नारदपुराणम्- उत्तरार्धः/अध्यायः ५४
वसुरुवाच ।।
इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः ।।
ददौ तस्मै तु सुभगे सकलं मनसेप्सितम् ।। ५४-१ ।।
यः संपूज्य जगन्नाथं प्रत्यहं स्तौति मानवः ।।
स्तोत्रेणानेन मतिमान्समोक्षं लभते ध्रुवम् ।। ५४-२ ।।
त्रिसंध्यं यो जपेद्विद्वानिमं स्तोत्रवरं शुचिः ।।
धर्मं चार्थं च कामं च मोक्षं च लभते नरः ।। ५४-३ ।।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ।।
स लोकं शाश्वतं विष्णोर्याति निर्द्ध्रूतकल्मषः ।। ५४-४ ।।
धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् ।।
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्य चित् ।। ५४-५ ।।
न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने ।।
न दुष्टमतये दद्यान्नाभक्ताय कदाचन ।। ५४-६ ।।
दातव्यं भक्तियुक्ताय गुणशीलान्विताय च ।।
विष्णुभक्ताय शांताय श्रद्धानुष्ठानशीलिने ।। ५४-७ ।।
इदं समस्ताघविनाशहेतु कारुण्यसंज्ञं सुखमोक्षदं च ।।
अशेषवांछाफलदं वरिष्ठ स्तोत्रं मयोक्तं पुरुषोत्तमस्य ।। ५४-८ ।।
ये तं सुसूक्ष्मं विमलांम्बराभं ध्यायंति नित्यं पुरुषं पुराणम् ।।
ते मुक्तिभाजः प्रविशंति विष्णुं मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ।। ५४-९ ।।
एकः स देवो भवदुःखहंता परः परेषां न ततोऽस्ति चान्यः ।।
स्रष्टा स पाता सकलांतकर्ता विष्णुः समश्चाखिलसारभूतः ।। ५४-१० ।।
किं विद्यया किं सुगुणैश्च तेषां यज्ञैश्च दानैश्च तपोभिरुग्रैः ।।
येषां न भक्तिर्भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च ।। ५४-११ ।।
लोके स धन्यः स शुचिः स विद्वान्स एव वक्ता स च धर्मशीलः ।।
ज्ञाता स दाता स च सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ।। ५४-१२ ।।
स्तुत्वैवं ब्रह्मतनयः प्रणम्य च सनातनम् ।।
वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ।। ५४-१३ ।।
चिंताविष्टो महीपालः कुशानास्तीर्य भूतले ।।
वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ।। ५४-१४ ।।
कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः ।।
मम चिंताहरो देवः कदासाविति चिंतयन् ।। ५४-१५ ।।
सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः ।।
आत्मानं दर्शयामास स्वप्ने तस्मै च चक्रधृक् ।। ५४-१६ ।।
स ददर्श च तं स्वप्नेदेवदेवं जगत्पतिम् ।।
शंखचक्रधरं शांतं गदापद्माग्रपाणिनम् ।। ५४-१७ ।।
शार्ङ्गवाणासियुक्तं च ज्वलत्तेजोग्रमंडलम् ।।
युगांतादित्यवर्णाभं नीलवैडूर्यसन्निभम् ।। ५४-१८ ।।
सुपर्णपृष्ठमासीनं षोडशार्द्धभुजं विभुम् ।।
स चासौ प्राब्रवीद्वीक्ष्य साधु राजन्महामते ।। ५४-१९ ।।
क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया ।।
तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ।। ५४-२० ।।
यदत्र प्रतिमा राजन्राजपूज्या सनातनी ।।
यथा तां प्राप्नुया भूप तदुपायं ब्रवीमि ते ।। ५४-२१ ।।
गतायामद्य शर्वर्यां निर्मले भास्करोदये ।।
सागरस्य जलस्यांते नानाद्रुमविभूषिते ।। ५४-२२ ।।
जलं तथैव वेलायां दृश्यते यत्र वै महत् ।।
लव?णस्योदधे राजंस्तरंगैः समभिप्लुतम् ।। ५४-२३ ।।
कूलालंबी महावृक्षः स्थितः स्थलजलेषु च ।।
वेलाभिर्हन्यमानश्च न चासौ कंपते ध्रुवः ।। ५४-२४ ।।
हस्तेन पुर्शुमादाय ऊर्मेरंतस्ततो व्रज ।।
एकाकी विहरन्राजन्यं त्वं पश्यसि पादपम् ।। ५४-२५ ।।
इदं चिह्नं समालोक्य च्छेदयत्वमशंकितः ।।
शात्यमानं तु तं वृक्षं प्रांशुमद्भुतदर्शनम् ।। ५४-२६ ।।
दृष्ट्वा तेनैव संचिंत्य तदा भूपाल दर्शनम् ।।
कुरु तत्प्रतिमां दिव्यां जहिचिंतां विमोहिनीम् ।। ५४-२७ ।।
एवमुक्त्वा महाभागो जगामादर्शनं हरिः ।।
स चापि स्वप्नमालक्ष्य परं विस्मयमागतः ।। ५४-२८ ।।
तां निशां समुदीक्षन्स ततस्तद्गतमानसः ।।
व्याहरन्वैष्णवान्मन्त्रान्सूक्तं चैव तदात्मकम् ।। ५४-२९ ।।
प्रभातायां रजन्यां तु तद्गतोऽनन्यमानसः ।।
स स्नात्वा सागरे सम्यग्यथावद्विधिना ततः ।। ५४-३० ।।
दत्वा दानं तु विप्रेभ्यो ग्रामांश्च नगराणि च ।।
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ।। ५४-३१ ।।
न रथो न पदातिश्च न गजो न च सारथिः ।।
एकाकी स महावेलां प्रविवेश महीपतिः ।। ५४-३२ ।।
तं ददर्श महावृक्षं तेजस्वंतं महाद्रुमम् ।।
महांतकं महारोहं पुण्यं विफलमेव च ।। ५४-३३ ।।
महोत्सवं महाकायं प्रसुप्तं च जलांतिके ।।
सांद्रमांजिष्ठवर्णाभं नाम जातिविवर्जितम् ।। ५४-३४ ।।
नरनाथस्तथा विष्णोर्द्रुमं दृष्ट्वा मुदान्वितः ।।
पर्शुना शातयामास शितेन च दृढेन च ।। ५४-३५ ।।
द्वैधीभूता मतिस्तत्र बभूवेंद्रसखस्य च ।।
निरीक्षमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ।। ५४-३६ ।।
विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ ।।
आजग्मतुर्महात्मानौ तथा तुल्याग्रजन्मनौ ।। ५४-३७ ।।
ज्वलमानौ सुतेजोभिर्दिव्यस्रग्गंधलेपनौ ।।
अथ तौ तं समासाद्य नृपमिंद्रिसखं तदा ।। ५४-३८ ।।
तावब्रूतां महाराज त्वं किमत्र करिष्यसि ।।
किमयं ते महाबाहो शातितश्च वनस्पतिः ।। ५४-३९ ।।
असहायो महादुर्गे निर्जने गहने वने ।।
महासिंधुतटे चैव शातितो वै महाद्रुमः ।। ५४-४० ।।
तयोः श्रुत्वा वचः सुभ्रु स तु राजा मुदान्वितः ।।
बभाषे वचनान्याभ्यां मृदूनि मधुराणि च ।। ५४-४१ ।।
दृष्ट्वा तौ ब्राह्मणौ तत्र चंद्रसूर्याविवागतौ ।।
नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ।। ५४-४२ ।।
देव देवमनाद्यंतममेयं जगतः पतिम् ।।
आराधितुं वै प्रतिमां करोमीति मतिर्मम ।। ५४-४३ ।।
अहं स देवदेवेन परमेण महात्मना ।।
स्वप्नाते च समुद्दिष्टो भवद्भ्यां श्रावितो मया ।। ५४-४४ ।।
यज्ञस्तद्वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च ।।
प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ।। ५४-४५ ।।
साधु साधु महीपाल यदेतन्मन उत्तमम् ।।
संसारसागरे घोरे कंदलीदलसन्निभे ।। ५४-४६ ।।
निःसारे दुःखबहुले कामक्रोधसमाकुले ।।
इंद्रियावर्तकलिले दुस्तरे लोमहर्षणे ।। ५४-४७ ।।
नानाव्याधिशतावर्ते चलबुद्बुदसन्निभे ।।
यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ।। ५४-४८ ।।
धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलंकृतः ।।
सप्रजा धरणी धन्या सशैलवनपत्तना ।। ५४-४९ ।।
सपुरग्रामनगरा चतुर्वणैरलंकृता ।।
यत्र त्वं नृपशार्दूल प्रजापालयिता प्रभुः ।। ५४-५० ।।
एह्येहि त्वं महाभाग द्रुमेऽस्मिन्सुखशीतले ।।
आवाभ्यां सह तिष्ठ त्वं कथाभिर्द्धर्मसंश्रितः ।। ५४-५१ ।।
अयं तव सहायार्थमागतः शिल्पिनां वरः ।।
विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु ।। ५४-५२ ।।
मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ।
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः ।। ५४-५३ ।।
सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ।।
तस्थौ स नृपतिश्रेष्ठो वृक्षच्छायां सुशीतलाम् ।। ५४-५४ ।।
ततस्तस्मै स विश्वात्मा तदाकारां तदाकृतिम् ।।
शिल्पिमुख्याय विधिजे कुरुष्वेत्यभ्यभाषत ।। ५४-५५ ।।
कृष्णरूपं परं शांतं पद्मपत्रायतेक्षणम् ।।
श्रीवत्सकौस्तुभधरं शंखचक्रगदाधरम् ।। ५४-५६ ।।
गौरं गोक्षीरवर्णाभे द्वितीयं स्वस्तिकांकितम् ।।
लांगलास्त्रधरं देवमनंताख्यं महाबलम् ।। ५४-५७ ।।
देवदानवगंधर्वयक्षविद्याधरोरगैः ।।
न विज्ञातो हि तस्यांतस्तेनानंत इति स्मृतः ।। ५४-५८ ।।
भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ।।
तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ।। ५४-५९ ।।
श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत् ।।
तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः ।। ५४-६० ।।
कुण्डलाभ्यां विचित्राभ्यां कर्णाभ्यां सुविराजिताः ।।
चक्रलांगलविन्यासहताभ्यां भानुसंमताः ।। ५४-६१ ।।
प्रथमं शुक्लवर्णानां शारदेंदुसमप्रभम् ।।
सुरक्ताक्षं महाकायं फटाविकटमस्तकम् ।। ५४-६२ ।।
नीलांबरधरं चोग्रं बलमद्भुतकुंडलम् ।।
महाहलधरं दिव्यं महामुसलधारिणम् ।। ५४-६३ ।।
द्वितीयं पुंडरीकाक्षं नीलजीमृतसन्निभम् ।।
अतसीपुष्पसंकाशं पद्मपत्रायतेक्षणम् ।। ५४-६४ ।।
श्रीवत्सवक्षसं भ्राजत्पीतवाससमच्युतम् ।।
चक्रकम्बुकरं दिव्यं सर्वपापहरं हरिम् ।। ५४-६५ ।।
तृतीयां स्वर्णवर्णाभां पद्मपत्रायतेक्षणाम् ।।
विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम् ।। ५४-६६ ।।
विचित्राभरणोपेतां रत्नमालावलंबिताम् ।।
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ।। ५४-६७ ।।
स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः ।।
दिव्यवस्त्रयुगाच्छन्ना नानारत्नैरलंकृताः ।। ५४-६८ ।।
सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः ।।
विस्मयं परमं गत्वा इदं वचनमब्रवीत् ।। ५४-६९ ।।
किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ ।।
द्वावप्यद्भुतकर्माणौ देववृत्तौ त्वमानुषौ ।। ५४-७० ।।
देवौ वा मानुषौ वापि यक्षविद्याधरौ वरौ ।।
किंवा ब्रह्महृषीकेशौ वसुरुद्रावुताश्विनौ ।। ५४-७१ ।।
न वेद्मि सत्यवद्भावौ मायरूपेण संस्थितौ ।।
युवां गतोऽस्मि शरणमात्मानं वदतं मम ।। ५४-७२ ।।
द्विज उवाच ।।
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ।।
न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ।। ५४-७३ ।।
आर्तिघ्नं सर्वलोकानामनंतबलपौरुषम् ।।
अर्चनीयो हि भूतानामंतो यस्य न विद्यते ।। ५४-७४ ।।
पठ्यते सर्वशास्त्रेषु वेदांतेषु निगद्यते ।।
यदुक्त ध्यानगम्यं च वासुदेवेति योगिभिः ।। ५४-७५ ।।
अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवो ह्यहम् ।।
इद्रोऽहं देवराजश्च जगत्संयमनो यमः ।। ५४-७६ ।।
पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुग्यथा ।।
वरुणोऽपांपतिश्चाह धरित्री च महीधराः ।। ५४-७७ ।।
यत्किंचिद्वाङ्मयं लोके जगत्स्थावरजंगमम् ।।
विश्वरूपं च मां विद्धि मत्तोऽन्यन्नास्ति किचन ।। ५४-७८ ।।
प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत ।।
यदिष्टं तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम् ।। ५४-७९ ।।
मद्दर्शनमपुण्यानां स्वप्नांतेऽपि न जायते ।।
त्वं पुनर्द्दढभक्तित्वात्प्रत्यक्षं दृष्टवानसि ।। ५४-८० ।।
श्रुत्वैवं वासुदेवस्य वचनं तस्य मोहिनि ।।
रोमांचिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ।। ५४-८१ ।।
राजोवाच ।।
श्रियःकांत नमस्तेऽस्तु श्रीपते पीतवाससे ।।
श्रीदश्रीश श्रीनिवास नमस्ते श्रीनिकेतन ।। ५४-८२ ।।
आद्यं पुरुषमीशानं सर्वेशं सर्वशं सर्वतोमुखम् ।।
निष्कलं परमं देवं प्रणतोऽस्मि सनादनम् ।। ५४-८३ ।।
शब्दातीतं गुणातीतं भावाभावविवर्जितम् ।।
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ।। ५४-८४ ।।
शंशचक्रधरं देवं गदामुसलधारिणम् ।।
नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ।। ५४-८५ ।।
नागपर्यंकशयनं क्षीरोदार्णववासिनम् ।।
नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम् ।। ५४-८६ ।।
पुनस्त्वां देवदेवेश नमस्ये वरदं विभुम् ।।
सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ।। ५४-८७ ।।
एवं स्तुत्वा तु तं देवं प्रणिपत्य कृतांजलिः ।।
उवाच प्रणतो भूत्वा निपत्य वसुधातले ।। ५४-८८ ।।
प्रीतोऽसि यदि मे नाथ वृणोमि वरमुत्तमम् ।।
देवाः सुराः सगंधर्वा यक्षरक्षोमहोरगाः ।। ५४-८९ ।।
सिद्धविद्याधराः साध्याः किन्नरा गुह्यकास्तथा ।।
ऋषयो ये महाभागा नानाशास्त्रविशारदाः ।। ५४-९० ।।
प्रव्रज्यायोगयुक्ताश्च वेदतत्त्वानुचिंतकाः ।।
मोक्षमार्गविदो येऽन्ये ध्यांयति परमं पदम् ।। ५४-९१ ।।
निर्मलं निर्गुणं शांतं यत्पश्यंति मनीषिणः ।।
तत्पदं गंतुमिच्छामि प्रसादात्ते सुदुर्लभम् ।। ५४-९२ ।।
श्रीभगवानुवाच ।।
सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि ।।
भविष्यति यथाकामं मत्प्रसादान्न संशयः ।। ५४-९३ ।।
दश वर्षसहस्राणि तथा नव शतानि च ।।
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ।। ५४-९४ ।।
प्रपद्य परमं दिव्यं दुर्लभं यत्सुरासुरैः ।।
पूर्णं मनोरथं शांतं गुह्यमव्यक्तमव्ययम् ।। ५४-९५ ।।
परात्परतरं सूक्ष्मं निर्लेपं निर्गुण ध्रुवम् ।।
चिंताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ।। ५४-९६ ।।
तदहं दर्शयिष्यामि विज्ञेयाख्यं परं पदम् ।।
संप्राप्य परमानंदं प्राप्स्यसे परमां गतिम् ।। ५४-९७ ।।
कीर्तिश्च तव राजेंद्र भवत्वत्र महीतले ।।
यावद्धरा नभो यावद्यावच्चंद्रार्कतारकाः ।। ५४-९८ ।।
यावत्समुद्राः सप्तैव यावन्मेर्व्वादिपर्वताः ।।
तिष्ठंति दिवि देवाश्च यावत्सर्वत्र चाव्ययाः ।। ५४-९९ ।।
इंद्रद्युस्मसरो नाम तीर्थँ यज्ञाज्यसंभवम् ।।
यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्स्यति ।। ५४-१०० ।।
दापयिष्यति यः पिंडं तटेऽस्मिन्नंबुधेः शुभे ।।
कुसैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ।। ५४-१०१ ।।
पूज्यमानोऽप्सरोभिश्च गधवैर्गीतनिः स्वनैः ।।
विमानेन चरेत्तत्र यावदिंद्राश्चतुर्दशा ।। ५४-१०२ ।।
सरसो दक्षिणे भागे नैर्ऋत्यां तु समाश्रिते ।।
न्यग्रोधोऽस्ति द्रुमस्तत्र तत्समीपे तु मंडपः ।। ५४-१०३ ।।
केतकीवनसंछन्नो नानापादपसंकुलः ।।
आषाढस्य सिते पक्षे पंचम्यां पितृदैवते ।। ५४-१०४ ।।
ऋक्षे नेष्यंति नस्तत्र नीत्वा सप्त दिनानि वै ।।
मंडपे स्थापयिष्यंति सुवेश्याभिः सुशोभनैः ।। ५४-१०५ ।।
क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ।।
चामरैः स्वर्णदंडैश्च व्यजनै रत्नभूषणैः ।। ५४-१०६ ।।
व्यंजयंत्यस्तदास्मभ्यं स्थास्यंति परमांगनाः ।।
ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः ।। ५४-१०७ ।।
वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च वै द्विजाः ।।
नानावर्णपदैः स्तोत्रैर्ऋग्यजुः सामनिःस्वनैः ।। ५४-१०८ ।।
करिष्यंति स्तुतिं राजन्रामकेशवयोः पुनः ।।
ततः स्तुत्वा च दृष्ट्व च संप्रणम्य च भक्तितः ।। ५४-१०९ ।।
नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ।।
पूज्यमानोऽप्सरोभिश्च गंधर्वैर्गीतनिःस्वनैः ।। ५४-११० ।।
हरेरनुचरस्तत्र क्रीडते केशवेन वै ।। ५४-१११ ।।
विमानेनार्कवर्णेन रत्नहारेण राजते ।।
सर्वे कामा महाभागे तिष्ठंति भवनोत्तमे ।। ५४-११२ ।।
तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् ।।
कोटीधनपतिः श्रीमांश्चतुर्वेदो भवेद्ध्रुवम् ।। ५४-११३ ।।
एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः ।।
जगामादर्शनं भद्रे सहितो विश्वकर्मणा ।। ५४-११४ ।।
स तु राजा तदा हृष्टो रोमांचिततनूरुहः ।।
कृतकृत्यमिवात्मानं मेने संदर्शनाद्धरेः ।। ५४-११५ ।।
ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् ।।
रथैर्विमानसंकाशैर्मणिकांचनचित्रितैः ।। ५४-११६ ।।
संवाह्य तास्ततो राजा जयमंगलनिःस्वनैः ।।
आनया मास मतिमान्सामात्यः सपुरोहितः ।। ५४-११७ ।।
नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः ।।
संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ।। ५४-११८ ।।
ततः शुभे तिथौ स्वर्क्षे काले च शुभलक्षणे ।।
प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ।। ५४-११९ ।।
यथोक्तेन विधानेन विधिदृष्टेन कर्मणा ।।
आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ।। ५४-१२० ।।
आचार्याय तदा दत्त्वा दक्षिणां विधिवत्प्रभुः ।।
ऋत्विग्भ्यः सविधानेन तथान्येभ्यो धनं ददौ ।। ५४-१२१ ।।
कृत्वा प्रतिष्ठां विधिवत्प्रासादे भवनोत्तमे ।।
स्थापयामास तान्सर्वान्विश्वकर्मविनिर्मितान् ।। ५४-१२२ ।।
ततः संपूज्य विधिना नानापुष्पैः सुगंधिभिः ।।
सुवर्णमणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ।। ५४-१२३ ।।
ददौ द्विजेभ्यो विषयान्पुराणि नगराणि च ।।
एवं बहुविधान्दत्त्वा राज्यं कृत्वा यथोचितम् ।। ५४-१२४ ।।
इष्ट्वा च विविधैर्यज्ञैर्दत्त्वा दानान्यनेकशः ।।
कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः ।।
जगाम परमं स्थानं तद्विष्णोः परमं पदम् ।। ५४-१२५ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे श्रीपुरुषोत्तममाहात्म्ये चतुष्पंचाशत्तमोऽध्यायाः ।। ५४ ।।