नारदपुराणम्- उत्तरार्धः/अध्यायः ६७
अथ बदरीमाहात्म्यं प्रारभ्यते ।।
मोहिन्युवाच ।।
अहो द्विजवराख्यातं गंगाद्वारसमुद्भवम् ।।
माहात्म्यमधुना ब्रूहि बदर्याः पापनाशनम् ।। ६७-१ ।।
वसुरुवाच ।।
श्रृणु भद्रे प्रवक्ष्यामि माहात्म्यं बदरीभवम् ।।
यच्छ्रुत्वा मुच्यते जंतुर्जन्मसंसारबंधनात् ।। ६७-२ ।।
बदर्याख्यं हरेः क्षेत्रं सर्वपातकनाशनम् ।।
मुक्तिदं भवभीतानां कलिदोषहरं नृणाम् ।। ६७-३ ।।
यत्र नारयणो देवो नरश्च भगवानृषिः ।।
धर्मान्मूर्त्यां लब्धजनी ययतुर्गंधमादनम् ।। ६७-४ ।।
यत्रास्ति बदरीवृक्षो बहुगंधफलान्वितः ।।
तस्मिन्स्थाने महाभाग आकल्पादास्थितौ तपः ।। ६७-५ ।।
नारदाद्यैर्मुनिवरैः कलापग्रामवासिभिः ।।
सिद्धसंघैः परिवृतौ लोकानां स्थितये स्थितौ ।। ६७-६ ।।
यत्राग्नितीर्थं विख्यातं वर्तते सर्वसिद्धिदम् ।।
महापातकिनस्तत्र स्नात्वा शुध्यंति पातकात् ।। ६७-७ ।।
दुर्वर्णं हाटकं यद्वदग्नौ ध्मातं विशुध्यति ।।
तथाग्नितीर्थ आप्लुत्य देही पापौर्विमुच्यते ।। ६७-८ ।।
चांद्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च ।।
यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः ।। ६७-९ ।।
शिलाः पंचापि तत्तीर्थे संतियन्मध्यतः स्थितम् ।।
अग्नितीर्थं विधिसुते दर्शनात्तदघापहम् ।। ६७-१० ।।
नारदो यत्र भगवांस्तपस्तेपे सुदारुणम् ।।
सा शिला नारदी नाम दर्शनादेव मुक्तिदा ।। ६७-११ ।।
नित्यदा यत्र सान्निध्यं हरेरस्ति सुलोचने ।।
तत्र नारदकुंडं च यत्र स्नातो नरः शुचिः ।। ६७-१२ ।।
भुक्तिं मुक्तिं हरेर्भक्तिं यद्यद्वांछेत्तु तल्लभेत् ।।
एतस्यां यो नरो भक्त्या स्नानं दानं सुरार्चनम् ।। ६७-१३ ।।
होमं जपं तथान्यद्वा यत्करोति तदक्षयम् ।।
वैनतेय शिला चान्या तस्मिन् क्षेत्रे शुभावहा ।। ६७-१४ ।।
यत्र तप्तं तपस्तीव्रं गरुडेन महात्मना ।।
त्रिंशद्वर्षसहस्राणि हरिदर्शनकाम्यया ।। ६७-१५ ।।
ततः प्रसन्नो भगवान्ददौ तस्मै वरं शुभे ।।
अजेयो दैत्यसंघानां नागानां च विभीषणः ।। ६७-१६ ।।
वाहनं भव मे वत्स प्रसन्नोऽहं तवोपरि ।।
त्वन्नाम्नेयं शिलाख्यातिं गमिष्यति महीतले ।। ६७-१७ ।।
दर्शनाप्तुण्यदा नृणां यत्र तप्तं त्वया तपः ।।
अत्र मुख्यतमे गंगा तीर्थे मत्प्रीतिकाम्यया ।। ६७-१८ ।।
आविरस्तु महाभाग पुण्यदा स्नानकारिणाम् ।।
पंचगंगे तु यः स्नात्वा देवादींत्तर्पयिष्यति ।। ६७-१९ ।।
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्सनातनात् ।।
एवं दत्वा वरं विष्णुर्बभूवांतर्हितस्तदा ।। ६७-२० ।।
गरुडोऽप्यज्ञया विष्णोर्वाहनत्वमुपागतः ।।
ततः प्रभृति तत्तीर्थं जातं पापविनाशनम् ।। ६७-२१ ।।
पुण्यदं वै स्मरेच्चापि वैनतेयगतिप्रदम् ।।
अथान्या तु शिला तत्र वाराहीति शुभावहा ।। ६७-२२ ।।
यत्रोद्धृत्य महीं देवो हिरण्याक्षं निपात्य च ।।
शिलारूपेण चाक्रम्य स्थितः पापविनाशनः ।। ६७-२३ ।।
तत्र यो मनुजो गत्वा गंगांभस्यमले प्लुतः ।।
पूजयेत्तां शिलां भक्तक्या स न दुर्गतिमाप्नुयात् ।। ६७-२४ ।।
अथान्या नारसिंहाख्या शिला तत्र सुरेश्वरी ।।
हिरण्यकशिपुं हत्वा स्थितो यत्र बभूव ह ।। ६७-२५ ।।
ततः सुरर्षिभिः सर्वैः क्रोधस्तस्य निवारितः ।।
प्रार्थितश्च विशालायां स्थातुं तत्र सदैव हि ।। ६७-२६ ।।
चतुर्भुजस्तथा तत्र शिलारूपमुपागतः ।।
जलक्रीडापरो नित्यं वर्तते तोयमध्यगः ।। ६७-२७ ।।
तत्र यः स्नाति मनुजो नृहरेः पूजयेच्छिलाम् ।।
स लभेद्वैष्णवं धाम पुनरावृत्तिदुर्लभम् ।। ६७-२८ ।।
पंचमीं तु शिलां देवि वह्निकुंडतटस्थिताम् ।।
नरनारायणाख्यां च वक्ष्यामि श्रृणु सांप्रतम् ।। ६७-२९ ।।
कृते युगे तु सर्वेषां नरनारायणो हरिः ।।
प्रत्यक्षं वसते तत्र भुक्तिमुक्तिप्रदायकः ।। ६७-३० ।।
त्रेतायां मुनिभिर्देवैर्योगिभिर्दृश्यते शुभे ।।
नान्यैः समास्थितो योगं लोकस्थितिविधायकः ।। ६७-३१ ।।
द्वापरे समनुप्राप्ते ज्ञानयोगेन दृश्यते ।।
नान्योपायेन केनापि तिष्ये दर्शनतां गतः ।। ६७-३२ ।।
ततो ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।।
स्तुत्वा वाग्भिर्विचित्राभिर्देवं प्रासादयन्हरिम् ।। ६७-३३ ।।
ततोऽशरीरिणी वाणी प्राहतान्विधिपूर्वकान् ।।
कलौ न दर्शनं यामि सर्वधर्मविवर्जिते ।। ६७-३४ ।।
यदि वो दर्शने श्रद्धा मंडपस्य सुरेश्वराः ।।
गृहीध्वं मामकीं मूर्तिं शैलीं नारदकुंडगाम् ।। ६७-३५ ।।
ततस्तां गिरमाकर्ण्य ब्रह्माद्या हृष्टमानसाः ।।
निष्कास्य शैलीं तां दिव्यां मूर्तिं नारदकुंडगाम् ।। ६७-३६ ।।
स्थापयामासुरभ्यर्च्य स्वं स्वं धाम ययुस्ततः ।।
वैशाखे मासि ते देवा गच्छंति निजमंदिरम् ।। ६७-३७ ।।
कार्तिके तु समागत्य पुनरर्चां चरंति च ।।
ततो वैशाखमारभ्य मानवा हिमसंक्षयात् ।। ६७-३८ ।।
लभंते दर्शनं पुण्याः पापकर्मविवर्जिताः ।।
षण्मासं दैवदैः पूज्या षण्मासं मानवैस्तथा ।। ६७-३९ ।।
एवं व्यवस्थया मूर्तिस्तत्प्रभृत्याविरास सा ।।
यः शैलीं प्रतिमां विष्णोः पूजयेद्भक्तिभावतः ।। ६७-४० ।।
नैवेद्यं भक्षयेच्चापि स मुक्तिं लभते ध्रुवम् ।।
एताः पंच शिलाः पुण्या विशालायां व्यवस्थिताः ।। ६७-४१ ।।
आसां मध्ये तु नैवेद्यं देवानां दुर्लभं हरेः ।।
किं पुनर्मांनुषादीनां भक्षितं मोक्षसाधनम् ।। ६७-४२ ।।
बदर्यां विष्णुनैवेद्यं सिक्थमात्रं च भक्षितम् ।।
शोधयेद्देहगं पापं दीप्ताग्निरिव कांचनम् ।। ६७-४३ ।।
कपालमोचनं ह्येतत्तीर्थँ पापविशोधनम् ।।
यन्मध्ये तु शिलाः पञ्च संति पापविमोचिकाः ।। ६७-४४ ।।
अथापरं महत्तीर्थमत्रैव श्रृणु मोहिनि ।।
यत्र स्नातो नरो भक्त्या वेदानां पारगो भवेत् ।। ६७-४५ ।।
सुप्तस्य ब्रह्मणो वक्त्रान्निर्गतानसुरोऽहरत् ।।
वेदान्हयशिरा नाम देवादीनां भयावहः ।। ६७-४६ ।।
ततस्तु ब्रह्मणा विष्णुः प्रार्थितः प्रकटोऽभवेत् ।।
मत्स्यरूपेण तं हत्वा वेदान्प्रत्यर्पयद्विधेः ।। ६७-४७ ।।
तच्च तीर्थं महत्पुण्यं सर्वविद्याप्रकाशकम् ।।
तैमिंगिलं महाभागे दर्शनात्पापनाशनम् ।। ६७-४८ ।।
हयग्रीव स्वरूपेण भगवान्विष्णुरव्ययः ।।
पुनश्च हत्वा मत्तौ द्वावसुरौ मधुकैटभौ ।। ६७-४९ ।।
वेदापहारिणौ भूयो वेदान्वै ब्रह्मणे ह्यदात् ।।
तत्तीर्थं सर्वपापघ्नं स्नानमात्रेण वैधसि ।। ६७-५० ।।
मात्स्ये चापि हयग्रीवे वेदास्ते द्रवरूपिणः ।।
वर्तंते सर्वदा भद्रे तज्जलं पापनाशनम् ।। ६७-५१ ।।
तीर्थमिंद्रपदं तत्र विख्यातं वह्निकोणगम् ।।
तत्र स्नात्वा नरो देवि पदमैंद्रमवाप्नुयात् ।। ६७-५२ ।।
मानसोद्भदकं चान्यत्तत्र तीर्थं मनोरमम् ।।
भिनत्ति हदयग्रंथिं छिनत्त्यखिलसंशयम् ।। ६७-५३ ।।
हरत्यंहश्च सकलं मानसोद्भेदकं ततः ।।
कामाकामाभिधं चान्यत्तीर्थं तत्र वरानने ।। ६७-५४ ।।
कामप्रदं कामवतामकामानां तु मोक्षदम् ।।
ततः पश्चिमतो भद्रे वसुधारेति तीर्थकम् ।। ६७-५५ ।।
तत्र स्नात्वा नरो भक्त्या लभते वांछितं फलम् ।।
अत्र पुण्यवतो यांति दृश्यते जलमध्यगम् ।। ६७-५६ ।।
यदृष्ट्वा न पुनर्जंतुर्गर्भवासं प्रपद्यते ।।
ततो नैर्ऋतिदिग्भागे पंच धाराः पतंत्यधः ।। ६७-५७ ।।
प्रभासपुष्करगयानैमिषारण्यसंज्ञकाः ।।
तासु स्नात्वा पृथङ्मर्त्यस्तत्तीत्तीर्थफलं लभेत् ।। ६७-५८ ।।
ततोऽन्यद्विमलं तीर्थँ सोमकुंडापराह्वयम् ।।
यत्र तप्त्वा तपस्तीव्रं सोमः खोटाद्यधीश्वरः ।। ६७-५९ ।।
तत्र स्नात्वा नरो भद्रे गतदोषः प्रजायते ।।
तत्रान्यद्द्वादशादित्यं तीर्थँ पापहरं परम् ।। ६७-६० ।।
स्नात्वा यत्र नरो भूत्वा तेजसा भास्करोपमः ।।
चतुःस्रोतोऽपरं तत्र तीर्थं तत्राप्लुतो नरः ।। ६७-६१ ।।
धर्मार्थकाममोक्षांश्च लभते यं यमिच्छति ।।
अथ सप्तपदं नाम तीर्थँ तत्र मनोहरम् ।। ६७-६२ ।।
दर्शनाद्यस्य तीर्थस्य पातकानि महांत्यपि ।।
नश्यंति नियतं तस्य किं पुनः स्नानतः सति ।। ६७-६३ ।।
त्रिषु लोकेषु कुंडस्य ब्रह्मविष्णुमहेश्वराः ।।
आस्थितास्तत्र मरणान्नरः सत्यपदं लभेत् ।। ६७-६४ ।।
नरनारायणावासे तीर्थमस्त्यपरं शुभे ।।
उर्वशीकुंड नामात्र स्नातो रूपमनोहरः ।। ६७-६५ ।।
नारायणप्रियोऽत्यर्थं भवेद्विश्ववंशकरः ।।
ततो दक्षिणदिग्भागे तीर्थमस्त्राभिधं परम् ।। ६७-६६ ।।
नरनारायणौ यत्र शस्त्रं न्यस्य तपः स्थितौ ।।
आयुधानि तु दिव्यानि शंखचक्रादिकानि च ।। ६७-६७ ।।
मूर्तिमंति महाभागे दृश्यंते कृतिभिर्यतः ।।
तत्र स्नात्वा नरो भक्त्या न शत्रोर्भयमाप्नुयात् ।। ६७-६८ ।।
मेरुतीर्थँ च तत्रास्ति यत्र दृष्ट्वा धनुर्द्धरम् ।।
स्नात्वा च लभते सोऽपि शुभे सर्वान्मनोरथान् ।। ६७-६९ ।।
लोकपालाह्वयं नाम तत्रान्यत्तीर्थमुत्तमम् ।।
लोकपालैस्तपस्तप्तं यत्र तत्राप्लुतो नरः ।। ६७-७० ।।
सर्वतीर्थाप्लुतिफलं लभते देवि मानवः ।।
दंडेनाहत्य हरिणा यतस्तीर्थं विनिर्मितम् ।। ६७-७१ ।।
दंडेपुष्करिणीत्येतत्ततो लोकपसौख्यदम् ।।
भागीरथी यत्र योगं प्राप्ता ह्यलकनंदया ।। ६७-७२ ।।
तत्तीर्थं सर्वत श्रेष्ठः पुण्ये बदरिकाश्रमे ।।
तत्र स्नात्वा पितॄन्देवान्संतर्प्याभ्यर्च्य भक्तितः ।। ६७-७३ ।।
लभते वैष्णवं धाम सर्वदेवनमस्कृतः ।।
संगमाद्दक्षिणे भागे धर्मक्षेत्रं शुभानने ।। ६७-७४ ।।
तत्क्षेत्रं पावनं मन्ये सर्वतीर्थोत्तमोत्तमम् ।।
तत्र स्नात्वा नरो भद्रे साध्यसन्निधिभाग्भवेत् ।। ६७-७५ ।।
उर्वशीसंगमं तीर्थं सर्वपापहरं नृणाम् ।।
कर्मोद्धराह्वय चान्यद्धरि भक्त्येकसाधनम् ।। ६७-७६ ।।
ब्रह्मावर्ताह्वयं तीर्थं ब्रह्मलोकैककारणम् ।।
गंगाश्रितानि चैतानि तीर्थानि कथितानि ते ।। ६७-७७ ।।
ब्रह्मापि कात्स्नर्यतो वक्तुं तत्रस्थानि न वै प्रभुः ।।
य इदं श्रृणुयान्नित्यं श्रावयेद्वा समाहितः ।। ६७-७८ ।।
सर्वपापविनिमुक्तः सोऽपि विष्णुपदं लभेत् ।।
मासमात्रं नरो भक्त्या योऽत्र तिष्ठेद्धृतव्रतः ।। ६७-७९ ।।
स साक्षादेव पश्येत्तु नरनारायणं हरिम् ।।
यत्रैतल्लिखितं देवि माहात्म्यं बदरीभवम् ।। ६७-८० ।।
नाल्पमृत्युर्भवेत्तत्र ह्याधिव्याध्य हिभीस्तथा ।।
कल्याणानि सदा तत्र प्रसादात्संति वै हरेः ।। ६७-८१ ।।
वर्द्धन्ते सम्पदस्सर्वास्तथा विष्णुप्रसादतः ।। ६७-८२ ।।
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे बदरिकाश्रममाहात्म्यं नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।
इति बदरिकाश्रममाहात्म्यम् ।।