पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४६
← अध्यायः ०४५ | पद्मपुराणम् अध्यायः ०४६ वेदव्यासः |
अध्यायः ०४७ → |
शेष उवाच।
आगतं वीक्ष्य श्रीरामं शत्रुघ्नः प्रणतार्तिहम् ।
भ्रातरं सकलाद्दुःखान्मुक्तोऽभूद्द्विजसत्तम १।
हनूमान्वीक्ष्य विभ्रांतो रामस्य चरणौ मुदा ।
ववंदे भक्तरक्षार्थमागतं निजगाद च २।
स्वामिंस्तवैतद्युक्तं तु स्वभक्तपरिपालनम् ।
यत्संग्रामे जितं सर्वं पाशबद्धममोचयः ३।
वयं त्विदानीं धन्या वै यद्द्रक्ष्यामो भवत्पदे ।
जेष्यामोऽरीन्क्षणादेव त्वत्कृपातो रघूद्वह ४।
शेष उवाच।
स्थाणुस्तदागतं रामं योगिनां ध्यानगोचरम् ।
पतित्वा पादयोर्विप्र जगाद प्रणताभयम् ५।
एकस्त्वं पुरुषः साक्षात्प्रकृतेः पर ईर्यसे ।
यः स्वांशकलया विश्वं सृजस्यवसि हंसि च ६।
अरूपस्त्वमशेषस्य जगतः कारणं परम् ।
एक एव त्रिधारूपं गृह्णासि कुहकान्वितः ७।
सृष्टौ विधातृरूपेण पालने स्वयमास च ।
प्रलये जगतः साक्षादहं शर्वाख्यतां गतः ८।
तव यत्परमेशस्य हयमेधक्रतुक्रिया ।
ब्रह्महत्यापनोदाय तद्विडंबनमद्भुतम् ९।
यत्पादशौचममलं गंगाख्यं शिरसोंऽतरा ।
वहामि पापशांत्यर्थं तस्य ते पातकं कुतः १०।
मया बह्वपकाराय कृतं कर्म तव स्फुटम् ।
क्षम्यतां तत्कृपालो हि भवतो व्यवधायकम् ११।
किं करोमि मया सत्यपालनार्थमिदं कृतम् ।
जानन्प्रभावं भवतो भक्तरक्षार्थमागतः १२।
असौ पुरा उज्जयिन्यां महाकालनिकेतने ।
स्नात्वा शिप्राख्य सरिति तपस्तेपे महाद्भुतम् १३।
ततः प्रसन्नो जातोऽहं जगाद भूमिपं प्रति ।
याचस्वेति महाराज स वव्रे राज्यमद्भुतम् १४।
मया प्रोक्तं देवपुरे तव राज्यं भविष्यति ।
यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः १५।
तावत्प्रभृत्यहं स्थास्ये तव रक्षार्थमुद्यतः ।
एतद्दत्तवरो राम किं करोमि स्वसत्यतः १६।
घृणितोऽस्म्यधुना राज्ञा सपुत्रपशुबांधवः ।
हयं समर्प्यते पादसेवां राजा विधास्यति १७।
शेष उवाच।
इति वाक्यं समाकर्ण्य महेशस्य रघूत्तमः ।
उवाच धीरया वाचा कृपया पूर्णलोचनः १८।
राम उवाच।
देवानामयमेवास्ति धर्मो भक्तस्य पालनम् ।
त्वया साधुकृतं कर्म यद्भक्तो रक्षितोऽधुना १९।
ममासि हृदये शर्व भवतो हृदये त्वहम् ।
आवयोरंतरं नास्ति मूढाः पश्यंति दुर्धियः २०।
ये भेदं विदधत्यद्धा आवयोरेकरूपयोः ।
कुंभीपाकेषु पच्यंते नराः कल्पसहस्रकम् २१।
ये त्वद्भक्तास्त एवासन्मद्भक्ता धर्मसंयुताः ।
मद्भक्ता अपि भूयस्या भक्त्या तव नतिंकराः २२।
शेष उवाच।
इत्थं भाषितमाकर्ण्य शर्वो वीरमणिं नृपम् ।
मूर्च्छितं जीवयामास करस्पर्शादिना प्रभुः २३।
अन्यानपि सुतानस्य मूर्च्छिताञ्छरपीडितान् ।
जीवयामास स मृडः समर्थः प्रभुरीश्वरः २४।
सज्जं विधाय तं भूपं श्रीरामपदयोर्नतिम् ।
कारयामास भूतेशः पुत्रपौत्रैः परीवृतम् २५।
धन्यो राजा वीरमणिर्यो ददर्श रघूत्तमम् ।
योगिभिर्योगनिष्ठाभिर्दुष्प्रापमयुतायुतैः २६।
ते नत्वा रघुनाथं तं कृतार्थी कृतविग्रहाः ।
ब्रह्मादिभिः पूज्यतमा अभूवन्द्विजसत्तम २७।
शत्रुघ्न हनुमद्भ्यां च पुष्कलादिभिरुद्भटैः ।
परिष्टुताय रामाय ददौ राजा हयोत्तमम् २८।
राज्येन सहितं सर्वं सपुत्रपशुबांधवम् ।
शर्वेण प्रेरितः प्रादाद्भूपो वीरमणिस्तदा २९।
ततो रामो नुतः सर्वैर्वैरिभिर्निजसेवकैः ।
शत्रुघ्नादिभिरत्यंतमुत्सुकैश्च विशेषतः ३०।
रथे मणिमये तिष्ठन्बभूव स तिरोहितः ।
अंतर्हिते रामभद्रे सर्वे प्रापुः सुविस्मयम् ३१।
मा जानीहि मनुष्यं तं रामं लोकैकवंदितम् ।
जले स्थले च सर्वत्र वर्तते संस्थितः सदा ३२।
ततो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे ।
तूर्यमंगलवादित्रैः सुमहानुत्सवोऽभवत् ३३।
ततो मुक्तो हयः सर्वैर्वीरैः शस्त्रास्त्रकोविदैः ।
सर्वैरनुगतः प्रीतैर्विस्मयेन समन्वितैः ३४।
शर्वः सत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकम् ।
श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्ल्लभम् ३५।
स्वयमंतर्हितस्तत्र प्रलयोत्पत्तिकारकः ।
कैलासमगमच्छर्वः सेवकैः परिशोभितः ३६।
भूपो वीरमणिर्ध्यायञ्छ्रीरामचरणोदजम् ।
शत्रुघ्नेन ययौ साकं बलिना बलसंयुतः ३७।
एतद्रामस्य चरितं ये शृण्वंति नरोत्तमाः ।
तेषां संसारजं दुःखं न भविष्यति कर्हिचित् ३८।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयप्रस्थानंनाम षट्चत्वारिंशत्तमोऽध्यायः ४६ ।