पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००१
पद्मपुराणम्/खण्डः ५ (पातालखण्डः) अध्यायः ००१ [[लेखकः :|]] |
अध्यायः ००२ → |
पद्मपुराणम्/खण्डः ५ |
---|
श्रीगणेशाय नमः।
श्रीकुलदेवतायै नमः।
श्रीगुरुचरणारविंदाभ्यां नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवींसरस्वतीं व्यासं ततो जयमुदीरयेत् १।
ऋषय ऊचुः।
श्रुतं सर्वं महाभाग स्वर्गखंडं मनोहरम् ।
त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः २।
सूत उवाच।
अथैकदा धराधारं पृष्टवान्भुजगेश्वरम् ।
वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम् ३।
श्रीवात्स्यायन उवाच।
शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः ।
भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः ४।
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः ।
नानाराजचरित्राणि कथितानि त्वयानघ ५।
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम् ।
तत्रानेकमहापापहरा रामकृता कथा ६।
तस्य वीरस्य रामस्य हयमेधकथा श्रुता ।
संक्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम् ७।
या श्रुता संस्मृता चोक्ता महापातकहारिणी ।
चिंतितार्थप्रदात्री च भक्तचित्तप्रतोषदा ८।
शेष उवाच।
धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी ।
रघुवीरपदद्वंद्व मकरंद स्पृहावती ९।
वदंति मुनयः सर्वे साधूनां संगमं वरम् ।
यस्मात्पापक्षयकरी रघुनाथकथा भवेत् १०।
त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः ।
सुरासुरकिरीटौघ मणिनीराजितांघ्रिकः ११।
रावणारिकथा वार्द्धौ मशको मादृशः कियान् ।
यत्र ब्रह्मादयो देवा मोहिता न विदंत्यपि १२।
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः ।
पक्षिणः स्वगतिं श्रित्वा खे गच्छंति सुविस्तरे १३।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
येषां वै यादृशी बुद्धिस्ते वदंत्येव तादृशम् १४।
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम् ।
करिष्यति स्वसंपर्कात्कनकं त्वनलो यथा १५।
सूत उवाच।
इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः ।
ज्ञानेनालोकयांचक्रे कथां लोकोत्तरां शुभाम् १६।
गद्गदस्वरसंयुक्तो महाहर्षांकितांगकः ।
कथयामास विशदां कथां दाशरथेः पुनः १७।
शेष उवाच।
लंकेश्वरे विनिहते देवदानवदुःखदे ।
अप्सरोगणवक्त्राब्जचंद्रमः कांतिहर्तरि १८।
सुराः सर्वे सुखं प्रापुरिंद्र प्रभृतयस्तदा ।
सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः १९।
लंकायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम् ।
सीतयासहितो रामः पुष्पकं समुपाश्रितः २०।
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा ।
बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः २१।
लंकां स पश्यन्बहुधा भग्नप्राकारतोरणाम् ।
दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह २२।
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान् ।
राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात् २३।
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति ।
ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः २४।
देवदुंदुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान् ।
तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः २५।
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवंति च ।
मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः २६।
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता ।
तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः २७।
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम् ।
तस्याः पुनः समीपे तु नंदिग्रामं ददर्श ह २८।
यत्र वै भरतो राजा पालयन्धर्ममास्थितः ।
भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु २९।
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः ।
कृशांगयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः ३०।
यवान्नमपि नो भुंक्ते जलं पिबति नो मुहुः ।
उद्यंतं सवितारं यो नमस्कृत्य ब्रवीति च ३१।
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत् ।
मदर्थे रामचंद्रोऽपि जगत्पूज्यो वनं ययौ ३२।
सीतया सुकुमारांग्या सेव्यमानोऽटवीं गतः ।
या सीता पुष्पपर्यंके वृंतमासाद्य दुःखिता ३३।
या सीता रविसंतापं कदापि प्राप नो सती ।
मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो ३४।
या सीता राजवृंदैश्च न दृष्टा नयनैः कदा ।
सा सीता दृश्यते नूनं किरातैः कालरूपिभिः ३५।
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति ।
सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो ३६।
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः ।
प्रातःप्रातर्महाराजो भरतो रामवल्लभः ३७।
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः ।
नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः ३८।
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम् ।
मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति ३९।
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात् ।
करोमि रामचंद्रांघ्रिं स्मारं स्मारं सुमंत्रिणः ४०।
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया ।
यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम् ४१।
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः ।
विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह ४२।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य भरतावासनंदिग्रामदर्शनोनाम प्रथमोऽध्यायः १।