नारदपुराणम्- उत्तरार्धः/अध्यायः ४८
मांधातोवाच ।।
भगवन्सम्यगाख्यातं सर्वज्ञेन कृपालुना ।।
मोहिनीचरितं पुण्यं महापातकनाशनम् ।। ४८-१ ।।
पतिं पुत्रं सपत्नीं च या प्रसह्य भवार्णवात् ।।
मोचयामास धर्मस्य रक्षणे पितुराज्ञया ।। ४८-२ ।।
सा ब्रह्मपुत्री सर्वज्ञा सर्वलोकहिते रता ।।
पुरोधसंच संप्राप्ता शरणं प्रभुमात्मनः ।। ४८-३ ।।
श्रुत्वा गयाया माहात्म्यं पितॄणां गतिदं परम् ।।
भूयः पप्रच्छ किं विप्रं वसुं वेदविदांवरम् ।। ४८-४ ।।
वसिष्ठ उवाच ।।
श्रृणु भूप प्रवक्ष्यामि यदपृच्छत्पुनर्वसुम् ।।
मोहिनी मोहिमापन्ना तीर्थसेवनकामुका ।। ४८-५ ।।
मोहिन्युवाच ।।
साधु साधु द्विजश्रेष्ठ लोकोद्धरणतत्पर ।।
त्वया ह्यनुगृहीताहमधुना करुणात्मना ।। ४८-६ ।।
श्रुतं पुण्यं मया ब्रह्मन् गयामाहात्म्यमुत्तमम् ।।
गोप्यं पितॄणां गतिदं धर्माख्यानं सुखावहम् ।। ४८-७ ।।
अधुना वद विप्रेंद्र काशीमाहात्म्यमुत्तमम् ।।
मया पूर्वं श्रुतं ब्रह्मन् किंचित्संध्यावलीमुखात् ।। ४८-८ ।।
तेन मे स्मृतिमापन्नं विस्तराद्वद सांप्रतम् ।।
वसिष्ठ उवाच ।।
तच्छ्रुत्वा मोहिनी वाक्यं वसुस्तस्याः पुरोहितः ।। ४८-९ ।।
वेदवेदांगतत्त्वज्ञः प्राह तां श्रृयतामिति ।।
वसुरुवाच ।।
शुभा काशीपुरी धन्या धन्यो देवो महेश्वरः ।। ४८-१० ।।
यः सेवतेऽनिशं काशीं मुक्तिदां वैष्णवीं पुरीम् ।।
याचयित्वा हरेः क्षेत्रं स्थितो देवः सनातनः ।। ४८-११ ।।
पूजयंस्तं हृषीकेशं पूज्यमानः सुरादिभिः ।। ४८-१२ ।।
वाराणसी तु भुवनत्रयसारभूता रम्या नृणां सुगतिदा किल सेव्यमाना ।।
अत्रागता विविधदुष्कृतकारिणोऽपि पापक्षये विरजसः सुमनः प्रकाशाः ।। ४८-१३ ।।
इदं गुह्यतमं क्षेत्रं सर्वप्राणिसुखावहम् ।।
मोक्षदं सर्वजंतूनां वैष्णवं शैवमेव च ।। ४८-१४ ।।
ब्रह्मघ्नगोघ्नगुरुतल्पगमित्रध्रुक्चन्यासापहरक्लशिदादिनिषिद्धवृत्तिः ।।
संसारभूतदृढपाशविमुक्तदेहो वाराणसीं शिवपुरीं समुपैति मर्त्यः ।। ४८-१५ ।।
क्षेत्रं तथेदं सुरसिद्धजुष्टं संप्राप्य मर्त्यः सुकृतप्रभावात् ।।
ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं सः ।। ४८-१६ ।।
क्षेत्रेऽस्मिन्निवसंति ये सुकृतिनो भक्ता हरौ वा हरे पश्यंतोऽन्वहमादरेण शुचयः संतः समाः शंभुना ।।
ते मर्त्यां भयदुःखपापरहिताः संशुद्धकर्मक्रिया भित्वा संभवबंधजालगहनं विंदंति मोक्षं परम् ।। ४८-१७ ।।
द्वियोजनमथार्द्धं च पूर्वपश्चिमतः स्थितम् ।।
अर्द्धयोजनविस्तीर्णं दक्षिणोत्तरतः स्मृतम् ।। ४८-१८ ।।
वरणासिर्नदी यावदसिः शुष्कनदी शुभे ।।
एष क्षेत्रस्य विस्तारः प्रोक्तो देवेन शंभुना ।। ४८-१९ ।।
अयनं तूत्तरं ज्ञेयं तिमिचंडेश्वरं ततः ।।
दक्षिणं शंकुकर्णं तु ॐकारे तदनंतरम् ।। ४८-२० ।।
पिंगला नाम यत्तीर्थं आग्नेयी सा प्रकीर्तिता ।।
शुष्का सरिच्च सा ज्ञेया लोकार्को यत्र तिष्ठति ।। ४८-२१ ।।
इडानाम्नी तु या नाडी सा सौम्या संप्रकीर्तिता ।।
वरणा नाम सा ज्ञेया केशवो यत्र संस्थितः ।। ४८-२२ ।।
आभ्सां मध्ये तु या नाडी सुषुम्ना सा प्रकीर्तिता ।।
मत्स्योदरी च सा ज्ञेया विस्वरं तत्प्रकीर्तितम् ।। ४८-२३ ।।
विमुक्तं न कदा यस्मान्मोक्ष्यते न कदाचन ।।
महाक्षेत्रमिदं तस्मादविमुक्तमिद स्मृतम् ।। ४८-२४ ।।
प्रयागादपि तीर्थादेरधिकं दुस्तराच्छुभे ।।
अनायासेन वै यत्र मोक्षप्राप्तिः प्रजायते ।। ४८-२५ ।।
नानावर्णा विकर्णाश्च चांडाला ये जुगुप्सिताः ।।
किल्बिषैः पूर्णदेहाश्च प्रकृष्टैः पातकैस्तथा ।। ४८-२६ ।।
भैषजं परमं तेषामविमुक्तं विदुर्बुधाः ।।
दुष्टांधान् दीनकृपणान्पापान्दुष्कृतकारिणः ।। ४८-२७ ।।
हरोऽनुकंपया सर्वान्नयत्याशु परां गतिम् ।।
क्षेत्रमध्याद्यदा गंगा संगता सरितां पतिम् ।। ४८-२८ ।।
ततः प्रभृति सा पुण्या पुरी जाता शुभानने ।।
पुण्या चोदङ्मुखी गंगा प्राची चैव सरस्वती ।। ४८-२९ ।।
तत्र मुक्तं कपालं तु शिवेन सुमहात्मना ।।
तस्मिंस्तीर्थे तु ये गत्वा पिंडदानेन वै पितॄन् ।। ४८-३० ।।
श्राद्धेषु प्रीणयिष्यंति तेषां लोकास्तु भास्वराः ।।
ब्रह्महा योऽभिगच्छेत्तु अविमुक्तं कदाचन ।। ४८-३१ ।।
तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते ।।
अविमुक्तं गता ये वै महापुण्यकृतो नराः ।। ४८-३२ ।।
अक्षय्या ह्मजराश्चैव विदेहाश्च भवंति ते ।।
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ।। ४८-३३ ।।
यत्किंचिदशुभं कर्म कृतं चैव कुबुद्धिना ।।
अविमुक्तं प्रविष्टस्य तत्सर्वं भस्मसाद्भवेत् ।। ४८-३४ ।।
सदा यजति यज्ञेन सदा दानं प्रयच्छति ।।
सदा तपस्वी भवति ह्यविमुक्ते स्थितो नरः ।। ४८-३५ ।।
न सा गतिः कुरुक्षेत्रे गंगाद्वारे न पुष्करे ।।
या गतिर्विहिता पुंसामविमुक्तनिवासिनाम् ।। ४८-३६ ।।
सर्वात्मना तपः सत्यं प्राणिनां नात्र संशयः ।।
अविमुक्तेवसेद्यस्तु स तु साक्षान्महेश्वरः ।। ४८-३७ ।।
अविमुक्तं न सेवंते ये मूढास्तामसा नराः ।।
विण्मूत्ररजसां मध्ये ते वसंति पुनः पुनः ।। ४८-३८ ।।
अविमुक्ते स्थिता नित्यं पांशुभिर्वायुनेरितैः ।।
स्पृष्टा दुष्कृतकर्माणो यांति वै परमां गतिम् ।। ४८-३९ ।।
यस्तत्र निवसेन्मर्त्यः संयतात्मा समाहितः ।।
त्रैलोक्यमपि भुंजानो वायुभक्षसमः स्मृतः ।। ४८-४० ।।
तत्र मासं वसेद्यस्तु लब्धाहारो जितेंद्रियः ।।
सम्यक्तेन व्रतं चीर्णं महापाशुपतं भवेत् ।। ४८-४१ ।।
जन्ममृत्युभयं जित्वा स याति परमां गतिम् ।।
निःश्रेयसगतिं पुण्यां तथा योगगतिं लभेत् ।। ४८-४२ ।।
नहि योगगतिर्लभ्या जन्मांतरशतैरपि ।।
प्राप्यते क्षेत्रमाहात्म्यात्प्रभावाच्छंकरस्य च ।। ४८-४३ ।।
एकाहारस्तु यस्तिष्ठेन्मासं तत्र शुभानने ।।
यावज्जीवकृतं पापं मासेनैकेन नश्यति ।। ४८-४४ ।।
आदेहपाताद्यो मर्त्योऽविमुक्तं नैव मुञ्चति ।।
ब्रह्मचर्येण संयुक्तः स साक्षाच्छंकरो भवेत् ।। ४८-४५ ।।
विघ्नैराहन्यभानोऽपि योऽविमुक्तं न च त्यजेत् ।।
स मुंचति जरामृत्युं जन्म चैतच्च नश्वरम् ।। ४८-४६ ।।
आदेहपतनाद्ये तु सेवंति ह्यविमुक्तकम् ।।
ते मृता हंसयानेन दिव्यान् लोकान्प्रयांति हि ।। ४८-४७ ।।
विषयासक्तचित्तोऽपि त्यक्तभक्तिमतिर्नरः ।।
इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत् ।। ४८-४८ ।।
स्वर्गापवर्गयोर्हेतुरेतत्तीर्थवरं भुवि ।।
यस्तत्र पंचतां याति तस्य मुक्तिर्न संशयः ।। ४८-४९ ।।
जन्मांतरसहस्रेण योगी यत्पदमाप्नुयात् ।।
तदिहैव परं मोक्षं मरणादधिगच्छति ।। ४८-५० ।।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रा वै वर्णसंकराः ।।
क्रिमयश्चैव ये म्लेच्छाः संकीर्णाः पापयोनयः ।। ४८-५१ ।।
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।।
कालेन निधनं प्राप्तास्तेऽपि देवेश्वराः स्मृताः ।। ४८-५२ ।।
चंद्रार्द्धमौलयः सर्वे ललाटाक्षा वृषध्वजाः ।।
प्राणांस्त्यजंति ये तत्र प्राणिन स्तत्त्वतः शुभे ।। ४८-५३ ।।
रुद्रत्वं ते तु संप्राप्य मोदंते शिवसन्निधौ ।।
अकामो वा सकामो वा तिर्यग्योनिगतोऽपि वा ।। ४८-५४ ।।
अविमुक्ते त्यजन्प्राणान्मुक्तिभाक्स्यान्न संशयः ।।
शिवभक्तिपरा नित्यं नान्यभक्ताश्च ये नराः ।। ४८-५५ ।।
तच्चित्तास्तद्गतप्राणा जीवन्मुक्ता न संशयः ।।
अग्रिप्रवेशं ये कुर्युरविमुक्ते विचारतः ।। ४८-५६ ।।
कालाग्निरुद्रसायुज्यं ते प्रयान्ति च मोहिनि ।।
कुर्वन्त्यनशनं ये तु शिवभक्ताः सुनिश्चिताः ।। ४८-५७ ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।।
अविमुक्ते मृत्युकाले भूतानामीश्वरः स्वयम् ।। ४८-५८ ।।
कर्मभिः प्रेर्यमाणानां कर्णजाप्यं प्रयच्छति ।।
स्वयं रामेण चाप्युक्तं शिवाय शिवकारिणे ।। ४८-५९ ।।
अतिप्रसन्नचित्तेन अविमुक्तनिवासिने ।।
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।। ४८-६० ।।
उपदेक्ष्यसि मन्मंत्रं स मुक्तो भविता शिव ।।
अंतकाले मनुष्याणां छिद्यमानेषु कर्मसु ।। ४८-६१ ।।
वायुना प्रेर्यमाणानां स्मृतिर्नैवोपजायते ।।
येऽविमुक्ते स्थिता रुद्रा भक्तप्रीतिप्रदायकाः ।। ४८-६२ ।।
कर्णजाप्यं प्रयच्छन्ति डिमिचंडेश्वरादयः ।।
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।। ४८-६३ ।।
ईश्वरानुगृहीता हि सर्वे यांति परां गतिम् ।।
उद्देशमात्रात्कथिता अविमुक्तगुणास्तव ।। ४८-६४ ।।
समुद्रस्यैव रत्नानामविमुक्तस्य विस्तरः ।।
ज्ञानविज्ञाननिष्ठानां परमानन्दमिच्छताम् ।। ४८-६५ ।।
या मतिर्विहिता नूनं स्वन्निते तु मृतस्य सा ।।
प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ।। ४८-६६ ।।
अनंता सा गतिस्तस्य योगिनामेव या स्मृता ।।
योगपीठं श्मशानाख्यं यत्तीर्थं मणिकर्णिका ।। ४८-६७ ।।
तेषु मुक्तिः समुद्दिष्टा पतितानां स्वकर्मणा ।।
तत्रापि सर्वतीर्थानामुत्तमा मणिकर्णिका ।। ४८-६८ ।।
यत्र नित्यं वरारोहे सान्निध्यं धूर्जटेः स्मृतम् ।।
दशानामश्वमेधानां यज्ञानां यत्फलं स्मृतम् ।। ४८-६९ ।।
तदवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने ।।
स्वस्वमप्यत्र यो दद्याद्ब्राह्मणे वेदपारगे ।। ४८-७० ।।
शुभां गतिमवाप्नोति हुताश इव दीप्यते ।।
उपवासं तु यः कृत्वा विप्रान्संतर्पयन्नेरः ।। ४८-७१ ।।
स सौत्रामणियज्ञस्य फलमाप्नोति निश्वितम् ।।
तत्र दीपप्रदानेन ज्ञानवत्स्फुरतींद्रियम् ।। ४८-७२ ।।
प्राप्नोति धूपदानेन स्थानं रुद्रनिषेवितम् ।।
वृषभं तरुणं सौम्यं चतुर्वत्सतरीयुतम् ।। ४८-७३ ।।
योंऽकयित्वा मोचयति स याति परमां गतिम् ।।
पितृभिः सहितो मोक्षं गच्छत्येव न संशयः ।। ४८-७४ ।।
किमत्र बहुनोक्तेन धर्मादींस्तु प्रकुर्वतः ।।
यच्छिवं तु समुद्दिश्य तदनंतफलं भवेत् ।। ४८-७५ ।।
दशाश्वमेधिकं पुण्यं पुष्पदाने प्रकीर्तितम् ।।
अग्निहोत्रफलं धृपे गन्धे भूदानजं फलम् ।। ४८-७६ ।।
मार्जने गोप्रदानस्य फलमत्र प्रकीर्तितम् ।।
अनुलेपे दशगुणं माल्ये दशगुणं स्मृतम् ।। ४८-७७ ।।
गीते सहस्रगुणितं वाद्ये लक्षगुणं स्मृतम् ।।
अविमुक्ते महादेवमर्चयंति स्तुवंति वै ।। ४८-७८ ।।
सर्वपापविमुक्तास्ते स्वस्तिष्ठंत्यजरामराः ।।
अविमुक्तं समासाद्य लिंगमर्चयते नरः ।। ४८-७९ ।।
कल्पकोटिशतैश्चापि तस्य नास्ति पुनर्भवः ।।
अजरो ह्यमरश्चैव क्रीडेत्स भवसन्निधौ ।। ४८-८० ।।
ये तु ध्यानं समासाद्य मुक्तात्मानः समाहिताः ।।
संनियम्येंद्रियग्रामं जपंति शतरुद्रियम् ।। ४८-८१ ।।
अविमुक्ते स्थिता नित्यं कृतार्थास्ते द्विजोत्तमा- ।।
एकाहमुपवासं यः करिष्यति यशस्विनि ।। ४८-८२ ।।
फलं वर्षशतस्येह लभते नात्र संशयः ।।
अतः परं तु सायुज्यं गंगावरुणसंगमम् ।। ४८-८३ ।।
श्रवणद्वादशीयोगो बुधवारे यदा भवेत् ।।
तदा तस्मिन्नरः स्नात्वा संनिहत्याफलं लभेत् ।। ४८-८४ ।।
श्राद्धं करोति यस्तत्र तस्मिन्काले शुभानने ।।
तारयित्वा पितॄन्सर्वान्विष्णुलोकं स गच्छति ।। ४८-८५ ।।
वरणास्योस्तु जाह्नव्याः संगमे लोकविश्रुते ।।
दत्वाश्वं च विधानेन स भूयोऽपि न जायते ।। ४८-८६ ।।
यस्तत्र संगमेशानमर्चयेद्भक्तिमान्नरः ।।
स साक्षाद्देवदेवेशो निग्रहानुग्रहे क्षमः ।। ४८-८७ ।।
देवेश्वरस्य पूर्वेण स्वयं तिष्ठति केशवः ।।
केशवस्य च पूर्वेण विश्रुतः संगमेश्वरः ।। ४८-८८ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे काशीमाहात्म्यं नामाष्टचत्वारिंशत्तमोऽध्यायः ।। ४८ ।।