिषु तु सर्वासु स्नात्वा गङ्गाजले नरः ।।
विमानेनार्कवर्णेन स व्रजेद्विष्णुमंदिरम् ।। ४०-५ ।।
विषुवेऽयनसंक्रांतौ विशेषात्फलमीरितम् ।।
तपःसमं कार्तिकेऽपि गङ्गास्नाने फलं विदुः ।। ४०-६ ।।
मेषप्रवेशार्ककाले कार्तिक्यां वापि मोहिनि ।।
माघस्नानाधिकं प्राहुः कमलासनपूर्वकाः ।। ४०-७ ।।
संवत्सरस्नानजन्यं फलमक्षयके तिथौ ।।
कार्तिके वापि वैशाखे इति प्राह पिता तव ।। ४०-८ ।।
मन्वादौ च युगादौ यत्प्रोक्तं गंगाजले फलम् ।।
स्नानैन याज्यवनिते त्रिमास्यापि च तत्फलम् ।। ४०-९ ।।
द्वादश्यां श्रवणर्क्षे च अष्टम्यां पुष्ययोगतः ।।
आर्द्रायां च चतुर्दश्यां गंगास्नानं सुदुर्लभम् ।। ४०-१० ।।
पूर्णिमा माधवे पुण्या तथा कार्तिकमाघयोः ।।
अमावस्यास्तथैतेषां गंगास्नाने सुदुर्लभाः ।। ४०-११ ।।
कृष्णाष्टम्यां सहस्रं तु शतं स्यात्सर्वपर्वसु ।।
अमायां च तथाष्टम्यां माघासितदले सति ।। ४०-१२ ।।
अर्धोदयं तदा पर्वकिंचिन्न्यूनं महोदयः ।।
महोदये शतगुणं लक्षमर्द्धोदये स्मृतम् ।।। ४०-१३ ।।
स्नानं गंगाजले देवि ग्रहणाच्चन्द्रसूर्ययोः ।।
मासत्रयस्नानफलं फाल्गुनाषाढ मासयोः ।। ४०-१४ ।।
जन्मर्क्षे तु कृते स्नाने गंगायां भक्तिभावतः ।।
जन्मप्रभृति पापं वै संचितं हि विनश्यति ।। ४०-१५ ।।
चतुर्दश्यां माघकृष्णे व्यतीपातश्च दुर्लभः ।।
कृष्णाष्टम्यां विशेषेण वैधृतिर्जाह्नवीजले ।। ४०-१६ ।।
माघं सकलमेवापि नरो यो विधिपूर्वकम् ।।
अरुणोदयके स्नायी स तु जातिस्मरो भवेत् ।। ४०-१७ ।।
सर्वशास्त्रार्थविज्ज्ञानी नीरोगश्च भवेद्भ्रुवम् ।।
संक्रांत्यां पक्षयोरंते ग्रहणे चंद्रसूर्ययोः ।। ४०-१८ ।।
गंगास्नातो नरः कामाद्ब्रह्मणः सदनं लभेत् ।।
इंदोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः ।। ४०-१९ ।।
गंगातीरे तु संप्राप्ता इंदोः कोटी रवेर्दश ।।
वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।।
गंगायां यदि लभ्येत सूर्यग्रहशतैः समा ।। ४०-२० ।।
ज्येष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्ते शैलादवतरदसौ जाह्नवी मर्त्यलोकम् ।।
पापान्यस्यां हरति हि तिथौ सा दशैषाद्यगंगा पुण्यं दद्यादपि शतगुणं वाजिमेधक्रतोश्च ।। ४०-२१ ।।
महापातकसंघानि यानि पापानि संति मे ।।
गोविंदद्वादशीं प्राप्य तानि मे हन जाह्नवि ।। ४०-२२ ।।
मघासंज्ञेन ऋक्षेण चंद्रः संपूर्णमंडलः ।।
गुरुणा याति संयोगं तन्महत्वं तिथेः स्मृतम् ।। ४०-२३ ।।
गंगायां यदि लभ्येत सूर्यग्रहशतैः समा ।।
अथ देशविशेषेण स्नानस्य फलमुच्यते ।। ४०-२४ ।।
कुरुक्षेत्राद्दशगुणा यत्र तत्रावगाहिता ।।
कुरुक्षेत्राच्छतगुणा यत्र विंध्येन संयुता ।। ४०-२५ ।।
विंध्याच्छतगुणा प्रोक्ता काशीपुर्यां तु जाह्नवी ।।
सर्वत्र दुर्लभा गंगा त्रिषु स्थानेषु चाधिका ।। ४०-२६ ।।
गंगाद्वारे प्रयागे च गंगासागरसंगमे ।।
एषु स्नाता दिवं यांति ये मृतास्तेऽपुनर्भवाः ।। ४०-२७ ।।
गंगाद्वारे कुशावर्ते स्नाने पुण्यफलं श्रृणु ।।
सप्तानां राजसूयानां फलं स्यादश्वमेधयोः ।। ४०-२८ ।।
उषित्वा तत्र मासार्द्धं षण्णां विश्वजितां फलम् ।।
दशायुतानां तु गवां दानपुण्यं विदुर्बुधाः ।। ४०-२९ ।।
सरोत्तमेऽथ गोविंदं रुद्रं कनखले स्थितम् ।।
स्नात्वा वाप्येषु गंगायां पुण्यमक्षयमाप्नुयात् ।। ४०-३० ।।
तीर्थं च सौकरं नाम महापुण्यं शुभे श्रृणु ।।
यस्मिन्नाविरभूत्पूर्वं वाराहाकृतिरच्युतः ।। ४०-३१ ।।
शतस्याग्निचितां पुण्यं ज्योतिष्टोमद्वयस्य च ।।
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ।। ४०-३२ ।।
तत्रैव ब्रह्मणस्तीर्थे ज्योतिष्टोमायुतस्य च ।।
अश्वमेधत्रयस्यापि स्नातः पुण्यं लभेन्नरः ।। ४०-३३ ।।
कुब्जाख्यं तीर्थमनघं यत्र च व्याधयोऽखिलाः ।।
नश्यंति सर्वजन्मोत्थं पातकं चापि मोहिनि ।। ४०-३४ ।।
अत्रान्यत्कापिलं तीर्थं यत्र स्नातो नरः शुभे ।।
कपिलाष्टायुतस्यापि दानतुल्यफलं लभेत् ।। ४०-३५ ।।
गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।।
तीर्थे कनखले स्नात्वा धूतपापो व्रजेद्दिवम् ।। ४०-३६ ।।
पवित्रार्थं ततस्तीर्थं सर्वतीर्थोत्तमोत्तमम् ।।
द्वयोर्विश्वजितोस्तत्र स्नानात्पुण्यं लभेन्नरः ।। ४०-३७ ।।
वेणीराज्यं ततस्तीर्थं सरयूर्यत्र गंगया ।।
सुपुण्यया महापुण्या स्वसा स्वस्रेव संगता ।। ४०-३८ ।।
हरेर्दक्षिणपादाब्जक्षालनादमरापगा ।।
वामपादोद्भवा वापि सरयूर्मानसप्रसूः ।। ४०-३९ ।।
तीर्थे तत्रार्चयन् रुद्रं विष्णुं विष्णुत्वमाप्नुयात् ।।
पञ्चाश्वमेधफलदं स्नानं तत्र प्रकीर्तितम् ।। ४०-४० ।।
ततस्तु गांडवं तीर्थं गंडकी यत्र संगता ।।
गोसहस्रस्य दानं च तत्र स्नानं समं द्वयम् ।। ४०-४१ ।।
रामतीर्थं ततः पुण्यं वैकुंठं यत्र सन्निधौ ।।
सोमतीर्थं ततः पुण्यं यत्रासौ नकुलो मुनिः ।। ४०-४२ ।।
समभ्यर्च्य शिवं ध्यायन्गणतां तु समाययौ ।।
चंपकाख्यं पुण्यतीर्थं यद्गंगोत्तरवाहिनी ।। ४०-४३ ।।
मणिकर्णिकया तुल्यं महापातकनाशनम् ।।
कलशाख्यं ततस्तीर्थं कलशादुत्थितो मुनिः ।। ४०-४४ ।।
अगस्त्यः पूजयन्यत्र रुद्रं मुनिवरोऽभवत् ।।
सोमद्वीपं महापुण्यं तीर्थं वाराणसीसमम् ।। ४०-४५ ।।
सोमो यत्रार्चयन्नीशं रुद्रेण शिरसा धृतः ।।
विश्वामित्रस्य भगिनी गंगया यत्र संगता ।। ४०-४६ ।।
तत्राप्लुतो नरो भूयाद्वासवस्य प्रियोऽतिथिः ।।
जह्नुह्रदे महातीर्थे स्नातो मर्त्यो हि मोहिनि ।। ४०-४७ ।।
एकविंशतिकुल्यानां तारको भवति ध्रुवम् ।।
तस्माददितितीर्थं च यत्रावापादितिर्हरिम् ।। ४०-४८ ।।
कश्यपात्तत्र सुभगे स्नानमाहुर्महोदयम् ।।
शिलोच्चयं महातीर्थँ यत्र तप्त्वा तपः प्रजाः ।। ४०-४९ ।।
तृणादिभिः सह स्वर्गं यांति तीर्थगणाश्रयात् ।।
इंद्राणीनामतीर्थं स्याद्यत्रेंद्राणी तु वासवम् ।। ४०-५० ।।
तपस्तप्त्वा पतिं लेभे सेव्यमेतत्प्रयागवत् ।।
पुण्यदं स्नातकं तीर्थं विश्वामित्रस्तपश्चरन् ।। ४०-५१ ।।
यत्र ब्रह्मर्षितां लेभे क्षत्त्रियस्तीर्था सेवया ।।
प्रद्युम्नतीर्थं तपसा ख्यातं यत्र स्मरो हरेः ।। ४०-५२ ।।
प्रद्युम्ननामा पुत्रोऽभूत्परं तत्र महोदयम् ।।
ततो दक्षप्रयागं तु गंगातो यमुनागत ।। ४०-५३ ।।
स्नात्वा तत्राक्षयं पुण्यं प्रयाग इव लभ्यते ।। ४०-५४ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गंगामाहात्म्ये स्थलविशेषस्नानफलकथनं नाम चत्वारिंशत्तमोऽध्यायः ।। ४० ।।