नारदपुराणम्- उत्तरार्धः/अध्यायः ८०
अथ वृन्दावनमाहात्म्यम् ।।
मोहिन्युवाच ।।
मथुरायास्तु माहात्म्यं वनानां चापि मानद ।।
श्रुतं वृन्दावनस्यापि रहस्यं किंचिदीरय ।। ८०-१ ।।
वृंदारण्यं भुवो ब्रह्मन्कीर्तिरूपं रहोगतम् ।।
तच्छ्रोतुं मम वांछास्ति तन्निरूपय विस्तरात् ।। ८०-२ ।।
वसु रुवाच ।।
श्रृणु देवि रहस्यं मे वृन्दारण्यसमुद्भवम् ।।
यन्न कस्मैचिदाख्यातं मया प्राप्य गुरूत्तमात् ।। ८०-३ ।।
गुरवे कथितं भद्रे नारदेन महात्मना ।।
वृन्दया नारदायोक्तं रहस्यं गोपिकापतेः ।। ८०-४ ।।
तत्तेऽहं संप्रवक्ष्यामि जगदुद्धारकारणम् ।।
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ।। ८०-५ ।।
वृन्दारण्यं समासाद्य तस्थौ पुष्पसरस्तटे ।।
पश्चिमोत्तरतो देवि माथुरे मंडले स्थितम् ।। ८०-६ ।।
वृन्दारण्यं तुरीयांशं गोपिकेशरःस्थलम् ।।
गोवर्द्धनो यत्र गिरिः सखिस्थलसमीपतः ।। ८०-७ ।।
वृन्दायास्तत्तपोऽरण्यं नंदिग्रामानुयामुनम् ।।
तटे तु यामुने रम्ये रम्यं वृन्दावनं सति ।। ८०-८ ।।
पुण्यं तत्रापि सुभगे सुपुण्यं कौसुमं सरः ।।
वृंदायास्तु तटे रम्ये आश्रमोऽतिसुखावहः ।। ८०-९ ।।
नित्यं विश्रमते यत्र मध्याह्ने सखिभिर्हरिः ।।
मुहूर्तं स तु विश्रम्य स्निग्धच्छायतरोस्तले ।। ८०-१० ।।
शीतलं पुष्पसरसो वार्युपस्पृश्य नारदः ।।
कृत्वा माध्याह्निकं कर्म तस्थौ तत्र सरस्तटे ।। ८०-११ ।।
तत्र वृन्दाश्रमे रम्ये गोप्यो गोपाश्च मोहिनि ।।
आयांति वर्गशो यांति नारदस्य विपश्यतः ।। ८०-१२ ।।
अथैवं याममेकं तु तत्र स्थित्वा तु नारदः ।।
प्रहरार्द्धावशिष्टेऽह्नि विवेशाश्रममद्भुतम् ।। ८०-१३ ।।
यत्र वृन्दा स्थिता देवी कृष्णभक्तिपरायणा ।।
समागतानां सत्कारं विदधाना फलादिभिः ।। ८०-१४ ।।
तां दृष्ट्वा तापसीं भद्रे नारदः साधुसम्मतः ।।
नमस्कृत्य विनम्रांगो निषसाद धरातले ।। ८०-१५ ।।
ततः सा ध्यानयोगांते समुन्मील्य विलोचने ।।
आसनं संदिदेशाथोऽतिथये नारदाय वै ।। ८०-१६ ।।
ततः स नारदस्तत्र सत्कृतो वृन्दयावसत् ।।
रहस्यं गोपिकेशस्य तस्या जिज्ञासुरादरात् ।। ८०-१७ ।।
तया कृतां सत्कृतिं तु स्वीकृत्य विधिनंदनः ।।
सुप्रसन्नांतरां वृन्दां ज्ञात्वा हार्दं व्यजिज्ञपत् ।। ८०-१८ ।।
सा तु तद्वांछितं ज्ञात्वा ध्यानयोगेन भामिनि ।।
स्वसखीं माधवीं तत्र समाहूयाब्रवीदिदम् ।। ८०-१९ ।।
माधवि प्रियमेतस्य नारदस्य महात्मनः ।।
संपादय यथा मह्यमाश्रमस्य सुपुण्यता ।। ८०-२० ।।
स्वाश्रमं ह्यागतस्चैव यो न संपादयेत्प्रियम् ।।
निष्फलो ह्याश्रमस्तस्य फेरुराजगृहोपमः ।। ८०-२१ ।।
अथ सा माधवी देवी नीत्वा नारदमाज्ञया ।।
स्वाधिष्ठात्र्यास्तु वृन्दायाः सरसस्तटमुत्तमम् ।। ८०-२२ ।।
पश्चिमोत्तरतस्तस्मिन्स्नातुं तं संदिदेश ह ।।
ततस्तदाज्ञया भद्रे नारदो देवदर्शनः ।। ८०-२३ ।।
निममज्जं जले तस्मिन्ध्यायञ्छ्रीकृष्णसंगमम् ।।
निमज्जमाने सरसि नारदे मुनिसत्तमे ।। ८०-२४ ।।
ययौ वृन्दांतिकं भद्रे संविधाय तदीप्सितम् ।।
अथासौ नारदस्तत्र सन्निमज्योद्गतस्तदा ।। ८०-२५ ।।
ददर्श निजमात्मानं वनितारूपमद्भुतम् ।।
ततस्तु परितो वीक्ष्य नारदी सा शुचिस्मिता ।। ८०-२६ ।।
पूर्वोत्तरायां तिष्ठंती आह्वयंती करेंगितैः ।।
ददर्श वनितां रम्यां भूषितां भूषणोत्तमैः ।। ८०-२७ ।।
ततस्तया समाहूता नारदी सा तदंतिकम् ।।
प्राप्ता विश्वासिता स्वस्था नीता चापि स्थलांतरम् ।। ८०-२८ ।।
रत्नप्राकारखचिते भवने वनिताकुले ।।
प्रापय्य तां निवृत्तासौ सापि ताभिः सुसत्कृता ।। ८०-२९ ।।
विशाखादिसखीवृन्दैराश्वास्याऽऽल्यैकया ततः ।।
प्रापिताभ्यंतरं देवि सापश्यद्गोपिकेश्वरम् ।। ८०-३० ।।
दूत्यां तस्यां निवृत्तायां समाहूता प्रियेण सा ।।
नारदी प्रणिपत्येशं लज्जानम्रांतिकं ययौ ।। ८०-३१ ।।
रसिकेन समाश्लिष्य रमयित्वा विसर्ज्जिता ।।
क्रमेणैव तु संप्राप्ता सा पुनः कौसुमं सरः ।। ८०-३२ ।।
सा पुनस्तत्र माधव्या मज्जिता तक्षपश्चिमे ।।
पुंभावमभिसंप्राप्तो नारदो विस्मितोऽभवत् ।। ८०-३३ ।।
ततो वृन्दाज्ञया तत्र सरसः पूर्वदक्षिणे ।।
एकांतं तप आस्थाय तस्थौ तत्प्रेक्षणोत्सुकः ।। ८०-३४ ।।
एवं तपस्यतस्तस्य नारदस्य महात्मनः ।।
वृन्दया प्रेषितैर्वृंत्तिं निजां कल्पयतः फलैः ।। ८०-३५ ।।
एकदा नारदस्तत्र विचरन्नाश्रमांतरे ।।
शुश्राव सौभगं शब्दं कयाचित्समुदीरितम् ।। ८०-३६ ।।
तच्छ्रुत्वा कौतुकाविष्टो नारदोऽध्यात्मदर्शनः ।।
विचिन्वन्वनमास्थाय न ददर्श च तत्पदम् ।। ८०-३७ ।।
ततः स विस्मयाविष्टो वृंदां पप्रच्छ सादरम् ।।
सापि तस्मै समाचख्यौ कुब्जावृत्तांतमादितः ।। ८०-३८ ।।
भूम्यंतरगृहस्थाना कुब्जा नारी वरा विभोः ।।
काममेकांतके स्वेशं समुपाचरति स्वयम् ।। ८०-३९ ।।
न तां कोऽपि मुनिश्रेष्ठ विजानाति मया विना ।।
ततः संक्षेपतो वक्ष्ये यां दिदृक्षुस्तपोऽचरः ।। ८०-४० ।।
प्रातः प्रबोधितो मात्रा स्नात्वा भुक्त्वानुगान्वितः ।।
गोचारणाय विपिने वृन्दावन उपाविशत् ।। ८०-४१ ।।
सखिभिर्गोपकैः क्रीडां कुर्वन्संवारयंश्च गाः ।।
द्वित्रैः प्रियसखैरत्र ममाश्रम उपाव्रजत् ।। ८०-४२ ।।
मया प्रकल्पितैर्वत्सभवने सार्वकामिके ।।
फलमूलादिभिर्भक्ष्यैस्तर्पितः प्रिययाऽस्वपगत् ।। ८०-४३ ।।
सुसख्या राधया तत्र सेव्यमानो व्रजप्रियः ।।
सार्द्धयामं विहरति निकुंजेषु पृथक् पृथक् ।। ८०-४४ ।।
राधादिभिस्तत्र सुप्तो वीजितः शयनं गतः ।।
सार्द्धयामे स्वयं बुद्धो निजाः संमान्य ताः प्रियाः ।। ८०-४५ ।।
गोपैर्गोभिर्वृतः सायं व्रजं याति प्रहर्षितः ।।
सख्यः सखिस्थलं प्राप्य प्रियां संचय राधिकाम् ।। ८०-४६ ।।
तया सह विशालाक्ष्यः स्वगेहान्यान्ति चान्वहम् ।।
एवं गतागतं कुर्वल्लीँलां नित्यमुपागतः ।। ८०-४७ ।।
मयैव दृश्यते वत्स नापि ब्रह्मभवादिभिः ।।
मयाप्यलक्षितं वत्स कुब्जासंकेतवैभवम् ।। ८०-४८ ।।
प्रीतप्रियोक्त्या जानामि सुगोप्यं प्रवदामि ते ।।
अंगरागार्पणात्पुण्यात्प्राप्ता संकेतमुत्तमम् ।। ८०-४९ ।।
सदा सा सेवनव्यग्रा सैकैकेनाप्यनेकधा ।।
शतकोटिमितान्येवं मिथुनानि वसंति हि ।। ८०-५० ।।
कुब्जाकृष्णानुरूपाणि नानाक्रीडापराणि च ।।
संभूतान्याद्यमिथुनात्स्थावरं भावयंत्यपि ।। ८०-५१ ।।
गतागतविहीनानि नित्यं नवनवानि च ।।
तदगम्यं तृतीयस्य द्वितीयस्यैकतां गतम् ।। ८०-५२ ।।
रूपं विलक्षणं विप्र सृष्टिस्थितिलयैकलम् ।।
एकैवाहं विजानामि श्रुत्वा त्वमप्यथा ।। ८०-५३ ।।
दग्धः षट्कर्णगो मंत्र इत्युक्तं समुपाचर ।।
श्रुत्वैतद्दुर्लभं सोऽपि वृन्दोक्त्या नारदो मुनिः ।। ८०-५४ ।।
उभयं चिंतयन्प्राप्तो मुनिस्तत्रैव तत्परम् ।।
एतद्रहस्यं विधिजे विषयं गुरुशिष्ययोः ।। ८०-५५ ।।
नैव कोऽप्यपरो वेत्ति धर्मः सैवावयोरपि ।।
एक एव विजानाति वक्तुः श्रोतैकतः शुभे ।। ८०-५६ ।।
तदेकं तत्त्वमेवास्ति नेह नानास्ति किंचन ।।
गदितं ते महाभागे रहस्यं गोपिकेशितुः ।। ८०-५७ ।।
प्रकाशच्चरितं चापि वक्ष्ये सम्यङ्निशामय ।।
यत्र संदर्शितं तत्त्वं त्वत्पित्रे विधिनंदिनि ।। ८०-५८ ।।
तद्ब्रह्मकुंडमेतद्धि पुण्यं वृन्दावने वने ।।
तत्र यः स्नाति मनुजो मूलवेषं विभावयन् ।। ८०-५९ ।।
वैभवं पश्यते किंचिदेवं नित्यविहारिणः ।।
शक्रेण ज्ञाततत्त्वेन गोविन्दो यत्र चिंतितः ।। ८०-६० ।।
गोविंदकुंडं तद्भदे स्नात्वा तत्रापि तल्लभेत् ।।
एकानेकस्वरूपेण यत्र कुंजविहारिणा ।। ८०-६१ ।।
बल्लवीभिः समारब्धो रासस्तदपि तद्विधम् ।।
यत्र नंदादयो गोपा ददृशुर्वैभवं विभोः ।। ८०-६२ ।।
तच्च तत्त्वप्रकाशाख्यं तीर्थँ श्रीयमुनाजले ।।
दर्शितं यत्र गोपानां कालियस्य विमर्दनम् ।। ८०-६३ ।।
तच्च पुण्यं समाख्यातं तीर्थं पापापहं नृणाम् ।।
दावाग्नेर्मोचिता यत्र सस्त्रीबालधनार्भकाः ।। ८०-६४ ।।
गोपाः कृष्णेन तत्पुण्यं तीर्थं स्नानादघापहम् ।।
यत्र केशी हतस्तेन लीलयैव हयाकृतिः ।। ८०-६५ ।।
तत्र स्नातस्तु मनुजो लभते धाम वैष्णवम् ।।
यत्र दुष्टो वृषस्तेन हतस्तत्राभवच्छुचिः ।। ८०-६६ ।।
अरिष्टकुंडं विख्यातं स्नानमात्रेण मुक्तिदम् ।।
धेनुकोऽघो बको वत्सो व्योमो लंबासुरोऽपि च ।। ८०-६७ ।।
हताः कृष्णेन लीलासु तत्र तीर्थानि यान्यपि ।।
तेषु स्नात्वा नरो भक्तः संतर्प्य पितृदेवताः ।। ८०-६८ ।।
लभते वांछितान्कामान् गोपालस्य प्रसादतः ।।
सुप्तं भुक्तं विचरितं श्रुतं दृष्टं विलक्षणम् ।। ८०-६९ ।।
कृतं यत्र च तत्क्षेत्रं स्नानात्स्वर्गगतिप्रदम् ।।
श्रुतः संचिंतितो दृष्टो नतः श्लिष्टः स्तुतोऽर्थितः ।। ८०-७० ।।
यत्र पुण्यनरैर्भद्रे तच्च तीर्थं गतिप्रदम् ।।
यत्र श्रीराधया भद्रे तपस्तप्तं सुदारुणम् ।। ८०-७१ ।।
तच्छ्रीकुंडं महत्पुण्यं स्नाने दाने जपादिके ।।
वत्सतीर्थं चंद्रसरस्तथैवाप्सरसां सरः ।। ८०-७२ ।।
रुद्रकुंडं कामकुंडं परमं मंदिरं हरेः ।।
विशालालकनंदाढ्या नीपखण्डं मनोहरम् ।। ८०-७३ ।।
विमलं धर्मकुंडं च भोजनस्थलमेव च ।।
बलस्थानं बृहत्सानुः संकेतस्थानकं हरेः ।। ८०-७४ ।।
नंदिग्रामः किशोर्याश्च कुंडं कोकिलकाननम् ।।
शेषशायिपयोऽब्धिश्च क्रीडादेशोऽक्षयो वटः ।। ८०-७५ ।।
रामकुंडं चीरचैर्यं भद्रभांडीरबिल्वकम् ।।
मानाह्वं च सरः पुण्यं पुलिनं भक्तभोजनम् ।। ८०-७६ ।।
अक्रूरं तार्क्ष्यगोविंदं बहुलारण्यकं शुभे ।।
एतद्वृन्दावनं नाम समंतात्पंचयोजनम् ।। ८०-७७ ।।
सुपुण्यं पुण्यकृज्जुष्ठं दर्शनादेव मुक्तिदम् ।।
यस्य संदर्शनं देवा वांछंति च सुदुर्लभम् ।। ८०-७८ ।।
लीलामाभ्यंतरीं द्रष्टुं तपसापि न च क्षमाः ।।
सर्वत्र संगमुत्सृज्य यस्तु वृन्दावनं श्रयेत् ।। ८०-७९ ।।
न तस्य दुर्लभं किंचित्त्रिषु भामिनि ।।
वृन्दावनेति नामापि यः समुच्चरति प्रिये ।। ८०-८० ।।
तस्यापि भक्तिर्भवति सततं नंदनंदने ।।
यत्र वृन्दावने पुण्ये नरनारीप्लवंगमाः ।। ८०-८१ ।।
कृमिकीटपतंगाद्याः खगा वृक्षा नगा मृगाः ।।
समुच्चरंति सततं राधाकृष्णेति मोहिनि ।। ८०-८२ ।।
कृष्णमायाभिभूतानां कामकश्मलचेतसाम् ।।
स्वप्नेऽपि दुर्लभं पुंसां मन्ये वृन्दावनेक्षणम् ।। ८०-८३ ।।
वृन्दारण्यं तु यैर्दृष्टं नरैः सुकृतिभिः शुभे ।।
तैः कृतं सफलं जन्म कृपापात्राणि ते हरेः ।। ८०-८४ ।।
किं पुनर्बहुनोक्तेन श्रुतेन विधिनंदिनि ।।
सेव्यं वृन्दावनं पुण्यं भव्यं मुक्तिमभीप्सुभिः ।। ८०-८५ ।।
दृश्यं गम्यं च संसेव्यं ध्येयं वृन्दावनं सदां ।।
नास्ति लोके समं तस्य भुवि कीर्तिविवर्द्धनम् ।। ८०-८६ ।।
यत्र गोवर्द्धनो नाम द्विजः कल्पे पुरातने ।।
विरक्तः सर्वसंसारात्तप्तवान्परमं तपः ।। ८०-८७ ।।
तद्गत्वा देवि देवेशो भगवान्विष्णुरव्ययः ।।
क्रीडास्थानं निजं प्राप्तो वरं दातुं द्विजन्मने ।। ८०-८८ ।।
तं दृष्ट्वा देवदेवेशं शंखचक्रगदाधरम् ।।
विलसत्कौस्तुभोरस्कं मकराकृतिकुंडलम् ।। ८०-८९ ।।
सुकिरीटं सुकटकं कलनूपुरभूषितम् ।।
वनमालानिवीतांगं श्रीवत्सांकितवक्षसम् ।। ८०-९० ।।
पीतकौशेयवसनं नवांबुदसमप्रभम् ।।
सुनाभिं सुंदरग्रीवं सुकपोलं सुनासिकम् ।। ८०-९१ ।।
सुद्विजं सुस्मितं सुष्ठुजानूरुभुजमध्यकम् ।।
कृपार्णवं प्रमुदितं सुप्रसन्नमुखांबुजम् ।। ८०-९२ ।।
दृष्ट्वा स सहसोत्थाय ननाम भुवि दंडवत् ।।
वरं ब्रूहिति निर्द्दिष्टो प्राह गोवर्द्धनो हरिम् ।। ८०-९३ ।।
पद्भ्यामाक्रम्य मत्पृष्ठे तिष्ठ चैष वरो मम ।।
तच्छ्रुत्वा भक्तवश्यो वै विचिंत्य च पुनः पुनः ।। ८०-९४ ।।
तस्थौ तत्पृष्ठमाक्रम्य तदा भूयो द्विजोऽब्रवीत् ।।
नाहं त्वामुत्सहे देव निजपृष्ठे जगत्पते ।। ८०-९५ ।।
अवतारयितुं तस्मादेवमेव स्थिरो भव ।।
ततः प्रभृति विश्वात्मा त्यक्त्वा गोवर्द्धनं द्विजम् ।। ८०-९६ ।।
गिरिरूपधरं याति नित्यं योगिवनं क्वचित् ।।
कृष्णावतारे भगवान् ज्ञात्वा गोवर्द्धनं द्विजम् ।। ८०-९७ ।।
संप्राप्तं निजसारूप्यं नंदाद्यैः समभोजयत् ।।
अन्नकूटेन दोहेन तर्पयित्वाचलं द्विजम् ।। ८०-९८ ।।
तृट्परीतं समाज्ञाय नवमेघानपाययत् ।।
मित्रं स वासुदेवस्य संजातं तेन कर्मणा ।। ८०-९९ ।।
तं यो भक्त्या नरो देवि पूजयेदुपचारकैः ।।
प्रदक्षिणं परिक्रामेन्न तस्य पुनरुद्भवः ।। ८०-१०० ।।
गोवर्द्धनो गिरिः पुण्यो जातो हरिनिवासतः ।।
तं दृष्ट्वा दर्शनेनालमन्यपुण्याचलस्य च ।। ८०-१०१ ।।
यामुनं पुलिनं रम्यं कृष्णविक्रीडनांचितम् ।।
त्वमेव ब्रूहि सुभगे क्वान्यत्र जगतीतले ।। ८०-१०२ ।।
तस्मात्सर्वप्रयत्नेन त्यक्त्वा वननदीगिरीन् ।।
सु पुण्यान्पुण्यदान्नॄणां सेव्यं वृन्दावनं सदा ।। ८०-१०३ ।।
यमी पुण्या नदी यत्र पुण्यो गोवर्द्धनो गिरिः ।।
तत्किं वृन्दावनात्पुण्यमरण्यं भुवि विद्यते ।। ८०-१०४ ।।
कलिकल्मषभीतानां विषयासक्तचेतसाम् ।।
नान्यं वृन्दावनात्सेव्यमस्ति लोकेष्वपि त्रिषु ।। ८०-१०५ ।।
यस्मिन्नित्यं विचरंति हरिर्गोपगोगोपिकाभिर्बर्हापीडी नटवरवपुः कर्णिकारावतंसी ।।
वंशीहंसीस्वनजितरवो वैजयंतीवृतांगो नंदस्यांगाद्धृतमणिगणीयश्च हंसोऽहमाख्यः ।। ८०-१०६ ।।
यस्य ध्यानं नगजनियुतोऽहर्निशं वै गिरीशो भक्तिक्लिन्नो रहसि कुरुते ह्यर्द्धनारीश्वराख्यः ।।
गायत्रीं स्त्रीं हृदयकुडरे पद्मयोनिर्विधत्ते नेत्रैरिन्द्रो दशशतमितैर्वीक्षते वै शचीं ताम् ।। ८०-१०७ ।।
अश्रोत्रेशो रहसि वनितां रक्षति स्वां रसज्ञो वंशीनादश्रवणजभिया कान्यवार्ता जनानाम् ।।
छेदं शोषं तदनु दहनं भेदनं प्राप्य यासीच्छ्रीगोपीशाधरजनिसुधां सादरं शीलयंती ।। ८०-१०८ ।।
याभिर्वृंदावनमनुगतो नंदसूनुः क्षपासु रेमे चंद्रांशुकलितसमुद्योतभद्रे निकुञ्जे ।।
तासां दिष्टं किमहमधुना वर्णये बल्लवीनां यासां साक्षाच्चरणजरजः श्रीशविध्याद्यलभ्यम् ।। ८०-१०९ ।।
यत्र प्राप्तास्तृणमृगखगा ये कृमिप्राणि वृन्दा वृन्दारण्ये विधिहररमाभ्यर्हणीया भवंति ।।
तत्संप्राप्याद्वयपदरतो ब्रह्मभूयं गतः कौ प्रेमस्निग्धो विहरति सुखांभोधिकल्लोलमग्नः ।। ८०-११० ।।
यत्र क्रूराः सहजमसुभृद्रातजाता विसृज्य वैरं स्वैरं सुहृद् इव तत्सौख्यमेवाश्रयंते ।।
तत्किं प्राप्य प्रभुमिव जनः संपरित्यज्य गच्छन्क्वाप्यन्यत्र प्रभवति सुखी कृष्णमायाकरंडे ।। ८-१११ ।।
वृन्दारण्यं तदखिलधरापुण्यरूपं श्रयन्मे स्वांतं ध्वांतं जगदिदमधः कृत्य वर्वर्ति शश्वत् ।।
गोपीनाथः प्रतिपदमपि प्रेमसंक्लिन्नचेता नीचं वोच्चं न च गणयति प्रोद्धरत्येव भक्तान् ।। ८०-११२ ।।
गोपान् गोपीः खगमृगागोपगोभूरजांसि स्मृत्वा प्रणमति जने प्रेमरज्ज्वा निबद्धः ।।
दास्यं भक्ते कलयतितरां तत्किमन्यं व्रजेशात्सेव्यं देवं गणय विधिजेऽहं तु जानामि नैव ।। ८०-११३ ।।
एतत्संक्षेपतः प्रोक्तं वृन्दारण्यसमुद्भवम् ।।
माहात्म्यं विधिजे तुभ्यं वक्तव्यं नावशेषितम् ।। ८०-११४ ।।
संसारभीतैर्मनुजैरेतदेव सदानद्यैः ।।
श्रोतव्यं कीर्तनीयं च स्मर्तव्यं ध्येयमेव च ।। ८०-११५ ।।
वृन्दा रण्यस्य माहात्म्यं यः श्रृणोति नरः शुचिः ।।
कीर्तयेद्वापि विधिजे सोऽपि विष्णुर्न संशयः ।। ८०-११६ ।।
इति श्रीबृन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे श्रीवृन्दावनमाहात्म्यं नामाशीतितमोऽध्यायः ।। ८० ।।