नारदपुराणम्- उत्तरार्धः/अध्यायः ४४
वसिष्ठ उवाच ।।
ततस्तु मोहिनी भूपश्रुत्वा माहात्म्यमुत्तमम् ।।
गंगायाः पापनाशिन्याः पुनः प्राह पुरोहितम् ।। ४४-१ ।।
मोहिन्युवाच ।।
त्वया चानुगृहीतास्मि भगवन्ननुकंपया ।।
यदुक्तं पुण्यमाख्यानं गंगायाः पापशोधनम् ।। ४४-२ ।।
गयातीर्थं तु विख्यातं कथं लोके द्विजोत्तम ।।
तदहं श्रोतुमिच्छामि कृपां कृत्वाधुना वद ।। ४४-३ ।।
वसुरुवाच ।।
पितृतीर्थं गयानाम सर्वतीर्थवरं स्मृतम् ।।
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ।। ४४-४ ।।
यत्रैषा पितृभिर्गीता गाथा योगमभीप्सुभिः ।।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।। ४४-५ ।।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।।
सारात्सारतरं देवि गयामाहात्म्यमुत्तमम् ।। ४४-६ ।।
प्रवक्ष्यामि समासेन भुक्तिमुक्तिप्रदं श्रृणु ।।
गयासुरोऽभवत्पूर्वं वीर्यवान्परमः स च ।। ४४-७ ।।
तपश्चक्रे महाघोरं सर्वभूतोपतापनम् ।।
तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः ।। ४४-८ ।।
शरणं हरिरूचे तान्भवितव्यं शिवात्मभिः ।।
पातितस्य महान्देहे तथेत्यूचुः सुरा हरिम् ।। ४४-९ ।।
कदाचिच्छिवपूजार्थं क्षीराब्धेः कमलानि च ।।
आनीय निकटे देशे शयनं चाकरोद्धरेः ।। ४४-१० ।।
विष्णुमायाविमूढोऽसौ गदया विष्णुना हतः ।।
ततो गदाधरो विष्णुर्गयायां मुक्तिदः स्मृतः ।। ४४-११ ।।
तस्य देहे लिंग रूपी स्थितः शुद्धः पितामहः ।।
विष्णुवाहार्थमर्यादां पुण्यक्षेत्रं भविष्यति ।। ४४-१२ ।।
यज्ञं श्राद्धं पिंडदानं स्नानादि कुरुते नरः ।।
स स्वर्गे ब्रह्मलोकं वा गच्छेन्न नरकं नरः ।। ४४-१३ ।।
गयातीर्थं परं ज्ञात्वा योगं चक्रे पितामहः ।।
ब्राह्मणान्पूजयामास ऋषींश्च समुपागतान् ।। ४४-१४ ।।
नदीं सरस्वंतीं सृष्ट्वा स्थितो व्याप्तदिगंतरः ।।
भक्ष्यभोज्यफलादींश्च कामधेनूस्तथासृजत् ।। ४४-१५ ।।
पंचक्रोशं गयातीर्थं ब्राह्मणेभ्यो धनं ददौ ।।
धर्मयागे तु लोभाद्वै प्रतिगृह्य धनादिकम् ।। ४४-१६ ।।
स्थिता विप्रास्तदा शप्ता गयायां ब्रह्मणा ततः ।।
मा भूत्त्रिपुरुषी विद्या माभूत्त्रिपुरुषं धनम् ।। ४४-१७ ।।
युष्माकं स्याद्धि विरसा नदी पाषाणपर्वतः ।।
स तैंस्तु प्रार्थितो ब्रह्मा तीर्थानिकृतवान्प्रभुः ।। ४४-१८ ।।
लोकाः पुण्या गयायां वै श्राद्धेन ब्रह्मलोकगाः ।।
युष्मान्ये पूजयिष्यंति तैरहं पूजितः सदा ।। ४४-१९ ।।
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।।
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।। ४४-२० ।।
समुद्राः सरितः सर्वे वापीकूपह्नदास्तथा ।।
स्नातुकामा गयातीर्थं देवि यांति न संशयः ।। ४४-२१ ।।
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।।
पापं तत्संगजं सर्वं गयाश्राद्धिनश्यति ।। ४४-२२ ।।
असंस्कृता मृता ये च पशुभिः प्रहताश्च ये ।।
सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्गं व्रजन्ति ते ।। ४४-२३ ।।
गयायां पिंडदानेन यत्फलं लभते नरः ।।
न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ।। ४४-२४ ।।
अत्रैव श्रूयते देवि इतिहासः पुरातनः ।।
तं प्रवक्ष्यामि सुभगे श्रृणुष्वैकाग्रमानसा ।। ४४-२५ ।।
त्रेतायुगे वै नृपतिर्बभूव विशालनामा स पुरीं विशालाम् ।।
उवास धन्यो धृतिमानपुत्रः स्वयं विशालाधिपतिर्द्विजाग्र्यान् ।। ४४-२६ ।।
पप्रच्छ पुत्रार्थममित्रहंता तं ब्राह्मणाः प्रोचुरदीनसत्वाः ।।
राजन् पितॄंस्तर्पय पुत्रहेतोर्गत्वा गयायां विधिवत्तु पिंडैः ।। ४४-२७ ।।
ध्रुवं ततस्ते भविता तु वीर सहस्रदाता सकलक्षितीशः ।।
इतीरितो विप्रगणैः स दृष्टो राजा विशालाधिपतिः प्रयत्नात् ।। ४४-२८ ।।
समस्ततीर्थप्रवरां द्विजेन गयामियात्तद्गतमानसः सन् ।।
आगत्य तीर्थप्रवरं सुतार्थी गयाशिरो यागपरः पितॄणाम् ।। ४४-२९ ।।
पिंडप्रदानं विधिना प्रयच्छत्तावद्वियत्युत्त ममूर्तियुक्तान् ।।
पश्यन् स पुंसः सितरक्तकृष्णानुवाच राजा किमिदं भवंतः ।। ४४-३० ।।
समुंह्यते शंसत सर्वमेतत्कुतूहलं मे मनसि प्रवृत्तम् ।।
।। सित उवाच ।।
अहं सितस्ते जनकोऽस्मि राजन्नाम्ना च वर्णेन च कर्मणा च ।। ४४-३१ ।।
अयं च मे जनको रक्तवर्णो नृशंसकृद्ब्रह्महा पापकारी ।।
अतः परं श्रृणु प्रपितामहश्च कृष्णो नाम्ना कर्मणा वर्णतश्च ।। ४४-३२ ।।
एतेन कृष्णेन हता पुरा वै जन्मन्यनेका ऋषयः पुराणाः ।।
एतौ स्मृतौ द्वावपि पितृपुत्रौ अवीचिसंज्ञं नरकं प्रविष्टौ ।। ४४-३३ ।।
अतः परोऽयं जनकः परोऽस्य तत्कृष्णवक्त्रावपि दीर्घकालम् ।।
अहं च शुद्धेन निजेन कर्मणा शक्रासनं प्राप्य सुदुर्लभं तकत् ।। ४४-३४ ।।
त्वया पुनर्मंत्रविदा गयायां पिंडप्रदानेन बलादिमौ च ।।
मोक्षायितौ तीर्थवरप्रभावाद वीचिसंज्ञं नरकं गतौ तौ ।। ४४-३५ ।।
पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।।
प्रीणयामीति यत्तोयं त्वया दत्तमरिंदम ।। ४४-३६ ।।
तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ।।
तीर्थप्रभावाद्गच्छामः पितृलोकं न संशयः ।। ४४-३७ ।।
तत्र पिंडप्रदानेन एतौ तव पितामहौ ।।
त्वद्गतावपि संसिद्धौ पापाद्विकृतलिंगकौ ।। ४४-३८ ।।
एतस्मात्कारणात्पुत्र अहमेतौ प्रगृह्य तु ।।
आगतोऽस्मि भवंतं वै द्रंष्टु यास्यामिसांप्रतम् ।। ४४-३९ ।।
तीर्थप्रभावाद्यत्नेन ब्रह्मघ्नस्यापि वै पितुः ।।
गयायां पिंडदानेन कुर्यादुद्धरणं सुतः ।। ४४-४० ।।
इत्येवमुक्त्वा तु पितासितोऽस्य सार्द्धं च ताभ्यां हि पितामहाभ्याम् ।।
जगाम सद्यो हि सुतं विशालं संयोज्य चाशीर्भिरपि स्वलोकम् ।। ४४-४१ ।।
सकृद्गयाभिगमनं सकृत्पिंडप्रपातनम् ।।
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितिः ।। ४४-४२ ।।
क्रियते पतितानां तु गते संवत्सरे क्वचित् ।।
देशकालप्रमाणत्वाद्गया कूपे स्वबंधुभिः ।। ४४-४३ ।।
प्रेतराजोऽथ वणिजं कंचित्प्राह स्वमुक्तये ।।
गयातीर्थं तु दृष्ट्वा त्वं स्नात्वा शौचसमन्वितः ।। ४४-४४ ।।
मम नाम सम्रुद्दिश्य पिंडनिर्वपणं कुरु ।।
तत्र पिंडप्रदानेन प्रेतभावादहं सुखम् ।। ४४-४५ ।।
मुक्तस्तु सर्वदादॄणां प्राप्स्यामि शुभलोकताम् ।।
इत्येवमुक्त्वा वणिज प्रेतराजोऽनुगैः सह ।। ४४-४६ ।।
स्वनामानि यथान्यायं सम्यगाख्यातवान्रहः ।।
उपार्जियित्वा प्रययौ गयाशीर्षमनुत्तमम् ।। ४४-४७ ।।
पांशुनिर्वपण चक्रे प्रेतानामनुपूर्वशः ।।
तकार वसुदानं च पितॄन्कृत्वा पुरःसरान् ।। ४४-४८ ।।
आत्मनोऽसौ महाबुद्धिर्विधानापि तिलैर्विना ।।
पिंडनिर्वपणं चक्रे तथा न्यानपि गोत्रजन् ।। ४४-४९ ।।
एवं दत्ते तु वै पिंडे वणिजा प्रेतभावतः ।।
विमुक्ता द्विजतां प्राप्य ब्रह्मलोकं ततो गताः ।। ४४-५० ।।
पायसं खङ्गमांसं च पुत्रैर्दत्तं पितृक्षयं ।।
कृष्णो लोहस्तथा छाग आनंत्याय प्रकल्पते ।। ४४-५१ ।।
गयायामक्षयं श्राद्धं जपहोमतपांसि च ।।
पितृक्षये हि तत्पुत्रैः कृतमानंत्यतां व्रजेत् ।। ४४-५२ ।।
कांक्षंति पितरः पुत्रान्नरकस्य भयार्द्दिताः ।।
गयां यास्यति यः पुत्रः सोऽस्मान्संतारयिष्यति ।। ४४-५३ ।।
गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा ।।
गयाशीर्थेऽक्षयवटे पितॄणां दत्तमक्षयम् ।। ४४-५४ ।।
ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ।।
दृष्ट्वैतानि पितॄंश्चार्च्य वंश्यान्विंशतिमुद्धरेत् ।। ४४-५५ ।।
महाकल्पकृतं पापं गयां प्राप्य विनश्यति ।।
गवि गृध्रवटे चैव श्राद्धं दत्तं महाफलम् ।। ४४-५६ ।।
मतंगस्य पदं तत्र दृश्यते सर्वमानुषैः ।।
ख्यापितं धर्मसर्वस्वं लोकस्यैव निदर्शनात् ।। ४४-५७ ।।
तत्पंकजवनं पुण्यं पुण्यवद्भिर्निषेवितम् ।।
यस्मिन्पांडुर्विशत्येव तीर्थं सर्वनिदर्शनम् ।। ४४-५८ ।।
तृतीयां तथा पादे निक्षीरायाश्च मण्डले ।।
महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् ।। ४४-५९ ।।
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।।
बहुवर्षशतं तप्तं तपस्तीर्थेषु दुष्करम् ।। ४४-६० ।।
अल्पेनाप्यत्र कालेन नरो धर्मपुरायणः ।।
पाप्मनमुत्सृजन्याशु जीर्णांत्वचमिवोरगः ।। ४४-६१ ।।
नाम्ना कनकनंदेति तीर्थं तत्रैव विश्रुतम् ।।
उदीच्यां मुण्डपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।। ४४-६२ ।।
तत्र स्नात्वा दिवं यांति स्वशरीरेण मानवः ।।
दत्तं तत्र सदा श्राद्धमक्षयं समुदाहृतम् ।। ४४-६३ ।।
स्नात्वा दिनत्रयं तत्र निःक्षीरायां सुलोचने ।।
मानसे सरसि स्नात्वा श्राद्धं तत्र समाचरेत् ।। ४४-६४ ।।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ।।
यस्तत्र निर्वपेच्छ्राद्धं यथाशक्ति यथाबलम् ।। ४४-६५ ।।
कामान्संलभते दिव्यान्मोक्षोपायांश्च कृत्स्नाशः ।।
ततो ब्रह्मसिरो गच्छेद्ब्रह्मवश्योभितम् ।। ४४-६६ ।।
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ।।
ब्रह्मणा तत्र सरसि यूपः पुण्यः प्रकल्पितः ।। ४४-६७ ।।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ।।
ततो गच्छेत्तु सुभगे धेनुकं लोकविश्रुतम् ।। ४४-६८ ।।
एकरात्रोषितो यत्र प्रयच्छेत्तिधेनुकाम् ।।
सर्वपापविनिर्मुक्तः सोमलोकं व्रजेद्ध्रुवम् ।। ४४-६९ ।।
तत्र चिह्नं महाभागे अद्यापि महदद्भुतम् ।।
कपिला सह वत्सेन पर्वते विचरत्युत ।। ४४-७० ।।
पदानि तत्र दृश्यंते सवत्सायाश्च मोहिनि ।।
सवत्सायाः प्रदृष्येषु पदेषु नरपुंगवैः ।। ४४-७१ ।।
यत्किंचिदशुभं कर्म तेषां तन्निश्यति क्षणात् ।।
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ।। ४४-७२ ।।
स्नायीत भास्मना तत्र अभिगम्य वृषध्वजम् ।।
ब्राह्मणानां भवेद्देवि व्रतं द्वादशवार्षिकम् ।। ४४-७३ ।।
इतरेषां तु वर्णानां सर्व पापं प्रणश्यति ।।
उद्यंतं च ततो गच्छेत्पर्वंतं गीतनादितम् ।। ४४-७४ ।।
सावित्र्यास्तु पदं यत्र दृश्यते पुण्यदं महत् ।।
तत्र संध्यामुपासीत ब्राह्मणः शंसितव्रतः ।। ४४-७५ ।।
उपासिता भवेत्संध्या तेन द्वादशवार्षिकी ।।
योनिद्वारं च तत्रैव विद्यते विधिनंदिनि ।। ४४-७६ ।।
तत्राधिगम्य मुच्येत पुरुषो योनिसंकटात् ।।
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नृपः ।। ४४-७७ ।।
पुनात्यासप्तमं चैव कुलान्यत्र न संशयः ।।
ततो गच्छेच्च सुभगे धर्मपृष्ठं महाफलम् ।। ४४-७८ ।।
यत्र धर्मः स्थितः साक्षात्पितृलोकस्य पालकः ।।
अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ।। ४४-७९ ।।
ततो गच्छेत मनुजो ब्रह्मणस्तीर्थमुत्तमम् ।।
तत्राधिगम्य ब्रह्माणं राजसूयफलं लभेत् ।। ४४-८० ।।
फल्गुतीर्थं च विख्यातं बहुमुलफलान्वितम् ।।
कौशिकी च नदी यत्र श्राद्धं तत्राक्षयं स्मृतम् ।। ४४-८१ ।।
ततो महीधरं गच्छेद्धर्मज्ञेनाभिरक्षितम् ।।
राजर्षिणा पुण्यकृता गयेनानुपभुज्यते ।। ४४-८२ ।।
सरो गयशिरो यत्र पुण्या चैव महानदी ।।
ऋषिजुष्टं महापुण्यं तीर्थं ब्रह्मसरोवरम् ।। ४४-८३ ।।
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति ।।
उवास सततं यत्र धर्मराजः सनातनः ।। ४४-८४ ।।
सर्वासां सरितां यत्र समुद्भेदो हि दृश्यते ।।
यत्र संनिहितो नित्य महादेवः पिनाकधृक् ।। ४४-८५ ।।
यत्राक्षयो वटो नाम वर्तते लोकविश्रुतः ।।
गयेन यजमानेन तत्रेष्टं क्रतुना पुरा ।। ४४-८६ ।।
आस्थिता तु सरिच्छ्रेष्ठा गययज्ञेषु रक्षिता ।।
मंडपृष्ठं गयां चैव रैवतं देवपर्वतम् ।। ४४-८७ ।।
तृतीयं क्रौंचपादं च दृष्ट्वा पापात्प्रमुच्यते ।।
शिवनद्यां शिवकरं गयायां च गदाधरम् ।। ४४-८८ ।।
सर्वत्र परमात्मानं दृष्ट्वा मुच्येदघव्रजात् ।।
वाराणस्यां विशालाक्षी प्रयागे ललिता तथा ।। ४४-८९ ।।
गयायां मंगला नाम कृतशौचे तु सैंहिका ।।
यद्ददाति गयास्थस्तत्सर्वमानंत्यमश्नुते ।। ४४-९० ।।
नंदंति पितरस्तस्य सुप्रकृष्टेन कर्मणा ।।
यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ।। ४४-९१ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।