नारदपुराणम्- उत्तरार्धः/अध्यायः ४७
वसुरुवाच ।।
पंचमेऽह्नि गदालोले कृत्वा स्नानादि पूर्ववत् ।।
श्राद्धं सपिंडकं कुर्यात्ततोऽक्षयवटे नरः ।। ४७-१ ।।
तत्र श्राद्धादिकं कृत्वा पितॄन्ब्रह्मपुरं नयेत् ।।
ब्रह्मप्रकल्पितान् विप्रान्भोजयेत्पूजयेदथ ।। ४७-२ ।।
कृतश्राद्धोऽक्षयवटे अनेनैव प्रयत्नतः ।।
दृष्ट्वा नत्वाथ संपूज्य वटेशं च समाहितः ।। ४७-३ ।।
पितॄन्नयेद्ब्रह्मपुरमक्षयं तु सनातनम् ।।
"गदालोले महातीर्थे गदाप्रक्षालने वरे ।। ४७-४ ।।
स्नानं करोमि शुद्ध्यर्थमक्षय्याय स्वराप्तये ।।
एकांतरे वटस्याग्रे यः शेते योगानिद्रया ।। ४७-५ ।।
बालरूपधरस्तस्मै नमस्ते योगशायिने ।।
संसारवृक्षशस्त्रायाशेषपापक्षयाय च ।। ४७-६ ।।
अक्षय्यब्रह्मदात्रे च नमोऽक्षय्यवटाय वै" ।।
"कलौ माहेश्वरा लोका येन तस्माद् गदाधरः ।। ४७-७ ।।
लिंगरूपोऽभवत्तं च वन्दे त्वां प्रपितामहम्" ।।
नयेत्पितॄन्न्रुपदं नत्वा तं प्रपितामहम् ।। ४७-८ ।।
हेतिं हत्वासुरं तस्य शिरश्चैव द्विधा कृतम् ।।
गदया सा गदा यत्र क्षालिता प्रभुणाऽभवत् ।। ४७-९ ।।
गदालोलमिति ख्यातं तत्तीर्थप्रवरं ह्यभूत् ।।
हेती रक्षो ब्रह्मपुत्ररतपस्तेपेऽद्भुतं महत् ।। ४७-१० ।।
ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान् ।।
दैत्यादिभिश्च शश्त्राद्यैर्विविधैर्मनुजैरपि ।। ४७-११ ।।
कृष्णेशानादिचक्राद्यैरवध्यः स्यां महाबलः ।।
तथेत्युक्त्वांतर्हितास्ते हेतिर्देवानथा जयत् ।। ४७-१२ ।।
इन्द्रत्वमकरोद्धेतिस्तदा ब्रह्महरादयः ।।
देवा हरिं प्रपन्नास्तमूचुर्हेतिं जहीति च ।। ४७-१३ ।।
ऊचे हरिरवध्योऽयं हेतिर्देवाः सुरासुरैः ।।
ब्रह्मास्त्रं मे प्रयच्छध्वं हेतिं हन्यां हि येन तम् ।। ४७-१४ ।।
इत्युक्तास्ते ततो देवा विष्णवे तां गदां ददुः ।।
उपेंद्र त्वं जहीत्येव हेतिं प्रोचुरजादयः ।। ४७-१५ ।।
दधार तां गदामाजौ देवैरुक्तो गदाधरः ।।
गदया हेतिमाहत्य देवेभ्यस्त्रिदिवं ददौ ।। ४७-१६ ।।
उपोषितोऽथ गायत्रीतीर्थे महानदीस्थिते ।।
गायत्र्या पुरतः स्नातस्ततः संध्यां समाचरेत् ।। ४७-१७ ।।
श्राद्धं सपिंडकं कृत्वा नयेद्ब्राह्मणतां कुलम् ।।
तीर्थे समुद्यते स्नात्वा सावित्र्याः पुरतो नरः ।। ४७-१८ ।।
संध्यामुपास्य मध्याह्ने नयेत्पितॄन्विधिक्षयम् ।।
प्राचीसरस्वतीस्नातः सरस्वत्यास्ततोऽग्रतः ।। ४७-१९ ।।
संध्यामुपास्य सायाह्ने नयेत्सर्वज्ञतां कुलम् ।।
बहुजन्मकृतात्संध्यालोपपापाद्विशुद्ध्यति ।। ४७-२० ।।
विशालायां लिलेहाने तीर्थे च भरतागश्रमे ।।
पदांकिते मुंडपृष्ठे गदाधरसमीपतः ।। ४७-२१ ।।
तीर्थ आकाशगंगायां गिरिकर्णमुखेषु च ।।
श्राद्धदः पिंडदो ब्रह्मलोकं पितृशतं नयेत् ।। ४७-२२ ।।
स्नातो गोदावैतरण्यां त्रिःसप्तकुलमुद्धरेत् ।।
देवनद्यां गोप्रचारे तथा मानसके पदे ।। ४७-२३ ।।
पुष्करिण्यां गदालोले तीर्थे चामरके तथा ।।
कोटितीर्थे रुक्मकुंडे पिंडदः स्वर्नयेत्पितॄन् ।। ४७-२४ ।।
मार्कंडेयेशकोटिशौ नत्वा स्यात्पितृतारकः ।।
तथा पांडुशिलायास्तु पुण्यदायाः सुलोचने ।। ४७-२५ ।।
दृष्टिमात्रेण संपूतान्नरकस्थान्दिवं नयेत् ।।
इत्युक्त्वा प्रययौ पांडुः शाश्वतं पदमव्ययम् ।। ४७-२६ ।।
घृतकुल्या मधुकुल्या देविका च महानदी ।।
शिलायां संगता तत्र मधुस्रवा प्रकीर्तिता ।। ४७-२७ ।।
अयुतं ह्यश्वमेधानां स्नानेन लभते नरः ।।
तर्पयित्वा पितृर्गंणं श्राद्धं कृत्वा सपिंडकम् ।। ४७-२८ ।।
सहस्रकुलमुद्धृत्य नयेद्विष्णुपुरं नरः ।।
उद्भिज्जाः स्वेदजा वापि ह्यंडजा ये जरायुजाः ।। ४७-२९ ।।
मधुस्रवां समासाद्य मृता विष्णुपदं ययुः ।।
दशाश्वमेधिके हंसतीर्थे श्राद्धाद्दिवं व्रजेत् ।। ४७-३० ।।
दशाश्वमेधहंसौ च नत्वा शिवपुरं व्रजेत् ।।
मतंगस्य पदे श्राद्धकर्ता ब्रह्मपुरे वसेत् ।। ४७-३१ ।।
निर्मथ्याग्नीन्शमीगर्भे विधिर्विष्ण्वादिभिः सह ।।
मंथोकुंडं हि तत्तीर्थं पितॄणां मुक्तिकारकम् ।। ४७-३२ ।।
तर्पणात्पिंडदानाच्च स्नानकृन्मुक्तिमाप्नुयात् ।।
पितॄन्स्वर्गं नयेन्नत्वा रामेशकरकेश्वरौ ।। ४७-३३ ।।
गयाकूपे पिंडदानादश्वमेधफलं लभेत् ।।
भस्मकूटे भस्मनाऽथ स्नानात्तारयते पितॄन् ।। ४७-३४ ।।
धौतपापोऽथ निःक्षघीरासंगमे स्नानकृन्नरः ।।
श्राद्धी रामपुष्करिण्यां ब्रह्मलोकं नयेत्पितॄन् ।। ४७-३५ ।।
सुषुम्नायां महानद्यां त्रिःसप्तकुलमुद्धरेत् ।।
स्नातो नत्वा वसिष्ठेशं तस्य तीर्थेऽश्वमेधभाक् ।। ४७-३६ ।।
पिडंदो धेनुकारण्ये कामधेनुपदेषु च ।।
स्नातो नत्वा तु तं देवं ब्रह्मलोकं नयेत्पितॄन् ।। ४७-३७ ।।
कर्दमाले गयानाभौ मुंडपृष्ठसमीपतः ।।
स्नात्वा श्राद्धी नयेत्स्वर्गं पितॄन्नत्वा च चंडिकाम् ।। ४७-३८ ।।
फल्गुचंडीशनामानं संगमाधीशमर्च्य च ।।
गयागजो गयादित्यो गायत्री च गदाधरः ।। ४७-३९ ।।
गया गयाशिरश्चैव षड्गया मुक्तिदायिकाः ।।
गयायां तु वृषोत्सर्गात्त्रिः सप्तकुलमुद्धरेत् ।। ४७-४० ।।
यत्र तत्र स्थितो विप्रगदितो विजितेंद्रियः ।।
आद्यं गदाधरं ध्यायन् श्राद्धपिंडानि कारयेत् ।। ४७-४१ ।।
कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेद्ध्रुवम् ।।
ततो दध्योदनेनैव दत्वा नैवेद्यमुत्तमम् ।। ४७-४२ ।।
जनार्दनाय देवाय समभ्यर्च्य यथाविधि ।।
दद्यान्निक्षिप्य पिंडांस्तु तच्छेषेणैव जीवति ।। ४७-४३ ।।
दैत्यस्य मुंडपृष्ठे तु यस्मात्सा संस्थिता शिला ।।
तस्माद्वै मुंडपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ।। ४७-४४ ।।
रामे वनं गते शैलमारुह्य भरतः स्थितः ।।
पित्रे पिंडादिकं दत्वा रामेशं स्थाप्य तत्र च ।। ४७-४५ ।।
स्नात्वा नत्वा च रामेशं रामं सीतां समाहितः ।।
श्राद्धं पिंडप्रदानं च कृत्वा विष्णुपुरं व्रजेत् ।। ४७-४६ ।।
पितृभिः सह धर्मात्मा कुलानां च शतैः सह ।।
शिलादक्षिणहस्ते च स्थापितः कुंडपृष्ठतः ।। ४७-४७ ।।
तत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् ।।
कुंडेनाथ तपस्तप्तं सीताद्रेर्दक्षिणे नगे ।। ४७-४८ ।।
मतंगस्य पदे पुण्ये पिंडदः स्वर्नयेत्पितॄन् ।।
वामहस्ते शिलायाश्च ह्यंतको विधृतो गिरिः ।। ४७-४९ ।।
उदयाद्रिरिहानीतो ह्यगस्त्येन महात्मना ।।
स्थापितः पिंडदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ।। ४७-५० ।।
कुंडमुद्यंतकं तत्र स्वात्मनस्तपसे कृतम् ।।
ब्रह्मा तत्र च सावित्री कुमाराभ्यां स्थितस्त्विह ।। ४७-५१ ।।
हाहाहूंहूप्रभृतयो गीतं वाद्यं प्रचक्रमुः ।।
स्नातोऽगस्त्ये च मध्याह्ने सावित्रीं समुपास्य च ।। ४७-५२ ।।
कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ।।
अगस्त्यस्य पदे स्नातः पिंडदः स्वर्न्नयेत्पितॄन् ।। ४७-५३ ।।
ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः ।।
परं ब्रह्म स यातीह विमुक्तो योनिसंकटात् ।। ४७-५४ ।।
नत्वा गयाकुमारं च ब्राह्मण्यं लभते नरः ।।
सोमकुंडाभिषेकाद्यैः सोमलोकं नयेत्पितॄन् ।। ४७-५५ ।।
बलिः काकशिलायां तु काकेभ्यः क्षणमोक्षदः ।।
स्वर्गद्वारेश्वरं नत्वा स्वर्गाद्ब्रह्मपुरं नयेत् ।। ४७-५६ ।।
पिंडदो व्योमगंगायां निर्मलः स्वर्नयेत्पितॄन् ।।
शिलाया दक्षिणे हस्ते भस्मकूटमधारयत् ।। ४७-५७ ।।
धर्म्मोऽस्तत्र च हरस्तन्नाम समकारयत् ।।
यत्रासौ भस्मकूटाद्रिर्भस्मनामा तु मोहिनि ।। ४७-५८ ।।
वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः ।।
तदग्रे रुक्मिणीकुंडं पश्चिमे कपिला नदी ।। ४७-५९ ।।
कपिलेशो नदीतीरे उमासोमसमागमः ।।
कपिलायां नरः स्नात्वा कपिलेशं नमेद्यजेत् ।। ४७-६० ।।
श्राद्धदः स्वर्गभागी स्यान्महेशीकुंड एव च ।।
गौरी च मंगला तत्र सर्वसौभाग्यदार्चिता ।। ४७-६१ ।।
जनार्दनो भस्मकूटे तस्य हस्ते तु पिंडदः ।।
मंत्रेण चात्मनोऽन्येषां सव्येनापि तिलैर्विना ।। ४७-६२ ।।
पिंडं च दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ।।
"एष पिंडो मया दत्तस्तवहस्ते जनार्दन ।। ४७-६३ ।।
गयाश्राद्धे त्वया देयो मह्यं पिण्डो मृते मयि ।।
तुभ्यं पिंडो मया दतो यमुद्दिश्य जनार्दन ।। ४७-६४ ।।
देहि देव गयाशीर्षे तस्मै तस्मै मृते ततः ।।
जनार्दन नमस्तुभ्यं नमस्ते पितृरूपिणे ।। ४७-६५ ।।
पितृपात्र नमस्तुभ्यं नमस्ते मुक्तिहेतवे ।।
गयायां पितॄरूपेण स्वयमेव जनार्दनः ।। ४७-६६ ।।
तं दृष्ट्वा पुंडरींकाक्षं मुच्यते च ऋणत्रयात् ।।
नमस्ते पुंडरीकाक्षं ऋणत्रयविमोचन ।। ४७-६७ ।।
लक्ष्मीकांत नमस्तेऽस्तु नमस्ते पितृमोक्षद" ।।
पुण्डरीकाक्षमभ्यर्च्य स्वर्गंगः स्याज्जनार्दनम् ।। ४७-६८ ।।
वामजानुं तु संपात्य नत्वा भूमिं जनार्दनम् ।।
श्राद्धं सपिंडकं कृत्वा भ्रातृभिर्विष्णुलोकभाक् ।। ४७-६९ ।।
शिलाया वामपादे तु प्रेतकूटो गिरीर्धृतः ।।
धर्मराजेन पापढ्यो गिरिः प्रेतशिलामयः ।। ४७-७० ।।
पादेन द्वरे निक्षिप्तः शिलायाः पादभारतः ।।
प्रेता धानुष्करूपेण करग्रहण कारकाः ।। ४७-७१ ।।
पृथक् स्थिताश्च बहवो विघ्नकारिण एव ते ।।
श्राद्धादिकारीणं नॄणां तीर्थे पितृविमुक्तये ।। ४७-७२ ।।
गतः शिलाद्रिसंपर्कात्प्रेतकूटः पवित्रताम् ।।
प्रेतकुंडं तु तत्रास्ते देवास्तत्र पदैः स्थिताः ।। ४७-७३ ।।
श्राद्धपिंडादिकृत्स्नातः प्रेतत्वान्मोचयेत्पितॄन् ।।
कीकटेषु गया पुण्या पुण्यं राज गृहं वनम् ।। ४७-७४ ।।
च्यवनस्याश्रमः पुण्यो नदी पुण्या पुनः पुना ।।
वैकुंठो लोहदंडश्च गिरिकूटश्च शोणगः ।। ४७-७५ ।।
श्राद्धपिंडादिकृत्तत्र पितॄन्ब्रह्मपुरं नयेत् ।।
शिलादक्षिणपादे तु गृध्रकूटो गिरिर्धृतः ।। ४७-७६ ।।
धर्मराजेन स्वस्थैर्यकरणायाशु पावनः ।।
गृध्ररूपेण संसिद्धास्तपः कृत्वा महर्षयः ।। ४७-७७ ।।
अतो गिरिर्गृध्रकूडस्तत्र गृध्रेश्वरः शिवः ।।
दृष्ट्वा गृध्रेश्वरं स्नात्वा याति शंभोः पुरं नरः ।। ४७-७८ ।।
तत्र गृध्रपुरं गत्वा प्राप्तकालो दिवं व्रजेत् ।।
ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् ।। ४७-७९ ।।
आदिप्रादेन गिरिणा समाक्रांतं शिलोदकम् ।।
तत्रास्ते गजरूपेण विघ्नेशो विध्ननाशनः ।। ४७-८० ।।
तं दृष्ट्वा मुच्यते विघ्नैः पितॄञ्छिवपुरं नयेत् ।।
गायत्रीं च गयादित्यं स्नातो दृष्ट्वा दिवं व्रजेत् ।। ४७-८१ ।।
ब्रह्माणं चादिपादस्थं दृष्ट्वा स्यात्पितृतारकः ।।
नाभौ च पिंडदो यस्तु पितॄन्ब्रह्मपुरं नयेत् ।। ४७-८२ ।।
शोभार्थे मुण्डपृष्ठस्य अरविन्दवरं त्वभूत् ।।
मुंडपृष्ठारविंदे च दृष्ट्वा पापैर्विमुच्यते ।। ४७-८३ ।।
श्रृंगिभिर्दंष्ट्रिभिर्व्यालैर्विषवह्निस्त्रिया जलैः ।।
सुदूरात्परिहर्तव्यः कुर्वन् क्रीडां मृतस्तु यः ।। ४७-८४ ।।
नागानां विप्रियं कृर्वन्हतश्चाप्यथ विद्युता ।।
निगृहीतः स्वयं राज्ञा चौर्यदोषेण च क्वचित् ।। ४७-८५ ।।
परदारा न्रमंतश्च द्वेषात्तत्पतिभिर्हताः ।।
असमानैश्च संकीर्णैश्चांडालाद्यैश्च विग्रहम् ।। ४७-८६ ।।
कृत्वा तैर्निहतास्तांश्च चांडालादीन्समाश्रिताः ।।
गवाग्निविषदाश्चैव पाखंडाः क्रूरबुद्धयः ।। ४७-८७ ।।
क्रोधात्प्रायं विषं वह्निं शस्त्रमुद्बंधनं जलम् ।।
गिरिवृक्षात्प्रपातं च ये कुर्वंति नराधमाः ।। ४७-८८ ।।
कुशिल्पजीविनो ये च पञ्चसूनाधिकारिणः ।।
मखे सभासु ये केचिद्दीनप्राया नपुंसकाः ।। ४७-८९ ।।
ब्रह्मदंडहता ये तु ये चापि ब्राह्मणैर्हताः ।।
महापातकिनो ये च पतितास्ते प्रकीर्तिताः ।। ४७-९० ।।
स्नानेन शुद्धिमायांति गयाकूपस्य भस्मना ।।
इति ते कथितं देवि गयामाहात्म्यमुत्तमम् ।। ४७-९१ ।।
सर्वपापप्रशमनं पितॄणां मुक्तिदायकम् ।।
यः श्रृणोति नरो भक्त्या श्राद्धे पर्वणि वान्वहम् ।। ४७-९२ ।।
श्रावयेद्वावरारोहे सोऽपि स्याद्ब्रह्मलोकभाक् ।।
इदं स्वस्त्ययनं पुण्यं धन्यं स्वर्गतिदंनृणाम् ।। ४७-९३ ।।
यशस्यमपि चायुष्यं पुत्रपौत्रविवर्द्धनम् ।। ४७-९४ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्यं नाम सप्तचत्वारिंशत्तमोऽध्यायः ।। ४७ ।।