पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४७

विकिस्रोतः तः
← अध्यायः ०४६ पद्मपुराणम्
अध्यायः ०४७
वेदव्यासः
अध्यायः ०४८ →

शेष उवाच।
हयो गतो हेमकूटं भारतांते ततो द्विज ।
अनेकभटसाहस्रै रक्षितो बद्धचामरः १।
यो वै विस्तरतो दैर्घ्याद्योजनानां समं ततः ।
अयुतेन सुशृङ्गैश्च राजतैः कांचनादिभिः २।
तत्रोद्यानं महच्छ्रेष्ठं पादपैः परिशोभितम् ।
शालैस्तालैस्तमालैश्च कर्णिकारैः समन्ततः ३।
हिंतालैर्नागपुन्नागैः कोविदारैः सबिल्वकैः ।
चम्पकैर्बकुलैर्मेघैर्मदनैः कुटजादिभिः ४।
जातिकाभिर्यूथिकाभिर्नवमालिकया तथा ।
आम्रैर्माधवद्राक्षाभिर्दाडिमैः शोभितं वनम् ५।
अनेकपक्षिसंघुष्टं भ्रमरैर्निनदीकृतम् ।
मयूरकेकारवितं सर्वर्तुसुखदं हयः ६।
प्रविवेश स शत्रुघ्नो मनोवेगसमन्वितः ।
स्वर्णपत्रं विशाले स्वे भाले बिभ्रन्मनोहरम् ७।
गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा ।
अकस्मादभवच्चित्रं तच्छृणुष्व द्विजोत्तम ८।
गात्रस्तंभोऽभवत्तस्य न चचाल पथिस्थितः ।
हेमकूटइवाचाल्यो बभूव हयसत्तमः ९।
तदा तद्रक्षकाः सर्वे कशाघातान्वितेनिरे ।
तदाहतेऽपि न ययौ स्तब्धगात्रो हयोत्तमः १०।
शत्रुघ्नं सविधे गत्वा चुक्रुशुर्वाहरक्षकाः ।
स्वामिन्वयं न जानीमः किमभूद्धयसत्तमे ११।
गच्छतो वाहवर्यस्य मनोवेगस्य भूपते ।
आकस्मिकोऽभवत्तस्य गात्रस्तंभो महामते १२।
कशाभिस्ताडितोऽस्माभिः परं तत्र चचाल न ।
एवं विचार्य यत्कर्म तत्कुरुष्व नृपोत्तम १३।
तदा विस्मयमापन्नो भूपतिः सह सैनिकैः ।
जगाम सहितः सर्वैर्हयस्य महतोऽन्तिके १४।
पुष्कलो बाहुना धृत्वा चरणौ तस्य भूतलात् ।
उत्पाटयामास तदा परं नो चेलतुस्ततः १५।
बलेन बलिनाक्रांतो नाकम्पत हयस्तदा ।
हनूमांस्तं समुद्धर्तुं मतिं चक्रे महामनाः १६।
लांगूलेन समावेष्ट्य बलेन बलिनां वरः ।
आचकर्ष बलाद्वाहं न चचाल तथापि सः १७।
तदोवाच कपिश्रेष्ठो हनूमान्विस्मयान्वितः ।
शत्रुघ्नं बलिनां श्रेष्ठं वीराणां परिशृण्वताम् १८।
मया द्रोणो लांगुलेन लीलयोत्पाटितोऽधुना ।
परमत्र महाश्चर्यं कम्पते न हयोऽल्पकः १९।
दृष्टमत्र निदानं हि वीरैर्बलिभिरुद्धतैः ।
आकृष्टोऽपि न च स्थानाच्चचाल तिलमात्रतः २०।
कपिभाषितमाकर्ण्य शत्रुघ्नो विस्मयान्वितः ।
सुमतिं मंत्रिणां श्रेष्ठमुवाच वदतां वरः २१।
शत्रुघ्न उवाच।
मंत्रिन्किमभवद्वाहे स्तंभनं वपुषोऽनघ ।
कोऽत्रोपायो विधेयः स्याद्येन वाहगतिर्भवेत् २२।
सुमतिरुवाच।
स्वामिन्कश्चिन्मुनिर्मृग्योऽखिलज्ञानविचक्षणः ।
देशोद्भवमहं जाने प्रत्यक्षं न परोक्षजम् २३।
शेष उवाच।
इति वाक्यं समाकर्ण्य सुमतेर्धर्मकोविदः ।
अन्वेषयामास मुनिं सेवकैः सह शोभनम् २४।
ते सर्वे सर्वतो गत्वा मुनिं धर्मविदं भटाः ।
व्यालोकयंतः सर्वत्र न चापश्यन्मुनीश्वरम् २५।
एकस्त्वनुचरो विप्र गतो योजनमात्रतः ।
पूर्वस्यां दिशि चोद्युक्तः पश्यति स्म महाश्रमम् २६।
यत्र निर्वैरिणः सर्वे पशवो जनतास्तथा ।
गंगास्नानहताशेषकिल्बिषाः सुमनोहराः २७।
यत्र केचित्तपः श्रेष्ठं कुर्वंति स्म हुताशनैः ।
धूमैरधोमुखाः पत्रैर्वायुभिः स्वोदरंभराः २८।
यत्राग्निहोत्रजो धूमः पवित्रयति सर्वदा ।
अनेकमुनिसंहृष्टो मुक्तपत्रलतोत्तमः २९।
तमाश्रमं मुनेर्ज्ञात्वा शौनकस्य मनोहरम् ।
न्यवेदयन्नृपायासौ विस्मयाविष्टचेतसे ३०।
तच्छ्रुत्वा हर्षितोऽत्यंतं शत्रुघ्नः सह सेवकैः ।
हनूमत्पुष्कलाद्यैश्च सयुतोऽगात्तदाश्रमम् ३१।
तत्र वीक्ष्य मुनिश्रेष्ठं सम्यग्घुतहुताशनम् ।
प्रणम्य दंडवत्तस्य चरणौ पापहारिणौ ३२।
तमागतं नृपं ज्ञात्वा शत्रुघ्नं बलिनां वरम् ।
अर्घ्यपाद्यादिकं चक्रे प्रीतस्तद्दर्शनादभूत् ३३।
सुखोपविष्टं विश्रान्तं नृपं प्राह मुनीश्वरः ।
किमर्थमटनं देव महत्पर्यटनं तव ३४।
त्वादृशाः पृथिवीं सर्वां नृपा वै न भ्रमंति चेत् ।
तदा दुष्टजनाः साधून्बाधंते विगतज्वरान् ३५।
कथयस्व महीपाल शत्रुघ्न बलिनां वर ।
सर्वं शुभायनो भूयात्तव पर्यटनादिकम् ३६।
शेष उवाच।
इत्युक्तवंतं भूदेवं प्रत्युवाच महीश्वरः ।
गद्गद स्वरया वाण्या हर्षित स्वीयविग्रहः ३७।
शत्रुघ्न उवाच।
अकस्मादभवच्चित्रं रामाश्वस्य मनोहृतः ।
नातिदूरे त्वदावासात्तच्छृणुष्व विदांवर ३८।
उद्याने तव शोभाढ्ये यदृच्छातो हयो गतः ।
तत्प्रांते तस्य वाहस्य गात्रस्तंभोऽभवत्क्षणात् ३९।
तदा मे बलिनो वीराः पुष्कलाद्या मदोत्कटाः ।
बलादाचकृषुर्वाहं न चचाल तथाप्यसौ ४०।
अस्मानपारदुःखाब्धौ मग्नान्प्रतितरिः स्मृतः ।
दैवाद्दृष्टः सुभाग्यैस्त्वं कथयस्व निदानकम् ४१।
शेष उवाच।
एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः ।
ततः कारणसंयुक्तं विचारेण दधद्धयम् ४२।
क्षणात्तज्ज्ञानतां प्राप्य विस्मयोत्फुल्ललोचनः ।
जगाद स महीपालं दुःखितं संशयान्वितम् ४३।
शौनक उवाच।
शृणु राजन्प्रवक्ष्यामि हयस्तंभस्य कारणम् ।
यच्छ्रुत्वा मुच्यते दुःखादतिचित्रकथानकम् ४४।
गौडदेशे महारण्ये कावेरीतीरभूषिते ।
वाडवः सात्वको नाम्ना चचार परमं तपः ४५।
एकाहं पयसः प्राशी दिनैकं वायुभक्षकः ।
दिनैकं तु निराहार एवं त्रिदिनमुन्नयेत् ४६।
एवं व्रते प्रवृत्तस्य कालः सर्वक्षयंकरः ।
जग्राह स्वस्य दंष्ट्रायां मृतिं प्राप महाव्रती ४७।
विमाने सर्वशोभाढ्ये सर्वरत्नविभूषिते ।
अप्सरोभिः सह क्रीडन्ययौ मेरोः शिखास्थितौ ४८।
जंबूनाममहावृक्षस्तत्र सेव्यरसोऽभवत् ।
नदी जांबवती संज्ञा स्वर्णद्रवसमन्विता ४९।
तस्यां मुनयइच्छाभिः क्रीडंते कुतुकान्विताः ।
अनेकतपसा पुण्याः सर्वसौख्यसमन्विताः ५०।
तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदान्वितः ।
प्रतीपमाचरत्तेषां स्वाभिमानमदोद्धतः ५१।
ततः शप्तः स मुनिभी राक्षसो भव दुर्मुखः ।
ततोऽतिदुःखितः प्राह मुनीन्विद्यातपोधनान् ५२।
अनुगृह्णंतु मां सर्वे विप्रा यूयं कृपालवः ।
तदा तैरनुगृहीतो यदा रामहयं भवान् ५३।
स्तंभयिष्यति वेगेन ततो रामकथाश्रुतिः ।
पश्चान्मुक्तिर्भवित्री ते शापादस्मात्सुदारुणात् ५४।
स प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो ।
स्तंभयामास रामाश्वं मोचयानघकीर्तनैः ५५।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शापकीर्तनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ४७ ।