पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४९
← अध्यायः ०४८ | पद्मपुराणम् अध्यायः ०४९ वेदव्यासः |
अध्यायः ०५० → |
शेष उवाच।
मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया ।
चरतो भारतं वर्षमनेकनृपपूरितम् १।
स पूजितो भूपवरैः परीत्य वरभारतम् ।
परीवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः २।
स बभ्राम बहून्देशान्हिमालयसमीपतः ।
न कोपि तं निजग्राह हयं रामबलं स्मरन् ३।
अंगवंगकलिंगानां राजभिः संस्तुतो हयः ।
जगाम राज्ञो नगरे सुरथस्य मनोहरे ४।
कुंडलं नाम नगरमदितेर्यत्र कुंडलम् ।
कर्णयोः पतितं भूमौ हर्षभयसुकंपयोः ५।
यत्र धर्मव्यतिक्रांतिं न करोति कदापिना ।
श्रीरामस्मरणं प्रेम्णा करोति जनतान्वहम् ६।
अश्वत्थानां तु यत्रार्चा तुलस्याः प्रत्यहं नृभिः ।
क्रियते रघुनाथस्य सेवकैः पापवर्जितैः ७।
यत्र देवालया रम्या राघवप्रतिमायुताः ।
पूज्यंते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः ८।
वाचि नाम हरेर्यत्र न वै कलहसंकथा ।
हृदि ध्यानं तु तस्यैव न च कामफलस्मृतिः ९।
देवनं यत्र रामस्य वार्त्ताभिः पूतदेहिनाम् ।
न जातुचिन्नृणामस्ति सत्यव्यसनमानिनाम् १०।
तस्मिन्वसति धर्मात्मा सुरथः सत्यवान्बली ।
रघुनाथपदस्मारहृष्टचित्तः परोन्मदः ११।
किं वर्णयामि रामस्य सेवकं सुरथं वरम् ।
यस्याशेषगुणा भूमौ विस्तृताः पावयंत्यघम् १२।
सेवकास्तस्य भूपस्य पर्यटंतः कदाचन ।
अपश्यन्हयमेधस्य हयं चंदनचर्चितम् १३।
ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन् ।
स्पष्टाक्षरसमायुक्तं चंदनादिकचर्चितम् १४।
ज्ञात्वा रामेण संमुक्तं हयं नेत्रमनोहरम् ।
हृष्टा राज्ञे सभास्थाय कथयामासुरुत्सुकाः १५।
स्वामिन्नयोध्यानगरीपतिस्तस्यास्तु राघवः ।
हयमेधक्रतोर्योग्यो हयो मुक्तः परिभ्रमन् १६।
स ते पुरस्य निकटे प्राप्तः सेवकसंयुतः ।
गृहाण त्वं महाराज हयं तं सुमनोहरम् १७।
शेष उवाच।
इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः ।
उवाच वीरान्बलिनो मेघगंभीरया गिरा १८।
सुरथ उवाच।
धन्या वयं राममुखं पश्यामः सह सेवकाः ।
ग्रहीष्यामि हयं तस्य भटकोटिपरीवृतम् १९।
तदा मोक्ष्यामि वाहं तं यदा रामः समाव्रजेत् ।
कृतार्थं मम भक्तस्य चिरं ध्यानरतस्य वै २०।
शेष उवाच।
इत्थमुक्त्वा महीपालः सेवकान्स्वयमादिशत् ।
गृह्णंतु वाहं प्रसभं मोच्यो नाश्वोऽक्षिगोचरः २१।
अनेन सुमहाँल्लाभो भविष्यति तु मे मतम् ।
यद्रामचरणौ प्रेक्षे ब्रह्मशक्रादिदुर्ल्लभौ २२।
स एव धन्यः स्वजनः पुत्रो वा बांधवोऽथवा ।
पशुर्वा वाहनं वापि रामाप्तिर्येन संभवेत् २३।
तस्माद्गृहीत्वा क्रत्वश्वं स्वर्णपत्रेण शोभितम् ।
बध्नंतु वाजिशालायां कामवेगं मनोरमम् २४।
इत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभितम् ।
गृहीत्वा तरसा राज्ञे ददुः सर्वं शुभांगिनम् २५।
राजा प्राप्य मुदा चाश्वं रामस्य दनुजार्दनः ।
सेवकान्प्राह बलिनो धर्मकृत्यविचक्षणः २६।
वात्स्यायन महाबुद्धे शृणुष्वैकाग्रमानसः ।
न तस्य विषये कश्चित्परदाररतो नरः २७।
न परद्रव्यनिरतो न च कामेषु लंपटः ।
न जिह्वाभिरतोन्मार्गे कीर्त्तयेद्रामकीर्तनात् २८।
यः सेवकान्नृपो वक्ति यूयं सेवार्थमागताः ।
कथयंतु भवच्चेष्टां धर्मकर्मविशारदाः २९।
एकपत्नीव्रतधरा न परद्रव्यलोलुपाः ।
परापवादानिरता न च वेदोत्पथं गताः ३०।
श्रीरामस्मरणादीनि कुर्वंति प्रत्यहं भटाः ।
तानहं रामसेवार्थं रक्षाम्यंतक कोपवान् ३१।
एतद्विरुद्धधर्माणो ये नराः पापसंयुताः ।
तानहं विषये मह्यं वासयामि न दुर्मतीन् ३२।
तस्य देशे न पापिष्ठाः पापं कुर्वंति मानसे ।
हरिध्यानहताशेष पातकामोदसंयुताः ३३।
यदैवमभवद्देशो राजा धर्मेण संयुतः ।
तदा तत्स्था नराः सर्वे मृता गच्छंति निर्वृतिम् ३४।
यमानुचरनिर्वेशो नाभवत्सौरथे पुरे ।
तदा यमो मुनेरूपं धृत्वा प्रागान्महीश्वरम् ३५।
वल्कलांबरधारी च जटाशोभितशीर्षकः ।
सुरथं तु सभामध्ये ददर्श हरिसेवकम् ३६।
तुलसीमस्तके यस्य वाचि नाम हरेः परम् ।
धर्मकर्मरतां वार्त्तां श्रावयंतं निजाञ्जनान् ३७।
तदा मुनिं नृपो दृष्ट्वा तपोमूर्तिमिव स्थितम् ।
ववंदे चरणौ तस्य पाद्यादिकमथाकरोत् ३८।
सुखोपविष्टं विश्रांतं मुनिं प्राह नृपाग्रणीः ।
धन्यमद्य जनुर्मह्यं धन्यमद्य गृहं मम ३९।
कथाः कथयतान्मह्यं रामस्य विविधा वराः ।
याः शृण्वतां पापहानिर्भविष्यति पदे पदे ४०।
इत्थमुक्तं समाकर्ण्य जहास स मुनिर्भृशम् ।
दंतान्प्रदर्शयन्सर्वांस्तालास्फालितपाणिकः ४१।
हसंतं तं मुनिं प्राह हसने कारणं किमु ।
कथयस्व प्रसादेन यथा स्यान्मनसः सुखम् ४२।
ततो मुनिर्नृपं प्राह शृणु राजन्धियायुतः ।
यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम् ४३।
त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रतः ।
को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः ४४।
कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत् ।
कर्मणैव भवेत्सर्वं पुत्रपौत्रादिकं बहु ४५।
शक्रः शतं क्रतूनां तु कृत्वागात्परमं पदम् ।
ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम् ४६।
अनेके कर्मणा सिद्धा मरुदादय ईशिनः ।
कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः ४७।
तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः ।
यथा ते विमलाकीर्तिर्भविष्यति महीतले ४८।
इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः ।
उवाच रामैकमना विप्रं कर्मविशारदम् ४९।
मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनीम् ।
गच्छ मन्नगरोपांताद्बहिर्लोकविगर्हितः ५०।
इंद्रः पतिष्यति क्षिप्रं पतिष्यत्यपि पद्मजः ।
न पतिष्यंति मनुजा रामस्य भजनोत्सुकाः ५१।
पश्य ध्रुवं च प्रह्लादं बिभीषणमथाद्भुतम् ।
ये चान्ये रामभक्ता वै कदापि न पतंति ते ५२।
ये रामनिंदका दुष्टास्तानि मे यमकिंकराः ।
ताडयिष्यंति लोहस्य मुद्गरैः पाशबन्धनैः ५३।
ब्राह्मणत्वाद्देहदंडं न कुर्यां ते द्विजाधम ।
गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा ५४।
इत्थमुक्तवति श्रेष्ठे भूपे सुरथसंज्ञिते ।
सेवका बाहुना धृत्वा निष्कासयितुमुद्यताः ५५।
तदा यमो निजं रूपं धृत्वा लोकैकवंदितम् ।
प्राह भूपं प्रतुष्टोऽस्मि याचस्व हरिसेवक ५६।
मया प्रलोभितो वाग्भिर्बह्वीभिरपि सुव्रत ।
चलितोसि न रामस्य सेवायाः साधुसेवितः ५७।
तदा प्रोवाच भूमीशो यमं दृष्ट्वा सुतोषितम् ।
उवाच यदि तुष्टोसि देहि मे वरमुत्तमम् ५८।
तावन्मम न वै मृत्युर्यावद्रामसमागमः ।
न भयं मे भवत्तो हि कदाचन हि धर्मराट् ५९।
तदोवाच यमो भूपमिदं तव भविष्यति ।
सर्वं त्वदीप्सितं तथ्यं करिष्यति रघोःपतिः ६०।
इत्युक्त्वांतर्हितो धर्मो जगाम स्वपुरं प्रति ।
प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः ६१।
स राजा धार्मिको रामसेवकः परया मुदा ।
गृहीत्वाश्वं प्रत्युवाच सेवकान्हरिसेवकान् ६२।
मया गृहीतो वाहोऽसौ राघवस्य महीपतेः ।
सज्जी भवंतु सर्वत्र यूयं रणविशारदाः ६३।
इति प्रोक्तास्तु ते सर्वे भटा राज्ञो महाबलाः ।
सज्जीभूताः क्षणादेव सभायां जग्मुरुत्सुकाः ६४।
राज्ञो वीरा दशसुताश्चंपको मोहकस्तथा ।
रिपुंजयोऽतिदुर्वारः प्रतापीबलमोदकः ६५।
हर्यक्षः सहदेवश्च भूरिदेवः सुतापनः ।
इति राज्ञो दश सुताः सज्जीभूता रणांगणे ६६।
यातुमिच्छामकुर्वंस्ते महोत्साहसमन्विताः ।
राजापि स्वरथं चित्रं हेमशोभाविनिर्मितम् ६७।
आह्वयामास सुजवैर्वाजिभिः समलंकृतम् ।
रणोत्साहेन संयुक्तः सर्वसैन्यपरीवृतः ६८।
सभायां सेवकान्सर्वान्दिशन्नास्ते महीपतिः ६९।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथराज्ञा हयग्रहणंनाम एकोनपंचाशत्तमोऽध्यायः ४९ ।