नारदपुराणम्- उत्तरार्धः/अध्यायः ६३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसुरुवाच ।।
श्रृणु मोहिनि वक्ष्यामि माहात्म्यं वेदसंमतम् ।।
प्रयागस्य विधानेन स्नात्वा यत्र विशुध्यति ।। ६३-१ ।।

कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता ।।
तस्माद्दशगुणा प्रोक्ता यत्र विंध्येन संगता ।। ६३-२ ।।

तस्माच्छतगुणा प्रोक्ता काश्यामुत्तरवाहिनी ।।
काश्याः शतगुणा प्रोक्ता गंगा यत्रार्कजान्विता ।। ६३-३ ।।

सहस्रगुणिता सापि भवेत्पश्चिमवाहिनी ।।
सा देवि दर्शनादेव ब्रह्महत्यादिहारिणी ।। ६३-४ ।।

पश्चिमाभिमुखी गंगा कालिंद्या सह संगता ।।
हंति कल्पशतं पापं सा माघे देवि दुर्लभा ।। ६३-५ ।।

अमृतं कथ्यते भद्रे सा वेणी भुवि संगता ।।
यस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम् ।। ६३-६ ।।

पृथिव्यां यानि तीर्थानि पुर्यः पुण्यास्तथा सति ।।
स्नातुमायांति ता वेण्यां माघे मकरभास्करे ।। ६३-७ ।।

ब्रह्मविष्णुमहादेवा रुद्रादित्यमरुद्गणाः ।।
गंधर्वा लोकपालाश्च यक्षकिन्नरगुह्यकाः ।। ६३-८ ।।

अणिमादिगुणोपेता ये चान्ये तत्त्वदर्शिनः ।।
ब्रह्माणी पार्वती लक्ष्मीः शची मेधाऽदिती रतिः ।। ६३-९ ।।

सर्वास्ता देवपन्त्यश्च तथानागांगनाः शुभे ।।
घृताची मेनका रंभाप्युर्वशी च तिलोत्तमा ।। ६३-१० ।।

गणाश्चाप्सरसां सर्वे पितॄणां च गणास्तथा ।।
स्नातुमायांति ते सर्वे माघे वेण्यां विरंचिजे ।। ६३-११ ।।

कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः ।।
सर्वतीर्थानि कृष्णानि पापिनां संगदोषतः ।। ६३-१२ ।।

भवंति शुक्लवर्णानि प्रयागे माघमज्जनात् ।।
मकरस्थे रवौ माघे गोविंदाच्युत माधवः ।। ६३-१३ ।।

स्नानेनानेन मे देव यथोक्तफलदो भव ।।
इमं मंत्रं समुच्चार्य स्नायान्मौनं समाश्रितः ।। ६३-१४ ।।

वासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः ।।
तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः ।। ६३-१५ ।।

षष्ट्यब्देन फलं तद्धि मकरस्थे दिवाकरे ।।
बहिः स्नानं तु वाप्यादौ द्वाशाब्दफलं स्मृतम् ।। ६३-१६ ।।

तडागे द्विगुणं तद्धि नद्यादौ तच्चतुर्गुणम् ।।
दशधा देवरवाते च महानद्यां च तच्छतम् ।। ६३-१७ ।।

चतुर्गुणशतं तच्च महानद्योस्तु संगमे ।।
सहस्रगुणितं सर्वं तत्फलं मकरे रवौ ।। ६३-१८ ।।

गंगायां स्नानमात्रेण प्रयागे तत्प्रकीर्तितम् ।।
गंगां ये चावगाहंति माघे मासि सुलोचने ।। ६३-१९ ।।

चतुर्युगसहस्रं ते न पतंति सुरालयात् ।।
शतेन गुणितं माघे सहस्रं विधिनंदिनि ।। ६३-२० ।।

निर्दिष्टमृषिभिः स्नानं गंगायमुनसंगमे ।।
पापौर्घैर्भुवि भारस्य दाहायेमं प्रजापतिः ।। ६३-२१ ।।

प्रयागं विदधे देवि प्रजानां हितकाम्यया ।।
स्नानस्थानमिदं सम्यक् सितासितजलं किल ।। ६३-२२ ।।

पापरूपपशूनां हि ब्रह्मणा निर्मितं पुरा ।।
सितासिता तु या धारा सरस्वत्या विदर्भिता ।। ६३-२३ ।।

तं मार्गं ब्रह्मलोकस्य सृष्टिकर्त्ता ससर्ज वै ।।
ज्ञानदो मानसे माघो न तु मोक्षफलप्रदः ।। ६३-२४ ।।

हिमवत्पृष्ठतीर्थेषु सर्वपापप्रणाशनः ।।
वेदविद्भिर्विनिर्द्दिष्टं इंद्रलोकप्रदो हि सः ।।
सर्वमासोत्तमो माघो मोक्षदो बदरीवने ।। ६३-२५ ।।

पापहा दुःखहारी च सर्वकामफलप्रदः ।।
रुद्रलोक प्रदो माघो नार्मदे परिकीर्तितः ।। ६३-२६ ।।

सारस्वतौघविध्वंसी सर्वलोकसुखप्रदः ।।
विशालफलदो माघो विशालाया प्रकीर्तितः ।। ६३-२७ ।।

पापेंधनदवाग्निश्च गर्भवासविनाशनः ।।
विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः ।। ६३-२८ ।।

सरयूर्गंडकी सिंधुश्चंद्रभागा च कौशिकी ।।
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका ।। ६३-२९ ।।

कावेरी तुंगभद्रा च यास्तथान्याः समुद्रगाः ।।
तासु स्नायी नरो याति स्वर्गलोकं विकल्मषः ।। ६३-३० ।।

नैमिषे विष्णुसारूप्यं पुष्करे ब्रह्मणेंऽतिकम् ।।
आखंडलस्य लोको हि कुरुक्षेत्रे च माघतः ।। ६३-३१ ।।

माघो देवह्रदे देवि योगसिद्धिफलप्रदः ।।
प्रभासे मकरादित्ये स्नात्वा रुद्रगणो भवेत् ।। ६३-३२ ।।

देविकायां देवदेहो नरो भवति माघतः ।।
माघस्नानेन विधिजे गोमत्यां न पुनर्भवः ।। ६३-३३ ।।

हेमकूटे महाकले ॐकारे ह्यपरे तथा ।।
नीलकंठार्बुदे माघो रुद्रलोकप्रदो मतः ।। ६३-३४ ।।

सर्वासां सरितां देवि संपूरो माकरे रवौ ।।
स्नानेन सर्वकामानां प्राप्त्यै ज्ञेयो विचक्षणैः ।। ६३-३५ ।।

माघस्तु प्राप्यते धन्यैः प्रयागे विधिनंदिनि ।।
अपुनर्भवदं तत्र सितासितजलं यतः ।। ६३-३६ ।।

गायंति देवाः सततं दिविष्ठा माघः प्रयागे किल नो भविष्यति ।।
स्नाता नरा यत्र न गर्भवेदनां पश्यंति तिष्ठन्ति च विष्णु सन्निधौ ।। ६३-३७ ।।

तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्द्धं विधात्रा तुलया धृतं पुरा ।।
माघः प्रयागश्च तयोर्द्वयोरभून्माघो गरीयांश्चतुराननात्मजे ।। ६३-३८ ।।

वातांबुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्चिरकालसंचितैः ।।
योगैश्च संयांति नरास्तु यां गतिं स्नानात्प्रयागस्य हि यांति तां गतिम् ।। ६३-३९ ।।

स्नाता हि ये माकरभास्करोदये तीर्थे प्रयागे सुरसिंधुसंगमे ।।
तेषां गृहद्वारमलंकरोति भृंगावली कुंजरकर्णताडिता ।। ६३-४० ।।

यो राज्ञसूयाख्यसमाध्वरस्य स्नानात्फलं संप्रददाति चाखिलम् ।।
पापानि सर्वाणि निहत्य लीलया नूनं प्रयागः स कथं न वर्ण्यते ।। ६३-४१ ।।

चतुर्वेदिषु यत्पुण्यं सत्यवादिषु चैव हि ।।
स्नात एव तदाप्नोति गंगाकालिंदिसंगमे ।। ६३-४२ ।।

तत्राभिषेकं कुर्वीत संगमे शंसितव्रतः ।।
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ।। ६३-४३ ।।

पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।।
प्रवेशादस्य भूमौ तु अश्वमेधः पदे पदे ।। ६३-४४ ।।

त्रीणि कुंडानि सुभगे तेषां मध्ये तु जाह्नवी ।।
प्रयागस्य प्रवेशेन पापं नश्यति तत्क्षणात् ।। ६३-४५ ।।

मासमेकं नरः स्नात्वा प्रयागे नियतेंद्रियः ।।
मुच्यते सर्वपापेभ्यो यथा दृष्टं स्वयंभुवा ।। ६३-४६ ।।

शुचिस्तु प्रयतो भूत्वाऽहिसकः श्रद्धयान्वितः ।।
स्नात्वा मुच्येत पापेभ्यो गच्छेच्च परमं पदम् ।। ६३-४७ ।।

नैमिषं पुष्करं चैव गोतीर्थँ सिंधुसागरम् ।।
गया च धेनुकं चैव गंगासागरसंगमः ।। ६३-४८ ।।

एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ।।
दश तीर्थसहस्राणि त्रंशत्कोटयस्तथा पराः ।। ६३-४९ ।।

प्रयागे संस्थिता नित्यमेधमाना मनीषिणः ।।
त्रीणि यान्यग्निकुंडानि तेषां मध्ये तु जाह्नवी ।। ६३-५० ।।

प्रयागाद्धि विनिष्क्रांता सर्वतीर्थपुरस्कृता ।।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।। ६३-५१ ।।

यमुना गंगाया सार्द्धं संगता लोकपावनी ।।
गांगयमुनयोर्मध्ये पृथिव्यां यत्परं स्मृतम् ।। ६३-५२ ।।

प्रयागस्य तु तीर्थस्य कलां नार्हंति षोडशीम् ।।
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।। ६३-५३ ।।

दिविभुव्यतरिक्षं च जाह्नव्या तानि संति च ।।
प्रयागं समधिष्ठाय कंबलाश्वतरावुभौ ।। ६३-५४ ।।

भागवत्यथवा चैषा वेदां वेद्या प्रजापतेः ।।
तत्र वेदाश्च यज्ञाश्च मूर्तिमंतः समास्थिताः ।। ६३-५५ ।।

प्रजापतिमुपासंते ऋषयश्च तपोधनाः ।।
यजंति क्रतुभिर्देवास्तथा चक्रधराः सति ।। ६३-५६ ।।

ततः पुण्यतमो नास्ति त्रिषु लोकेषु सुंदरि ।।
प्रभावात्सर्वतीर्थभ्यः प्रभवत्यधिकस्तथा ।। ६३-५७ ।।

तत्र दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् ।।
मुच्यन्ते सर्वपापेभ्यः शशांक इव राहुणा ।। ६३-५८ ।।

ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् ।।
ब्रह्मचारी वसन्मासं पितॄन्देवांश्च तर्पयन् ।। ६३-५९ ।।

ईप्सिताँल्लभते कामान्यत्र तत्राभिसंगतः ।।
सितासिते तु यो मज्जेदपि पापशतावृतः ।। ६३-६० ।।

मकरस्थे रवौ माघे न स भूतस्तु गर्भगः ।।
दुर्जया वैष्णवी माया देवैरपि सुदुस्त्यजा ।। ६३-६१ ।।

प्रयागे दह्यते सा तु माघे मासि विरंचिजे ।।
तेषु तेषु च लोकेषु भुक्त्वा भोगाननेकशः ।। ६३-६२ ।।

पश्चाच्चक्रिणि लीयंते प्रयागे माघमज्जिनः ।।
उपस्पृशति यो माघे मकरार्के सितासिते ।। ६३-६३ ।।

तस्य पुण्यस्य संख्यां नो चित्रगुप्तोऽपि वेत्त्यलम् ।।
राजसूयसहस्रस्य वाजपेयशतस्य च ।।
फलं सितासिते माघे स्नातानां भवति ध्रुवम् ।। ६३-६४ ।।

आकल्पजन्मभिः पापं संचितं मनुजैस्तु यत् ।।
तद्भवेद्भस्मसान्माघे स्नातानां तु सितासिते ।। ६३-६५ ।।

गंगायमुनयोश्चैव संगमो लोकविश्रुतः ।।
स एव कामिकं तीर्थं तत्र स्नानेन भक्तितः ।। ६३-६६ ।।

यस्य यस्य च यः कामस्तस्य तस्य भवेद्धि सः ।।
भोगकामस्य भोगाः स्युः स्याद्राज्यं राज्यकामिनः ।। ६३-६७ ।।

स्वर्गः स्यात्स्वर्गकामस्य मोक्षः स्यान्मोक्षकामिनः ।।
कामप्रदानि तीर्थानि त्रैलोक्ये यानि कानि च ।। ६३-६८ ।।

तानि सर्वाणि सेवन्ते प्रयागं मकरे रवौ ।।
हरिद्वारे प्रयागे च गंगासागरसंगमे ।। ६३-६९ ।।

स्नात्वैव ब्रह्मणो विष्णोः शिवस्य च पुरं व्रजेत् ।।
सितासिते तु यत्स्नानं माघमासे सुलोचने ।। ६३-७० ।।

न दत्ते पुनरावृत्तिं कल्पकोटिशतैरपि ।।
सत्यवादी जितक्रोधो ह्यहिंसां परमां श्रितः ।। ६३-७१ ।।

धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ।।
गंगायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् ।। ६३-७२ ।।

मनसा चिंतितान्कामांस्तत्र प्राप्नोति पुष्कलान् ।।
स्वर्णभारसहस्रेण कुरुक्षेत्रे रविग्रहे ।। ६३-७३ ।।

यत्फलं लभते माघे वेण्यां तत्तु दिने दिने ।।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ।। ६३-७४ ।।

प्रयागे माघमासे तु त्र्यहं स्नातस्य तत्फलम् ।।
योगाभ्यासेन यत्पुण्यं संवत्सरशतत्रये ।। ६३-७५ ।।

प्रयागे माघमासे तु त्र्यहं स्नानेन यत्फलम् ।।
नाश्वमेधसहस्रेण तत्फलं लभते सति ।। ६३-७६ ।।

त्र्यहस्नानफलं माघे पुरा कांचनमालिनी ।।
राक्षसाय ददौ प्रीत्या तेन मुक्तः स पापकृत् ।। ६३-७७ ।।

त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः ।।
स्नानेन यदभूत्पुण्यं तेन देवत्वमागता ।। ६३-७८ ।।

रममाणा तु कैलासे गिरिजायाः प्रिया सखी ।।
जातिस्मरा तथा जाता प्रयागस्य प्रसादतः ।। ६३-७९ ।।

अवंतीविषये राजा वासराजोऽभवत्पुरा ।।
नर्मदातीर्थमासाद्य राजसूयं चकार सः ।। ६३-८० ।।

अश्वैः षोडशभिस्तत्र स्वर्णयूपविराजितैः ।।
स्वर्णभूषणभूषाढ्यै रेजे सोऽपि यथाविधि ।। ६३-८१ ।।

प्रददौ धान्यराशिं च द्विजेभ्यः पर्वतोपमम् ।।
श्रद्धावान्देवताभक्तो गोप्रदश्च सुवर्णदः ।। ६३-८२ ।।

ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा ।।
कृषीवलोऽधमाचारः सर्वधर्मबहिष्कृतः ।। ६३-८३ ।।

सीरकर्मसमुद्विग्नो बंधुभिश्च स वंचितः ।।
इतस्ततः परिक्रम्य निर्गतोऽदृष्टपीडितः ।। ६३-८४ ।।

दैवतो ज्ञानमाश्रित्य प्रयागं समुपागतः ।।
महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् ।। ६३-८५ ।।

अनघः स्नानमात्रेण समभूत्स द्विजोत्तमः ।।
प्रयागाच्चलितस्तस्माद्ययौ यस्मात्समागतः ।। ६३-८६ ।।

स राजा सोऽपि वै विप्रो विपन्नावेकदा तदा ।।
तयोर्गतिः समा दृष्टा देवराजस्य सन्निधौ ।। ६३-८७ ।।

तेजो रूपं बलं स्त्रैणं देवयानं विभूषणम् ।।
माला च परिजातस्य नृत्यं गीतं समं तयोः ।। ६३-८८ ।।

इति दृष्ट्‌वा हि माहात्म्य क्षेत्रस्य कथमुच्यते ।।
माघः सितासिते भद्रे राजसूयसमो न च ।। ६३-८९ ।।

धनुर्विंशतिविस्तीर्णे सितनीलांबुसंगमे ।।
माघादपुनरावृत्ती राजसूयात्पुनर्भवेत् ।। ६३-९० ।।

कंबलाश्वतरौ नागौ विपुले यमुनातटे ।।
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ।। ६३-९१ ।।

तत्र गत्वा च संस्थाने महादेवस्य धीमतः ।।
नरस्तारयते पुंसो दश पूर्वान्दशावरान् ।। ६३-९२ ।।

कूपं चैव तु तत्रास्ति प्रतिष्ठानेऽति विश्रुतम् ।।
तत्र स्नात्वा पितॄन्देवान्संतर्प्य यतमानसः ।। ६३-९३ ।।

ब्रह्मचारी जितक्रोधस्त्रिरात्रं योऽत्र तिष्ठति ।।
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ।। ६३-९४ ।।

उत्तरेण प्रतिष्टानाद्भागीरथ्याश्च पूर्वतः ।।
हंसप्रतपनं नाम तीर्थं लोकेषु विश्रुतम् ।। ६३-९५ ।।

अश्वमेधफलं तत्र स्नानमात्रेण लभ्यते ।।
यावच्चंद्रश्च सूर्यश्च तावत्स्वर्गे महीयते ।। ६३-९६ ।।

ततो भोगवतीं गत्वा वासुकेरुत्तरेण च ।।
दशाश्वमेधिकं नाम तत्तीर्थं परमं स्मृतम् ।। ६३-९७ ।।

तत्र कृत्वाभिषेकं तु वाजिमेधफलं लभेत् ।।
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।। ६३-९८ ।।

चतुर्वेदिषु यत्पुण्यं सत्यवादिषु यत्फलम् ।।
अहिंसायां तु यो धर्मो गमनात्तस्य तत्फलम् ।। ६३-९९ ।।

पायतेश्चोत्तरे कूले प्रयागस्य तु दक्षिणे ।।
ऋणमोचनकं नाम तीर्थं तु परमं स्मृतम् ।। ६३-१०० ।।

एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते ।।
स्वर्गलोकमवाप्नोति ह्यमरश्च तथा भवेत् ।। ६३-१०१ ।।

त्रिकालमेकस्नायी चाहारमुक्तिं य आचरेत् ।।
विश्वासघातपापात्तु त्रिभिर्मासैः स शुद्ध्यति ।। ६३-१०२ ।।

कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ।।
अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् ।। ६३-१०-३ ।।

मकरस्थे रवौ माघे न स्नात्यनुदिते रवौ ।।
कथं पापैः प्रमुच्येत कथं वा त्रिदिवं व्रजेत् ।। ६३-१०४ ।।

प्रयागे वपनं कुर्याद्गंगायां पिंडपातनम् ।।
दानं दद्यात्कुरुक्षेत्रे वाराणस्यां तनुं त्यजेत् ।। ६३-१०५ ।।

किं गयापिंडदानेन काश्यां वा मरणेन किम् ।।
किं कुरुक्षेत्रदानेन प्रयागे मुंडनं यदि ।। ६३-१०६ ।।

संवत्सरं द्विमासोनं पुनस्तीर्थं व्रजेद्यदि ।।
मुंडनं चोपवासं च ततो यत्नेन कारयेत् ।। ६३-१०७ ।।

प्रयागप्राप्तनारीणां मुंडनं त्वेवमीरयेत् ।।
सर्वान्केशान्समुद्धृत्य छेदयेदंगुलद्वयम् ।। ६३-१०८ ।।

केशमूलान्युपाश्रित्य सर्वपापानि देहिनाम् ।।
तिष्ठंति तीर्थस्नानेन तस्मात्तान्यत्र वापयेत् ।। ६३-१०९ ।।

अमार्कपातश्रवणेर्युक्ता चेत्पौषमाघयोः ।।
अर्द्धोदयः स विज्ञेयः सूर्यपर्वशताधिकः ।। ६३-११० ।।

किंचिन्न्यूने तु विधिजे महोदय इति स्मृतः ।।
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।। ६३-१११ ।।

प्रयागे यदि लभ्येत सहस्रार्कग्रहैः समा ।।
अयने कोटिपुण्यं स्याल्लक्षं तु विषुवे फलम् ।। ६३-११२ ।।

षडशीत्यां सहस्रं तु तथा विष्णुपदीषु च ।।
दानं प्रयागे कर्तव्यं यथाविभवविस्तरम् ।। ६३-११३ ।।

तेन तीर्थफलं चैव वर्धते विधिनंदिनि ।।
गंगायमुनयोर्मध्ये यस्तु गां वै प्रयच्छति ।। ६३-११४ ।।

सुवर्णं मणिमुक्तां वा यदि वान्यं प्रतिग्रहम् ।।
पाटलां कपिलां भद्रे यस्तु तत्र प्रयच्छति ।। ६३-११५ ।।

स्वर्णश्रृंगीं रौप्यखुरां चैलकंठीं पयस्विनीम् ।।
सवत्सां श्रोत्रियं साधुं ग्राहयित्वा यथाविधि ।। ६३-११६ ।।

शुक्लां वरधरं शांतं धर्मज्ञं वेदपारगम् ।।
सा च गौस्तस्य दातव्या गंगायमुनसंगमे ।। ६३-११७ ।।

वासांसि च महार्हाणि रत्नानि विविधानि च ।।
यावंतो रोमकूपाः स्युस्तस्या गोर्वत्सकस्य च ।। ६२-११८ ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
यत्रासौ लभते जन्म सा गौस्तत्राभिजायते ।। ६३-११९ ।।

न च पश्यंति नरकं दातारस्तेन कर्मणा ।।
उत्तरांश्च कुरून्प्राप्य मोदंते कालमक्षयम् ।। ६३-१२० ।।

गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् ।।
पुत्रान्दारांस्तथा भृत्यान् गौरेका प्रतितारयेत् ।। ६३-१२१ ।।

तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते ।।
दुर्गमे विषमे घोरे महापातकसंक्रमे ।। ६३-१२२ ।।

गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे ।।
तीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च ।। ६३-१२३ ।।

निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेद्द्विजः ।।
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ।। ६३-१२४ ।।

विफलं तस्य तत्तीर्थँ यावत्तद्धनमश्नुते ।।
गंगायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ।। ६३-१२५ ।।

न स पश्यति घोरं तु नरकं तेन कर्मणा ।।
उत्तरांस्तु कुरून् गत्वा मोदते कालमक्षयम् ।। ६३-१२६ ।।

पुत्रान्दारांश्च लभते धार्मिकान्रूपसंयुतान् ।।
अधः शिरास्ततो धूममूर्द्धूबाहुः पिबेन्नरः ।। ६३-१२७ ।।

शतं वर्षसहस्राणां स्वर्गलोके महीयते ।।
परिभ्रष्टस्ततः स्वर्गादग्निहोत्री भवेन्नरः ।। ६३-१२८ ।।

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ।।
आ प्रयागात्प्रतिष्ठानान्मत्पुरो वासुकेर्ह्रदात् ।। ६३-१२९ ।।

कंबलाश्वतरौ नागौ नागादबहुमूलकात् ।।
एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ।। ६३-१३० ।।

तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।।
न वेदवचनाच्चैव न लोकवचनादपि ।। ६३-१३१ ।।

मतिरुत्क्रमणीया हि प्रयागमरणं प्रति ।।
दशतीर्थसहस्राणि षष्टिकोट्यस्तथा पराः ।। ६३-१३२ ।।

तत्रैव तेषां सान्निध्यं कीर्तितं विधिनंदिनि ।।
या गतिर्योगयुक्तस्य सत्पथस्थस्य धीमतः ।। ६३-१३३ ।।

सा गतिस्त्यजतः प्राणान् गंगायमुनसंगमे ।।
बाधितो यदि वा दीनः क्रुद्धो वापि भवेन्नरः ।। ६३-१३४ ।।

गंगायमुनमासाद्य यस्तु प्राणान्परित्यजेत् ।।
दीप्तकांचनवर्णाभैर्विमानैः सूर्यकांतिभिः ।। ६३-१३५ ।।

गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः ।।
ईप्सिताँल्लभते कामान्वदंतीति मुनीश्वराः ।। ६३-१३६ ।।

गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।।
यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ।। ६३-१३७ ।।

ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मात्र चागतः ।।
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ।। ६३-१३८ ।।

तदेवसंस्मरंस्तत्र विष्णुलोकं स गच्छति ।।
वटमूलं समासाद्य यस्तु प्राणान्परित्यजेत् ।। ६३-१३९ ।।

सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छिति ।।
तत्र ते द्वादशादित्यांस्तपंते रुद्रमाश्रिताः ।। ६३-१४० ।।

निर्गच्छंति जगत्सर्वं वटमूले स दह्यते ।।
हरिश्च भगवांस्तत्र प्रजापतिपुरस्कृतः ।। ६३-१४१ ।।

आस्ते तत्र पुटे देवि पादांगुष्ठं धयञ्छिशुः ।।
उर्वशीपुलिने रम्ये विपुले हंसपांडुरे ।। ६३-१४२ ।।

परित्यजति यः प्राणाञ्छृणु तस्यापि यत्फलम् ।।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।। ६३-१४३ ।।

वसेत्स पितृभिः सार्द्धं स्वर्गलोके विरिंचिजे ।।
उर्वशीं च यदा पश्येद्देवलोके सुलोचने ।। ६३-१४४ ।।

पूज्यते सततं देवऋषिगंधर्वकिन्नरैः ।।
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा त्विहागतः ।। ६३-१४५ ।।

उर्वशीसदृशीनां तु कांतानां लभते शतम् ।।
मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत् ।। ६३-१४६ ।।

दशग्रामसहस्राणां भोक्ता शास्ता च मोहिनि ।।
कांचीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते ।। ६३-१४७ ।।

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ।।
शुक्लांबरधरो नित्यं नियतः स जितेंद्रियः ।। ६३-१४८ ।।

एककालं तु भुञ्जानो मासं योगपतिर्भवेत् ।।
सुवर्णालंकृतानां तु नारीणां लभते शतम् ।। ६३-१४९ ।।

पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ।।
धनधान्यसमायुक्तो दाता भवति नित्यशः ।। ६३-१५० ।।

स भुक्त्वा विपुलान्भोगांस्तत्तीर्थँ स्मरते पुनः ।।
कोटितीर्थँ समासाद्य यस्तु प्राणान्परित्यजेत् ।। ६३-१५१ ।।

कोटिवर्षसहस्रान्तं स्वर्गलोके महीयते ।।
ततः स्वर्गादिहागत्य क्षीणकर्मा नरोत्तमः ।। ६३-१५२ ।।

सुवर्णमणिमुक्ताग्रे कुले जायेत रूपवान् ।।
अकामो वा सकामो वा गंगायां यो विपद्यते ।। ६३-१५३ ।।

शक्रस्य लभते स्वर्गं नरकं तु न पश्यति ।।
हंससारसयुक्तेन विमानेन स गच्छति ।। ६३-१५४ ।।

अप्सरोगणसंकीर्णे सुप्तोऽसौ प्रतिबुध्यते ।।
ततः स्वर्गादिहायातः क्षीणकर्मा विरंचिजे ।। ६३-१५५ ।।

योगिनां श्रीमतां चापि स्वेच्छया लभते जनिम् ।।
गङ्गायमुनयोर्मध्ये करीषाग्निं तु धारयेत् ।। ६३-१५६ ।।

अहीनांगो ह्यरोगश्च पंचेंद्रियसमन्वितः ।।
यावंति लोमकूपानि तस्य गात्रे तु धीमतः ।। ६३-१५७ ।।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
ततः स्वर्गात्परिभ्रष्टो जंबूद्वीपपतिर्भवेत् ।। ६३-१५८ ।।

भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ।।
यस्तु देहं निकृत्त्य स्वं शकुनिभ्यः प्रयच्छति ।। ६३-१५९ ।।

स वर्षशतसाहस्रं सोमलोके महीयते ।।
ततस्तस्मादिहागत्य राजा भवति धार्मिकः ।। ६३-१६० ।।

गुणवान्रूपसंपन्नो विद्यावान्प्रियवाक्छुचिः ।।
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं पुनराव्रजेत् ।। ६३-१६१ ।।

पंचयोजनविस्तीर्णे प्रयागस्य तु मंडले ।।
विपन्नो यत्र कुत्राप्यनाशकं व्रतमास्थितः ।। ६३-१६२ ।।

व्यतीतान्पुरुषान्सप्त भाविनस्तु चतुर्दश ।।
नरस्तारयते सर्वानात्मानं च समुद्धरेत् ।। ६३-१६३ ।।

अग्नितीर्थमिति ख्यातं दक्षिणे यमुनातटे ।।
पश्चिमे धर्मराजस्य तीर्थं तु नरकं स्मृतम् ।। ६३-१६४ ।।

तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।।
यमुनोत्तरकूले तु पापघ्नानि बहून्यपि ।। ६३-१६५ ।।

तीर्थानि संति विधिजे सेवितानि मुनीश्वरैः ।।
तेषु स्नाता दिवं यांति ये मृतास्तेऽपुनर्भवाः ।। ६३-१६६ ।।

गंगा च यमुना चैव उभे तुल्यफले स्मृते ।।
केवलं ज्येष्ठभावेन गंगा सर्वत्र पूज्यते ।। ६३-१६७ ।।

यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ।।
तेन दत्तेन देवेशि योगो लभ्येत वा न वा ।। ६३-१६८ ।।

प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ।।
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ।। ६३-१६९ ।।

प्रयागं स्मरमाणोऽपि यस्तु प्राणान्परित्यजेत् ।।
ब्रह्मलोकमवाप्नोति मही यत्र हिरण्मयी ।। ६३-१७० ।।

सर्वकामफला वृक्षास्तिष्ठंति ऋषयो गताः ।।
स्त्रीसहस्राकुले रम्ये मंदाकिन्यास्तटे शुभे ।। ६३-१७१ ।।

क्रीड्यते सिद्धगंधर्वैः पूज्यते त्रिदशैस्तथा ।।
ततः पुनरिहायातो जंबूद्वीपपतिर्भवेत् ।। ६३-१७२ ।।

धर्मात्मा गुणसंपन्नस्तत्तीर्थँ लभते पुनः ।।
एतत्ते सर्वमाख्यातं माहात्म्यं च प्रयागजम् ।। ६३-१७३ ।।

सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि ।। ६३-१७४ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे बृहदुपाख्याने वसुमोहिनीसंवादे प्रयागमाहात्म्ये त्रिषष्टितमोऽध्यायः ।। ६३ ।।
इति प्रयागमाहात्म्यं समाप्तम् ।।