पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४५ पद्मपुराणम्
अध्यायः ०४६
वेदव्यासः
अध्यायः ०४७ →

शेष उवाच
आगतं वीक्ष्य श्रीरामं शत्रुघ्नः प्रणतार्तिहम्
भ्रातरं सकलाद्दुःखान्मुक्तोऽभूद्द्विजसत्तम १
हनूमान्वीक्ष्य विभ्रांतो रामस्य चरणौ मुदा
ववंदे भक्तरक्षार्थमागतं निजगाद च २
स्वामिंस्तवैतद्युक्तं तु स्वभक्तपरिपालनम्
यत्संग्रामे जितं सर्वं पाशबद्धममोचयः ३
वयं त्विदानीं धन्या वै यद्द्रक्ष्यामो भवत्पदे
जेष्यामोऽरीन्क्षणादेव त्वत्कृपातो रघूद्वह ४
शेष उवाच
स्थाणुस्तदागतं रामं योगिनां ध्यानगोचरम्
पतित्वा पादयोर्विप्र जगाद प्रणताभयम् ५
एकस्त्वं पुरुषः साक्षात्प्रकृतेः पर ईर्यसे
यः स्वांशकलया विश्वं सृजस्यवसि हंसि च ६
अरूपस्त्वमशेषस्य जगतः कारणं परम्
एक एव त्रिधारूपं गृह्णासि कुहकान्वितः ७
सृष्टौ विधातृरूपेण पालने स्वयमास च
प्रलये जगतः साक्षादहं शर्वाख्यतां गतः ८
तव यत्परमेशस्य हयमेधक्रतुक्रिया
ब्रह्महत्यापनोदाय तद्विडंबनमद्भुतम् ९
यत्पादशौचममलं गंगाख्यं शिरसोंऽतरा
वहामि पापशांत्यर्थं तस्य ते पातकं कुतः १०
मया बह्वपकाराय कृतं कर्म तव स्फुटम्
क्षम्यतां तत्कृपालो हि भवतो व्यवधायकम् ११
किं करोमि मया सत्यपालनार्थमिदं कृतम्
जानन्प्रभावं भवतो भक्तरक्षार्थमागतः १२
असौ पुरा उज्जयिन्यां महाकालनिकेतने
स्नात्वा शिप्राख्य सरिति तपस्तेपे महाद्भुतम् १३
ततः प्रसन्नो जातोऽहं जगाद भूमिपं प्रति
याचस्वेति महाराज स वव्रे राज्यमद्भुतम् १४
मया प्रोक्तं देवपुरे तव राज्यं भविष्यति
यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः १५
तावत्प्रभृत्यहं स्थास्ये तव रक्षार्थमुद्यतः
एतद्दत्तवरो राम किं करोमि स्वसत्यतः १६
घृणितोऽस्म्यधुना राज्ञा सपुत्रपशुबांधवः
हयं समर्प्यते पादसेवां राजा विधास्यति १७
शेष उवाच
इति वाक्यं समाकर्ण्य महेशस्य रघूत्तमः
उवाच धीरया वाचा कृपया पूर्णलोचनः १८
राम उवाच
देवानामयमेवास्ति धर्मो भक्तस्य पालनम्
त्वया साधुकृतं कर्म यद्भक्तो रक्षितोऽधुना १९
ममासि हृदये शर्व भवतो हृदये त्वहम्
आवयोरंतरं नास्ति मूढाः पश्यंति दुर्धियः २०
ये भेदं विदधत्यद्धा आवयोरेकरूपयोः
कुंभीपाकेषु पच्यंते नराः कल्पसहस्रकम् २१
ये त्वद्भक्तास्त एवासन्मद्भक्ता धर्मसंयुताः
मद्भक्ता अपि भूयस्या भक्त्या तव नतिंकराः २२
शेष उवाच
इत्थं भाषितमाकर्ण्य शर्वो वीरमणिं नृपम्
मूर्च्छितं जीवयामास करस्पर्शादिना प्रभुः २३
अन्यानपि सुतानस्य मूर्च्छिताञ्छरपीडितान्
जीवयामास स मृडः समर्थः प्रभुरीश्वरः २४
सज्जं विधाय तं भूपं श्रीरामपदयोर्नतिम्
कारयामास भूतेशः पुत्रपौत्रैः परीवृतम् २५
धन्यो राजा वीरमणिर्यो ददर्श रघूत्तमम्
योगिभिर्योगनिष्ठाभिर्दुष्प्रापमयुतायुतैः २६
ते नत्वा रघुनाथं तं कृतार्थी कृतविग्रहाः
ब्रह्मादिभिः पूज्यतमा अभूवन्द्विजसत्तम २७
शत्रुघ्न हनुमद्भ्यां च पुष्कलादिभिरुद्भटैः
परिष्टुताय रामाय ददौ राजा हयोत्तमम् २८
राज्येन सहितं सर्वं सपुत्रपशुबांधवम्
शर्वेण प्रेरितः प्रादाद्भूपो वीरमणिस्तदा २९
ततो रामो नुतः सर्वैर्वैरिभिर्निजसेवकैः
शत्रुघ्नादिभिरत्यंतमुत्सुकैश्च विशेषतः ३०
रथे मणिमये तिष्ठन्बभूव स तिरोहितः
अंतर्हिते रामभद्रे सर्वे प्रापुः सुविस्मयम् ३१
मा जानीहि मनुष्यं तं रामं लोकैकवंदितम्
जले स्थले च सर्वत्र वर्तते संस्थितः सदा ३२
ततो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे
तूर्यमंगलवादित्रैः सुमहानुत्सवोऽभवत् ३३
ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदैः
सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः ३४
शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम्
श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्ल्लभम् ३५
स्वयमंतर्हितस्तत्र प्रलयोत्पत्तिकारकः
कैलासमगमच्छर्वः सेवकैः परिशोभितः ३६
भूपो वीरमणिर्ध्यायञ्छ्रीरामचरणोदजम्
शत्रुघ्नेन ययौ साकं बलिना बलसंयुतः ३७
एतद्रामस्य चरितं ये शृण्वंति नरोत्तमाः
तेषां संसारजं दुःखं न भविष्यति कर्हिचित् ३८
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
हयप्रस्थानंनाम षट्चत्वारिंशत्तमोऽध्यायः ४६