नारदपुराणम्- उत्तरार्धः/अध्यायः ९
सौतिरुवाच ।।
रुक्मांगदस्तु राजेंद्रो भुक्त्वा भोगांस्तुमानुषान् ।।
संपूज्य बहुशो देवं पीतांबरधरं हरम् ।। ९-१ ।।
दत्वा मूर्ध्नि पदं विप्राः शत्रीणां रणशालिनाम् ।।
कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम् ।। ९-२ ।।
वैकुण्ठस्य तु पंथानं संपूर्णं मानवैः कृतम् ।।
आहूय तनयं काले धर्मांगदमभाषत ।। ९-३ ।।
एतां वसुमतीं पुत्र वसुपूर्णां समंततः ।।
परिपालय वीर्येण स्वधर्मे कृतनिश्चयः ।। ९-४ ।।
पुत्र समर्थे जाते यो राज्यं न प्रतिपादयेत् ।।
तस्य धर्मस्तथा कीर्तिर्विनस्यति न संशयः ।। ९-५ ।।
समर्थेन च पुत्रेण यो न याति पिता सुखम् ।।
अवश्यं पातकी सोऽपि विज्ञेयो भुवनत्रये ।। ९-६ ।।
पितुर्भारक्षमः पुत्रो भारं नोद्वहते तु यः ।।
मातुरुच्चारवज्जातो द्विजिह्वो विषवर्जितः ।। ९-७ ।।
स पुत्रो योऽधिकख्यातः पितुर्भवति भूतले ।।
प्रकाशयति सर्वत्र स्वकरैरिव भास्करः ।। ९-८ ।।
पुत्रापनयजैर्दुःखै रात्रौ जागर्तिं यत्पिता ।।
स पुत्रो नरकं याति यावदाभूतसंप्लवम् ।। ९-९ ।।
पितुर्वचनमादृत्य सर्वं यः कुरुते गृहे ।।
स याति देव सायुज्यं स्तूयमानो दिवि स्थितैः ।। ९-१० ।।
सोऽहं प्रजाकृते पुत्र आसक्तः कर्मभिः क्षितौ ।।
न भुक्तं नैव सुप्तं तु स्वेच्छया पालने स्थितः ।। ९-११ ।।
असमर्थे त्वयि सुत न प्राप्तं हि मया सुखम् ।
विष्णुवासरभोक्तॄणां निग्रहे कृतबुद्धिना ।। ९-१२ ।।
केचिच्छैवे स्थिता मार्गे सौरे केचिद्व्यवस्थिताः ।।
विरिंचिमार्गगाश्चान्ये पार्वत्याश्च स्थिताः परे ।। ९-१३ ।।
सायं च प्रातरासीना अग्निहोत्रे व्यवस्थिताः ।।
बालो युवा वा वृद्धो वा गुर्विणी वा कुमारिका ।। ९-१४ ।।
सरोगो विकलो वापि न शक्नोति ह्युपोषितुम् ।।
इत्येवं जल्पितं यैस्तु तान्निरस्य समंततः ।। ९-१५ ।।
वचोभिस्तु पुराणोक्तैर्वासरैर्बहुभिस्त्वहम् ।।
संबोधयित्वा बहुशः प्रजानां सुखहेतवे ।। ९-१६ ।।
निगृह्य तान्हरिदिने निराहारान्करोमि च ।।
शास्त्रदृष्ट्या तु विदुषो मूर्खान्दंडनपूर्वकम् ।। ९-१७ ।।
शासयित्वा कृताः सर्वे निराहारा हरेर्दिने ।।
तेन मे न सुखं किंचिदवलीढं धरातले ।। ९-१८ ।।
कच्चिन्न दुःखेन जनान्योजयेत्किल पुत्रक ।।
स्वेभ्यो वापि परेभ्यो वा या रक्षेच्च प्रजा नृपः ।। ९-१९ ।।
तस्यामी ह्यक्षया लोकाः पुराणेषु प्रकीर्तिताः ।।
सोऽहं प्रजाकृते सौम्य संस्थितो नात्मनः क्वचित् ।। ९-२० ।।
सौख्यमिच्छाम्यहं भोक्तुं मृगयादिसमुद्भवम् ।।
न पानद्यूतजं पुत्र कामयेऽहं कदाचन ।। ९-२१ ।।
एषु सक्तोऽचिरात्पुत्र विनाशं याति पार्थिवः ।।
त्वत्प्रसादादहं पुत्र मृगयाव्याजतोऽधुना ।। ९-२२ ।।
गिरीन्वनानि सरितः सरांसि विविधानि च ।।
भोक्तुकामः प्रियान्कामांस्त्वयि भारं निवेश्य च ।। ९-२३ ।।
एतत्सर्वं समाख्यातं यत्स्थितं हृदये मम ।।
कृते तव महाकीर्तिरकृते नरकस्थितिः ।। ९-२४ ।।
धर्मांगद उवाच ।।
सर्वमेतत्करिष्यामि भुंक्ष्व भोगान्मनोऽनुगान् ।।
गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम् ।। ९-२५ ।।
नहि मेऽन्यः स्मृतो धर्मस्त्वद्वाक्यकरणं विना ।।
पितुर्वाक्यमकुर्वाणः कुर्वन्धर्मानधो व्रजेत् ।। ९-२६ ।।
तस्मात्करिष्ये वचनं त्वदीयं प्रांजलिः स्थितः ।।
एवमुक्ते तु वचने राजा हृष्टो बभूव ह ।। ९-२७ ।।
गंतुकामो मृगान्भूयो लब्ध्वा ज्ञात्वा वनं ततः ।।
धर्मांगदोऽपि दृष्टात्मा प्रजा आहूय चाब्रवीत् ।। ९-२८ ।।
पित्रा नियुक्तो भवतां पालनाय हिताय च ।।
पितुर्वाक्यं मया कार्यं सर्वथा धर्ममिच्छता ।। ९-२९ ।।
नान्यो हि धर्मः पुत्रस्य पितुर्वाक्यं विना प्रजाः ।।
मयि दंडधरे शास्ता न यमो भवति क्वचित् ।। ९-३० ।।
एवं ज्ञात्वा तु युष्माभिः स्मर्तव्यो गरुडध्वजः ।।
ब्रह्मार्पणप्रयोगेण यजनीयो जनार्दनः ।। ९-३१ ।।
ममत्वं हि परित्यज्य स्वजातिविहितेन च ।।
येन वो ह्यक्षया लोका भवेयुर्नात्र संशयः ।। ९-३२ ।।
पितृमार्गाधिको ह्येष भवतां दर्शितः प्रजाः ।।
ब्रह्मार्पणक्रियायुक्ता भवंतु ज्ञानकोविदाः ।। ९-३३ ।।
न भोक्तव्यं हरिदिने पैत्रो मार्गस्तु शाश्वतः ।।
विशेषो हि मयाख्यातो भवतां ब्रह्मसंस्थितिः ।। ९-३४ ।।
प्रयोक्तव्या च तत्त्वज्ञैः पुनरावृत्ति दुर्लभा ।।
यदुपोष्यं हरिदिनं तदवश्यमिति स्थितिः ।। ९-३५ ।।
अनुनीय प्रजाः सर्वाः समाश्वात्य पुनः पुनः ।।
न दिवा न च शर्वर्यां शेते धर्मां गदः सदा ।। ९-३६ ।।
सर्वत्र भ्रमते शौर्यात्कुर्वन्निष्कंटकां क्षितिम् ।।
पटहो रटते नित्यं मृगारिरिपुमस्तके ।। ९-३७ ।।
अभुक्त्वा द्वादशीं लोका ममत्वेन विवर्जिताः ।।
त्रिविधेषु च कार्येषु देवेशश्चिंत्यतां हरिः ।। ९-३८ ।।
हव्यकव्यवहो देवः स एव पुरुषोत्तमः ।।
सूर्ये यो हि कृशाकाशे विसर्गे जगतां पतिः ।। ९-३९ ।।
स्मर्त्तव्यो मनुजैः सर्वैर्धर्मकामार्थकामुकैः ।।
स्वजातिविहितोऽप्येवं सन्मार्गे चैव माधवः ।। ९-४० ।।
स एव भोक्ता भोक्तव्यः स एव पुरुषोत्तमः ।।
विनियोगस्तु तस्यैव सर्वकर्मसु युज्यते ।। ९-४१ ।।
एवं रटंति विप्रेंद्राः पटहे मेघनिःस्वने ।।
एवं धर्ममवाप्याथ पितां धर्मांगदस्य हि ।। ९-४२ ।।
ज्ञात्वा पुत्रं क्रियोपेतमात्मनो ह्यधिकं द्विजाः ।।
उवाच भार्यां संहृष्टः स्थितां लक्ष्मीमिवापराम् ।। ९-४३ ।।
संध्यावलि ह्यहं धन्यस्त्वं चापि वरवर्णिनी ।।
उभयोर्जनितः पुत्रः शशांकधवलः क्षितौ ।। ९-४४ ।।
कर्णाभ्यां श्रूयते मोक्षो न दृष्टः केनचित्क्वचित् ।।
सोऽस्माभिरधिकं प्राप्तो मोक्षः सत्पुत्रसंभवः ।। ९-४५ ।।
पुत्रे विनयसंपन्ने वृत्ताशौर्यसमन्विते ।।
प्रतापिनि वरारोहे पितुर्मोक्षो गृहे ध्रुवम् ।। ९-४६ ।।
आनंदं ब्रह्मणो रूपं शतानंदः सुतेन यः ।।
पिता भवति चार्वंगि सत्कर्मकरणैः शुभैः ।। ९-४७ ।।
नैतत्साम्यं भवेद्देवि लोके स्थावरजंगमे ।।
सत्पुत्रः पितुरादाय भारमुद्वहते तु यः ।। ९-४८ ।।
सोऽहं गमिष्यामि वनाय हृष्टो विहारशीलो मृगहिंसनाय ।।
स्वेच्छाचरश्चाथ विशालनेत्रे विमुक्तपापो जनरक्षणाय ।। ९-४९ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरेभागे रुक्मांगदधर्मांगदसंवादो नाम नवमोऽध्यायः ।। ९ ।।