नारदपुराणम्- उत्तरार्धः/अध्यायः ३१
वसिष्ठ उवाच ॥
तच्छ्रुत्वा वचनं तस्याः काष्ठीलायाः शुचिस्मिते ॥
सन्ध्यावली नाम भृशं तामुवाच ह सादरम् ॥ ३१-१ ॥
त्वद्वाक्याद्विस्मयो जातः काष्ठीले सांप्रतं मम ॥
कथं दृष्टा मया त्वं च यास्यंती कुत्सितां गतिम् ॥ ३१-२ ॥
कर्मणा केन ते मुक्तिर्भवेत्कुत्सितयोनितः ॥
तन्मे वद विशालांगे त्वां दृष्ट्वा दुःखिता ह्यहम् ॥ ३१-३ ॥
मांसपिंडोपमं श्लक्ष्णं नवनीतोपमं शुभे ॥
शरीरं तव संवीक्ष्य तया मे जायते हृदि ॥ ३१-४ ॥
काष्ठीलोवाच ॥
पृथिवीं दास्यसे सुभ्रु सकलामपि मत्कृते ॥
तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः ॥ ३१-५ ॥
येन पुण्येन सुभगे मुच्येयं कर्मबन्धनात् ॥
तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय ॥ ३१-६ ॥
यश्चायं माघमासस्तु सर्वमासोत्तमः स्मृतः ॥
यस्मिन् क्रोंशति पापानि ब्रह्महत्यादिकानि च ॥ ३१-७ ॥
दुर्लभो माघमासो वै दुर्ल्लभं जन्म मानुषम् ॥
दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम् ॥ ३१-८ ॥
दुर्लभो वासरो विष्णोर्विधिना समुपोषितः ॥
देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले ॥ ३१-९ ॥
तस्माज्जलं माघमासे पावनं हि विशेषतः ॥
नेदृशी संगरे शूरैर्गतिः प्राप्येत सौख्यदा ॥ ३१-१० ॥
यादृशी प्लवने प्रातः प्राप्यते नियमस्थितैः ॥
सरित्तडागवापीषु स्नाने सत्तममीरितम् ॥ ३१-११ ॥
कूपभांडजलैर्मध्यं जघन्यं वह्नितापितैः ॥
न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत् ॥ ३१-१२ ॥
धर्म्मसेवार्थकं स्नानं नांगनैर्मल्यहेतुकम् ॥
होमार्थं सेवनं वह्नेर्न च शीतादिहानये ॥ ३१-१३ ॥
यावन्नोदयते सूर्यस्तावत्स्नानं विधीयते ॥
आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत् ॥ ३१-१४ ॥
अभावे सरिदादीनां नवकुंभस्थितं जलम् ॥
वायुना ताडितं रात्रौ स्नाने गंगासमं विदुः ॥ ३१-१५ ॥
माघस्नायी वरारोहे दुर्गतिं नैव पश्यति ॥
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत् ॥ ३१-१६ ॥
अग्निप्रवेशादधिकं माघोषस्येव मज्जनम् ॥
जीवता भुज्यते दुःखं मृतेन बहुलं सुखम् ॥ ३१-१७ ॥
एतस्मात्कारणाद्भद्रे माघस्नानं विशिष्यते ॥
अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः ॥ ३१-१८ ॥
मेघपुंष्पोपपन्नेन सहान्नेन सुमध्यमे ॥
यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः ॥ ३१-१९ ॥
माध्यां स्नानसमाप्तै तु दद्याद्विप्राय षड्रसम् ॥
सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः ॥ ३१-२० ॥
वासांसि द्विजयुग्माय स सप्तान्नानि चार्पयेत् ॥
त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः ॥ ३१-२१ ॥
भागास्त्रयस्तिलानां तु चतुर्थः शर्करांशकः ॥
तांबूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित् ॥ ३१-२२ ॥
स्रोतोमुखः सरिति चान्यत्र भास्करसंमुखः ॥
स्नायादावाह्य तीर्थानि गंगादीन्य कर्मण्डलात् ॥ ३१-२३ ॥
यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम् ॥
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा ॥ ३१-२४ ॥
दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते ॥
परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत ॥ ३१-२५ ॥
तीर्थस्नायी वरारोहे माघस्नायी फलाल्पकः ॥
तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम् ॥ ३१-२६ ॥
माघस्य धवले पक्षे भवेदेकादशी तु या ॥
रविवारेण संयुक्ता महापातकनाशिनी ॥ ३१-२७ ॥
विनापि ऋक्षसंयोगं सा शुक्लैकादशी नृणाम् ॥
विनिर्दहति पापानि कुनृपो विषयं यथा ॥ ३१-२८ ॥
कुपुत्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा ॥
अधर्मस्तु यथा धर्मं कुमंत्री नृपतिं यथा ॥ ३१-२९ ॥
अज्ञानं च यथा ज्ञानं कुशौचं शुचितां यथा ॥
यथा हंत्यनृतं सत्यं वादस्संवादमेव च ॥ ३१-३० ॥
उष्णं हिममनर्थोऽर्थं पापं कीर्तिं स्मयस्तपः ॥
यथा रसा महारोगाञ्छ्राद्धं संकेत एव च ॥ ३१-३१ ॥
तथा दुरितसंघं तु द्वादशी हंति साधिता ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥ ३१-३२ ॥
महान्ति पातकान्येतान्याशु हन्ति हरेर्दिनम् ॥
समवेतानि चैतानि न शामयति पुष्करम् ॥ ३१-३३ ॥
न चापि नैमिषारण्यं न क्षेत्रं कुरुसंज्ञितम् ॥
प्रभासो न गया देवि न रेवा न सरस्वती ॥ ३१-३४ ॥
न गगा यमुना चैव प्रयागो न च देवका ॥
न सरांसि नदाश्चान्ये होमदानतपांसि च ॥ ३१-३५ ॥
न चान्यत्सुकृतं सुभ्रु पुराणे पठ्यते स्फुटम् ॥
पापसंघविनाशाय मुक्त्वैकं हरिवासरम् ॥ ३१-३६ ॥
उपोषणात्सकृद्देवि विनश्यंत्यघराशयः ॥
एकतः पृथिवीदानमेकतो हरिवासरम् ॥ ३१-३७ ॥
न समं ब्रह्मणा प्रोक्तमधिकं हरिवासरम् ॥
तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम् ॥ ३१-३८ ॥
घटोपरि नवे पात्रे धृत्वा ताम्रमये शुभे ॥
सर्वबीजान्विते चैव सितवस्त्रावगुंठिते ॥ ३१-३९ ॥
सहिरण्ये सुदीपाढ्ये कृतपुष्पावतंसके ॥
विधिना पूजयित्वा चकुर्याज्जागरणं व्रती ॥ ३१-४० ॥
प्रातर्विप्राय दद्याच्च वैष्णवाय कुटुंबिने ॥
तत्कुंभक्रोडसंयुक्तं सनैवेद्यपरिच्छदम् ॥ ३१-४१ ॥
पश्चाच्च पारणं कुर्याद्द्विजान्भोज्य सुहृद्वृतः ॥
एवं कृते वरारोहे न भूयो जायते क्वचित् ॥ ३१-४२ ॥
बहुजन्मार्ज्जितं पापं ज्ञानाज्ञानकृतं च यत् ॥
तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥ ३१-४३ ॥
यथाशास्त्रं मया तुभ्यं वर्णिता द्वादशी शुभे ॥
या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि ॥ ३१-४४ ॥
यस्यास्तवातुला पुष्टिर्वर्तते वर्तयिष्यति ॥
भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी ॥ ३१-४५ ॥
तस्यास्त्वया तुरीयांशो देयश्चेन्मह्यमादरात् ॥
तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम् ॥ ३१-४६ ॥
वित्ताह्रुतिजं पापं यद्भूतं मम सुंदरि ॥
तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे ॥ ३१-४७ ॥
जीवितेनापि वित्तेन भर्तारं वंचयेत्तु या ॥
कृमियोनिशतं गत्वा पुल्कसी जायते तु सा ॥ ३१-४८ ॥
सुरतं याचमानाय पत्ये वित्तं च मानिनि ॥
या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम् ॥ ३१-४९ ॥
तत्पातकविशुद्ध्यर्थं देहि मे द्वादशीभवम् ॥
तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा ॥ ३१-५० ॥
एतच्छ्रुत्वा वचस्तस्याः काष्ठीलायाः सुलोचने ॥
पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च ॥ ३१-५१ ॥
यत्कृतं हि मया पूर्वमेकादश्यामुपोषणम् ॥
तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम् ॥ ३१-५२ ॥
पूर्वजन्मकृतात्पापात्सत्यं सत्यं मयोदितम् ॥
एवमुक्ते तु वचने मया विद्युत्समप्रभा ॥ ३१-५३ ॥
दृष्टा दिव्यविमानस्था गच्छंती वैष्णवं पदम् ॥
पतिर्हि दैवतं लोके वंचनीयो न भार्यया ॥ ३१-५४ ॥
देहेन चापि वित्तेन यदीच्छेच्छोभनां गतिम् ॥
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ॥ ३१-५५ ॥
वित्तं देहं तथा पुत्रं यच्चान्यद्वा वरानने ॥
किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना ॥ ३१-५६ ॥
तस्यार्थे वा त्यजेद्वित्तं जीवितं वा सुलोचने ॥
कल्पकोटिशतं साग्रं विष्णुलोके महीयते ॥ ३१-५७ ॥
अग्न्यादिसाक्ष्ये वृतमीक्ष्य निष्ठुरा युक्तं सुधोरैर्व्यसनैर्द्विजात्मजा ॥
पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा ॥ ३१-५८ ॥
एतन्मया दुष्टमनंगयष्टि कौमारभावे पितृवेश्मवासे ॥
ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु ॥ ३१-५९ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने माघमाहात्म्यं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥