सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४८

विकिस्रोतः तः
← अध्यायः ०४७ पद्मपुराणम्
अध्यायः ०४८
वेदव्यासः
अध्यायः ०४९ →

शेष उवाच।
इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा ।
विस्मयं मानयामास हृदि शौनकमब्रवीत् १।
शत्रुघ्न उवाच।
कर्मणो गहना वार्ता यया सात्वकनामधृत् ।
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः २।
स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा ।
येन कर्मविपाकेन यादृशं नरकं भवेत् ३।
शौनक उवाच।
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा ।
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ४।
कथयामि विचित्राणां कर्मणां विविधा गतीः ।
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ५।
परवित्तं परापत्यं कलत्रं पारकं च यः ।
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ६।
कालपाशेन संबद्धो यमदूतैर्महाबलैः ।
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ७।
तत्र ताडनमुद्धूताः कुर्वंति यमकिंकराः ।
पापभोगेन संतप्तस्ततो योनिं तु शौकरीम् ८।
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति ।
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ९।
भूतद्रोहं विधायैव केवलं स्वकुटुंबकम् ।
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् १०।
ये नरा इह जंतूनां वधं कुर्वंति वै मृषा ।
ते रौरवे निपात्यंते भिद्यंते रुरुभी रुषा ११।
यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम् ।
महारौरवसंज्ञे तु पात्यते स यमाज्ञया १२।
यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत् ।
कालसूत्रे महादुष्टे योजनायुतविस्तृते १३।
यावंति पशुरोमाणि गवां द्वेषं करोति यः ।
तावद्वर्षसहस्राणि पच्यते यमकिंकरैः १४।
यो भूमौ भूपतिर्भूत्वा दंडायोग्यं तु दंडयेत् ।
करोति ब्राह्मणस्यापि देहदंडं च लोलुपः १५।
स सूकरमुखैर्दुष्टैः पीड्यते यमकिंकरैः ।
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये १६।
ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम् ।
वृत्तिं वा गृह्णते मोहाल्लुंपंति स्वबलान्नराः १७।
ते परत्रांधकूपे च पात्यंते च महार्दिताः ।
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः १८।
न देवाय न सुहृदे ददाति रसनापरः ।
स पतत्येव नरके कृमिभोजनसंज्ञिते १९।
अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत् ।
ब्रह्मस्वं वा महादुष्टे संदंशे नरके पतेत् २०।
यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः ।
स पात्यते तैलतप्ते कुंभीपाकेऽतिदारुणे २१।
यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत् ।
तं तया किंकराः सूर्म्या परिरंभं च कुर्वते २२।
ये बलाद्वेदमर्यादां लुंपंति स्वबलोद्धताः ।
ते वैतरण्यां पतिता मांसशोणितभक्षकाः २३।
वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् ।
पूयोदे निपतत्येव महादुःखसमन्वितः २४।
ये दंभमाश्रयंते वै धूर्ता लोकस्य वंचने ।
वैशसे नरके मूढाः पतंति यमताडिताः २५।
ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययंति च ।
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः २६।
ये चौरा वह्निदा दुष्टा गरदा ग्रामलुंठकाः ।
सारमेयादने ते वै पात्यंते पातकान्विताः २७।
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसंभृतः ।
परकीयं तु द्रव्यं यो हरति प्रसभं बली २८।
सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः ।
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् २९।
यो नरो रसनास्वादात्सुरां पिबति मूढधीः ।
तं पाययंति लोहस्य रसं धर्मस्य किंकराः ३०।
यो गुरूनवमन्येत स्वविद्याचारदर्पितः ।
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ३१।
विश्वासघातं कुर्वंति ये नरा धर्मनिष्कृताः ।
शूलप्रोते च नरके पात्यंते बहुयातने ३२।
पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः ।
दंदशूके च पतितो दंदशूकैः स दश्यते ३३।
एवं राजन्ननेके वै नरकाः पापकारिणाम् ।
पापं कृत्वा प्रयांत्येते पीडां यांति सुदारुणाम् ३४।
यैर्न श्रुता रामकथा न परोपकृतिः कृता ।
तेषां सर्वाणि दुःखानि भवंति नरकांतरे ३५।
अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते ।
ये दुःखिनो रोगयुता नरकादागताश्च ते ३६।
शेष उवाच।
एतच्छ्रुत्वा महीपालः कंपमानः क्षणे क्षणे ।
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ३७।
तत्तत्पापस्य चिह्नानि कथयस्व महामुने ।
केन पापेन किं चिह्नं भूलोके उपजायते ३८।
इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम् ।
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ३९।
शौनक उवाच।
सुरापः श्यामदंतश्च नरकांते प्रजायते ।
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ४०।
उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः ।
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गंधिमान्भवेत् ४१।
अनिवेद्य सुरादिभ्यो भुंजानो जायते नरः ।
उदरे रोगवान्दुःखी महारोगप्रपीडितः ४२।
परान्नविघ्नकरणादजीर्णमभिजायते ।
मंदोदराग्निर्भवति सति द्रव्ये कदन्नदः ४३।
विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान् ।
पिशुनो नरकस्यांते जायते श्वासकासवान् ४४।
धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः ।
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ४५।
सुरालये जले वापि शकृत्क्षेपं करोति यः ।
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ४६।
गर्भपातनजा रोगाः क्षयमेहजलोदराः ।
प्रतिमा भंगकारी च अप्रतिष्ठश्च जायते ४७।
दुष्टवादी खंडितः स्यात्खल्वाटः परनिंदकः ।
सभायां पक्षपाती च जायते पक्षघातवान् ४८।
परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत् ।
तुंदीवरी ताम्रचौरः कांस्यहृत्पुंडरीकिकः ४९।
त्रपुहारी च पुरुषो जायते पिंगमूर्द्धजः ।
शीसहारी च पुरुषो जायते शीर्षरोगवान् ५०।
घृतचौरस्तु पुरुषो जायते नेत्ररोगवान् ।
लोहहारी च पुरुषो बर्बरांगः प्रजायते ५१।
चर्महारी च पुरुषो जायते मेदसा वृतः ।
मधुचौरस्तु पुरुषो जायते बस्तिगंधवान् ५२।
तैलचौर्येण भवति नरः कण्ड्वातिपीडितः ।
आमान्नहरणाच्चैव दंतहीनः प्रजायते ५३।
पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत् ।
मातृगामी च पुरुषो जायते लिंगवर्जितः ५४।
गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते ।
भगिनीं चैव गमने पीतकुष्ठः प्रजायते ५५।
स्वसुतागमने चैव रक्तकुष्ठः प्रजायते ।
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ५६।
स्वामिगम्यादिगमने जायते दद्रुमंडलम् ।
विश्वस्तभार्यागमने गजचर्मा प्रजायते ५७।
पितृष्वस्रभिगमने दक्षिणांगे व्रणी भवेत् ।
मातुलान्यास्तु गमने वामांगे व्रणवान्भवेत् ५८।
पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते ।
मित्रभार्याभिगमने मृतभार्यः प्रजायते ५९।
स्वगोत्रस्त्रीप्रसंगेन जायते च भगंदरः ।
तपस्विनीप्रसंगेन प्रमेहो जायते नरे ६०।
श्रोत्रियस्त्रीप्रसंगेन जायते नासिकाव्रणी ।
दीक्षितस्त्रीप्रसंगेन जायते दुष्टरक्तसृक् ६१।
स्वजातिजायागमने जायते हृदयव्रणी ।
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ६२।
पशुयोनौ च गमनान्मूत्रघातः प्रजायते ।
एते दोषा नराणां स्युर्नरकांते न संशयः ६३।
स्त्रीणामपि भवंत्येते तत्तत्पुरुषसंगमात् ।
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ६४।
दानपुण्यप्रसंगेन तीर्थादिक्रियया तथा ।
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ६५।
सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम् ।
क्षालयेत्पापिनां पंकं नात्र कार्या विचारणा ६६।
यो नावमन्येत हरिं तस्य यागाविधि श्रुताः ।
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ६७।
हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः ।
न तस्य नरकान्मुक्तिः कल्पांतेऽपि भविष्यति ६८।
या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह ।
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ६९।
शेष उवाच।
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा ।
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ७०।
तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः ।
उवाच रामचरितं महादुर्गतिनाशकम् ७१।
याहि देव विमानं स्वं रामकीर्तनपुण्यतः ।
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ७२।
इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः ।
तावद्ददर्श विमलं देवं वैमानिकं वरम् ७३।
स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः ।
यामि स्वं भवनं राजन्नाज्ञापय महामते ७४।
इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः ।
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ७५।
ततो वाहो विनिर्मुक्तो गात्रस्तंभाच्च भूतलात् ।
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ७६।
इति श्रीपद्मपुराणे पातालखंडे रामाश्वमेधे शेषवात्स्यायनसंवादे हयनिर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः ४८ ।