नारदपुराणम्- उत्तरार्धः/अध्यायः ४९
वसुरुवाच ।।
वायव्ये तु दिशो भागे तस्य पीठस्य सुंदरि ।।
लिंगं प्रस्थापितं तत्र सगरेण चतुर्मुखम् ।। ४९-१ ।।
सागराद्वायुकोणे तु भद्रदेहं सरः स्मृतम् ।।
गवां क्षीरेण संजातं सर्वपातकनाशनम् ।। ४९-२ ।।
कपिलानां सहस्रस्य सम्यग्दत्तस्य यत्फलं ।।
तत्फलम् लभते मर्त्यः स्नानमात्रेण मोहिनि ।। ४९-३ ।।
पूर्वाभाद्रपदायुक्ता पौर्णमासी यदा भवेत् ।।
तदा पुण्यतमः कालोह्यश्वमेधफलप्रदः ।। ४९-४ ।।
यत्र सा दृश्यते देवी विख्याता भीष्मचंडिका ।।
श्मशाने तां समभ्यर्च्य न नरो दुर्गतिं व्रजेत् ।। ४९-५ ।।
अंतकेश्वरपूर्वेण दक्षे सर्वेश्वरस्य च ।।
मातलीश्वरसौम्ये तु कृत्तिवासेश्वरः स्मृतः ।। ४९-६ ।।
कृत्तिवासेश्वरं दृष्ट्वा तं संपूज्य परां गतिम् ।।
एकेन जन्मना देवि कृत्तिवासे तु लभ्यते ।।
पूर्वजन्मकृतं पापं तपसापि न शुद्ध्यति ।। ४९-७ ।।
तत्क्षणान्नश्यते पापं तस्य लिंगस्य दर्शनात् ।।
कृते तु त्र्यंबकं पूर्वं त्रेतायां कृत्तिवाससम् ।। ४९-८ ।।
महेश्वरं तु देवस्य द्वापरे नाम गीयते ।।
हस्तिपालेश्वरं नाम कलौ सिद्धैस्तु गीयते ।। ४९-९ ।।
कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनः पुनः ।।
यदीहेत्तारकं ज्ञानं शाश्वतं चामृतप्रदम् ।। ४९-१० ।।
दर्शनाद्देवदेवस्य ब्रह्महापि प्रमुच्यते ।।
स्पर्शने पूजने चैव सर्वयज्ञफलं लभेत् ।। ४९-११ ।।
श्रद्धया परया देवं येऽर्चयंति सनातनम् ।।
फाल्गुनस्य चतुर्दश्यां कृष्णपक्षे समाहिताः ।। ४९-१२ ।।
पुष्पैः फलैस्तथा पत्रैर्भक्ष्यैरुच्चावचैस्तथा ।।
क्षीरेण मधुना चैव तोयेन सह सर्पिषा ।। ४९-१३ ।।
तर्पयंति परं लिंगमर्चयंति शुभं शिवम् ।।
डुंडुकारनमस्कारैर्नृत्यगीतैस्तथैव च ।। ४९-१४ ।।
मुखवाद्यैरनेकैश्च स्तोत्रैर्मंत्रैस्तथैव च ।।
उपोष्य रजनीमेकां भक्त्या परमया हरम् ।। ४९-१५ ।।
ते यांति परमं स्थानं पूजयित्वा च मोहिनि ।।
भूतायां चैत्रमासस्य योऽर्चयेत्परमेश्वरम् ।। ४९-१६ ।।
स च वित्तेश्वरं प्राप्य क्रीडते यक्षराडिव ।।
वैशाखस्य चतुर्द्दश्यां योऽर्चयेत्प्रयतः शिवम् ।। ४९-१७ ।।
वैशाखलोकमासाद्य तस्यैवानुचरो भवेत् ।।
ज्येष्ठमासे चतुर्दश्यां योऽर्चयेच्छ्रद्धया हरम् ।। ४९-१८ ।।
स्वर्गलोकमवाप्नोति यावदाभूत संप्लवम् ।।
चतुर्द्दश्यां शुचौ भद्रे योऽर्चयेत्प्रयतः शिवम् ।। ४९-१९ ।।
सूर्यलोकं समासाद्य क्रीडते यावदीप्सितम् ।।
श्रावणस्य चतुर्द्दश्यां कामलिंगं समुत्थितम् ।। ४९-२० ।।
ददाति वारुणं लोकं क्रीडते चाप्सरोन्वितः ।।
मासि भाद्रपदे युक्तमर्चयित्वा तु शंकरम् ।। ४९-२१ ।।
पुष्पैः फलैश्च विविधैरिंद्रस्यैति सलोकताम् ।।
पितृपक्षे चतुर्द्दश्यां पूजयित्वा यथेश्वरम् ।। ४९-२२ ।।
प्राप्नोति पितृलोकं तु क्रीडते पूजितश्च तैः ।।
प्रबोधमासे देवेशमर्चयित्वा महेश्वरम् ।। ४९-२३ ।।
चंद्रलोकं समासाद्यक्रीडते यावदीप्सितम् ।।
बहुले मार्गशीर्षस्य पूजयित्वा पिनाकिनम् ।। ४९-२४ ।।
विष्णुलोकमवाप्नोति क्रीडते कालमक्षयम् ।।
अर्चयित्वा तथा पौषे स्थाणुं हृष्टेन चेतसा ।। ४९-२५ ।।
प्राप्नोति नैर्ऋतं स्थानं तेनैव सह मोदते ।।
माघे समर्चयित्वा वै पुष्पमूलफलैः शुभैः ।। ४९-२६ ।।
प्राप्नोति शिवलोकं तु त्यक्त्वा संसारसागरम् ।।
कृत्तिवासेश्वरं देवमर्चयेत्तु प्रयत्नतः ।। ४९-२७ ।।
अविमुक्ते वसेच्चैव यदीच्छेच्छांकरं पदम् ।।
घंटा कर्णो ह्रदस्तत्र व्यासेशस्य तु पश्चिमे ।। ४९-२८ ।।
स्नानं कृत्वा ह्रदे तस्मिन्व्यासेशस्य च दर्शनात् ।।
यत्र तत्र मृतो देवि वाराणस्यां मृतो भवेत् ।। ४९-२९ ।।
दंडखाते नरः स्नात्वा तर्पयित्वा स्वकान्पितॄन् ।।
नरकस्थास्तु ये देवि पितृलोकं व्रजंति ते ।। ४९-३० ।।
पिशाचत्वं गता देवि ये नराः पापकर्मिणः ।।
तेषां पिंडप्रदानेन देहस्योद्धरणं स्मृतम् ।। ४९-३१ ।।
दर्शनात्तस्य खातस्य कृतकृत्योऽभिजायते ।।
तत्रैव ललिता देवी वर्तते लोकशर्मदा ।। ४९-३२ ।।
ये च तां पूजयिष्यंति तस्मिन्स्थाने स्थिताः स्वयम् ।
तेषां सा विविधान्भोगान्संप्रदास्यति मानदे ।। ४९-३३ ।।
जागरं ये तु तस्याश्च पुरः कुर्वंति दीपकैः ।।
तेषां सा ह्यक्षयान् लोकान् वितरिष्यति मोहिनि ।। ४९-३४ ।।
आलयं ये प्रकुर्वंति भूमिं संमार्जयंति च ।।
तेषामष्टसहस्रस्य सुवर्णस्य फलं भवेत् ।। ४९-३५ ।।
तामुद्दिश्य तु यो देवि ब्राह्मणान्वेदपारगान् ।।
भोजयिष्यति मिष्टान्नैस्तस्य पुण्यफलं श्रृणु ।। ४९-३६ ।।
दुर्गालोके वसेत्कल्पमिहैवागच्छते पुनः ।।
नरो वा यदि वा नारी सर्वभोगसमन्वितौ ।। ४९-३७ ।।
धनधान्यसमायुक्तौ जायेते महतां कुले ।।
सुभगौ दर्शनीयौ च रूपयौवनगार्वितौ ।। ४९-३८ ।।
भवेतामीदृशौ देवि सर्वसौख्यस्य भाजनौ ।।
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम् ।। ४९-३९ ।।
येन सा ललिता दृष्टा तस्य जन्मभयं कुतः ।।
पृथ्वीप्रदक्षिणां कृत्वा यत्फलं लभते नरः ।। ४९-४० ।।
तत्फलं ललितायाश्च वाराणस्यां प्रदर्शनात् ।।
मासि मासि चतुर्थ्यां तु तस्मिन्काल उपोषितः ।। ४९-४१ ।।
अर्चयित्वा तु तां देवीं जागरं तत्र कारयेत् ।।
तस्यार्द्धिः सकला देवि त्रैलोक्यस्यापि पूजितम् ।। ४९-४२ ।।
नलकूबरकेशानं ते च संपूज्य मोहिनि ।।
सर्वसिद्धिप्रदातारं कृत्यकृत्यो नरो भवेत् ।। ४९-४३ ।।
तस्यैव दक्षिणे देवि मणिकर्णीति च श्रुतम् ।।
तस्य चाग्रे महत्तीर्थं सर्वपापप्रणाशनम् ।। ४९-४४ ।।
मणिकर्णीश्वरं देवं कुंडमध्ये व्यवस्थितम् ।।
दृष्ट्वा नत्वा समभ्यर्च्य न भूयो जठरे वसेत् ।। ४९-४५ ।।
तस्य दक्षिणपार्श्वे तु गंगायां स्थापितं परम् ।।
गंगेश्वरं समभ्यर्च्य सुरलोकमवाप्नुयात् ।। ४९-४६ ।।
अन्यदायतनं वक्ष्ये वाराणस्यां सुमोहिनि ।।
यत्र वै देवदेवस्य रुचिरं स्थानमीप्सितम् ।। ४९-४७ ।।
नीयमानं पुरा लिंगं सुभगे शशिमौलिनः ।।
राक्षसैरंतरिक्षस्थैर्व्रजमानैश्च सत्वरम् ।। ४९-४८ ।।
अस्मिन्देशे यदा प्राप्तं तदा देवेन चिंतितम् ।।
अविमुक्तवियोगस्तु कथं मे न भवेदिति ।। ४९-४९ ।।
इममर्थं तु देवेशो यावच्चिंतयते शुभे ।।
तावत्कुक्कुटशब्दस्तु तस्मिन्स्थाने बभूव ह ।। ४९-५० ।।
शब्दं श्रुत्वा तु तं देवि राक्षसास्त्रस्तचेतसः ।।
लिंगमुत्सृज्य तत्रैव प्रभातसमये गताः ।। ४९-५१ ।।
गतेषु राक्षसेष्वेवं लिंगं तत्रैव संस्थितम् ।।
स्थानेऽतिरुचिरे शुभ्रे देवदेवः स्वयं प्रभुः ।। ४९-५२ ।।
अविमुक्ते तत्र मध्ये अविमुक्ततरं स्मृतम् ।। ४९-५३ ।।
तदा विमुक्तेति सुरैर्हरस्य नाम स्मृतं पुण्यतमाक्षराढ्यम् ।।
मोक्षप्रदं स्थावरजंगमानां ये प्राणिनः पञ्चतां यांति तत्र ।। ४९-५४ ।।
कुक्कुटाश्चापि सुभगे तस्मिन्स्थाने स्थिताः सदा ।।
अद्यापि तत्र दृश्यंते पूज्यमानाः शुभात्मभिः ।। ४९-५५ ।।
अविमुक्तं सदा देवि यः श्रयेदीक्षया नरः ।।
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।। ४९-५६ ।।
देवस्य दक्षिणे भागे वापी तिष्ठति शोभना ।।
तस्यास्तथोदकं पीत्वा नावृत्तिः पुनरत्र च ।। ४९-५७ ।।
त्रीणि लिंगानि वर्तंते हृदये पुरुषस्य तु ।।
तथा यैस्तज्जलं पीतं ते कृतार्थास्तु मानवाः ।। ४९-५८ ।।
तेषां तु तारकं ज्ञानमस्त्येवेति न संशयः ।।
वापीजले नरः स्नात्वा दृष्ट्वा दंडकनामकम् ।। ४९-५९ ।।
अविमुक्तं ततो दृष्ट्वा कैवल्यं लभते क्षणात् ।।
तत्र संध्यामुपासित्वा ब्राह्मणः सकृदेव तु ।। ४९-६० ।।
पंचषष्टिसमाः संध्या तेन चोपासिता भवेत् ।।
पुरीं वाराणसीं तां तु श्मशानं चाविमुक्तकम् ।। ४९-६१ ।।
अविमुक्तेश्वरं चैव दृष्ट्वा गणपतिर्भवेत् ।।
अविमुक्तेश्वरं लिंगं तत्र दृष्ट्वैव मानवः ।। ४९-६२ ।।
सद्यः पापैस्तथा रोगैः पशुपाशैर्विमुच्यते ।।
अविमुक्तस्य चाग्रे तु लिंगं पश्चान्मुखं स्थितम् ।। ४९-६३ ।।
अविमुक्तं च तं भद्रे नाम्ना वै लक्षणेश्वरम् ।।
तेन वै दृष्टमात्रेण ज्ञानवान् जायते नरः ।। ४९-६४ ।।
तस्य चोत्तरतो देवि लिंगं चैव चतुर्मुखम् ।।
चतुर्थेश्वरनामेदं पापभीमोचनं परम् ।। ४९-६५ ।।
क्षेत्रं वाराणसीनाम मुक्तिदं प्राणिनां भुवि ।।
अविमुक्तेश्वरं तत्र जीवन्मुक्तं प्रकीर्तितम् ।। ४९-६६ ।।
यत्र तत्र स्थितस्यापि गाणपत्यं विधीयते ।।
प्राणांस्तु तत्र संत्यज्य मुक्तिमात्यंतिकीं व्रजेत् ।। ४९-६७ ।।
एतदभ्यंतरे क्षेत्रे प्रथमावरणं स्मृतम् ।।
तथा द्वितीयावरणे प्राच्यां तु मणिकर्णिका ।। ४९-६८ ।।
सप्तकोट्यस्तुलिंगानि तत्र स्थाने स्थितानि हि ।।
तेषां दर्शनमात्रेण यज्ञानां फलमाप्नुयात् ।। ४९-६९ ।।
एतानि सिद्धलिंगानि कूपाः पुण्यास्तस्था ह्रदाः ।।
वाप्यो नद्योऽथ कुंडानि तथा तेऽपि प्रकीर्तिताः ।। ४९-७० ।।
एतेषु चैव यः स्नानं करिष्यति समाहितः ।।
लिंगानि स्पर्शयित्वा च संसारे न विशेत्पुनः ।। ४९-७१ ।।
पृथिव्यां यानि तीर्थानि ह्यंतरिक्षे च यानि तु ।।
तेषां मध्ये तु मुख्यानि कीर्तितानि मया हि ते ।। ४९-७२ ।।
तीर्थयात्रा वरारोहे कथिता पापनाशिनी ।।
येन चैषा कृता दृष्टा सोऽपि वै मुक्तिभाग्भवेत् ।। ४९-७३ ।।
अविमुक्तं तु सुश्रोणि मध्यमावरणं शुभम् ।।
एतत्तु कंटकं नाम मृत्युकालेऽभृतप्रदम् ।। ४९-७४ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्ये तीर्थयात्रावर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।