पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४४ पद्मपुराणम्
अध्यायः ०४५
वेदव्यासः
अध्यायः ०४६ →

शेष उवाच
गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट्
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् १
भयं तत्याज मनसि वानरात्समुपस्थितम्
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह २
इंद्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि
देवानां जीवनं भूयः कथं स्यादिति मे वद ३
इदानीं पवनोद्भूतं प्रसादय यथातथम्
रामः प्रीतिं परां याति देवानां च सुखं भवेत् ४
देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम् ५
जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः ६
ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ७
बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना
सुराधीशेन लोकस्य गुरुणा वदतां वरः ८
अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम्
श्रीरामचरणस्य त्वं सेवकोऽसि महामते ९
किमर्थमयमारंभः कथमत्र समागमः
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् १०
रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय
पवनात्मज दैत्यानां भयंकरवपुर्दधत् ११
शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः
उवाच देवान्सकलान्गुरुं चैव महयशाः १२
राज्ञो वीरमणेः संख्ये हताः शर्वेण भूरिशः
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम् १३
तं ये निवारयिष्यंति स्ववीर्यबलदर्पिताः
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति १४
तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम्
येन संजीवयिष्यामि मृतान्वीरान्रणांगणे १५
शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः
ते सर्वे प्रणतिं गत्वा ददुः संजीवनौषधम् १६
ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम्
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः १७
हनुमान्भेषजं तत्तु समादायागतो रणम्
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः १८
तमागतं हनूमंतं वीक्ष्य सर्वेऽपि वैरिणः
साधुसाधुप्रशंसंतमद्भुतं मेनिरे कपिम् १९
कपिः समागत्य महामुदायुतः
पुरो भटं पुष्कलमागतं मृतम्
शिवेन संरक्षितमुग्रमंडले
श्रीरामचित्तं सविधे जगाम ह २०
सुमतिं च समाहूय मंत्रिणं महतां मतम्
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान् २१
एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि
शिरः कायेन संधाय जगाद वचनं शुभम् २२
यद्यहं मनसा वाचा कर्मणा राघवं पतिम्
जानामि तर्हि एतेन भेषजेनाशु जीवतु २३
इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः
रणांगणेऽदशद्रोषाद्दंतान्वीरशिरोमणिः २४
क्व गतो वीरभद्रोऽसौ मां संमूर्च्छ्य रणांगणे
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम् २५
इति तं भाषमाणं वै प्राह वीरं कपींद्रकः
धन्योऽसि वीर यद्भूयो वदस्येनं रणांगणे २६
त्वं हतो वीरभद्रेण रघुनाथप्रसादतः
पुनः संजीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम् २७
इत्युक्त्वा प्रययौ तत्र संग्रामवरमूर्धनि
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः २८
तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः
निधाय भेषजं तस्य वक्षसि श्वासमागते २९
उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम ३०
यद्यहं ब्रह्मचर्यं च जन्मपर्यंतमुद्यतः
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात् ३१
उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः
क्व शिवः क्व शिवो यातो विहायरणमंडलम् ३२
अनेके निहताः संख्ये श्रीरुद्रेण पिनाकिना
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना ३३
तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ३४
पुष्कलो वीरभद्रं तु चंडं चैव कुशध्वजः
नंदिनं हनुमान्वीरः शत्रुघ्नः संगरे शिवम् ३५
धनुर्विस्फारयंतं तं शत्रुघ्नं बलिनां वरम्
संग्रामे शिवमाहूय तिष्ठंतं प्रययौ नृपः ३६
राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम् ३७
राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः
शत्रुघ्नस्य नरेंद्रस्य तिलशः क्षणतो द्विज ३८
तदा प्रकुपितोऽत्यंतं शत्रुघ्नो रणमंडले
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम् ३९
दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम्
अत्यंतं कुपितो राजा वारुणास्त्रं समाददे ४०
वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ४१
वायुना संहता मेघा ययुस्ते सर्वतोदिशम्
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ४२
सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान्
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ४३
पर्वतैः स्तंभितो वायुर्न चासर्पत संगरे
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे ४४
वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते ४५
वज्रास्त्रेण विदीर्णांगा वीराः शोणितशोभिताः
बभूवुः समरप्रांते चित्रं समभवद्रणम् ४६
तदा प्रकुपितोऽत्यंतं राजा वीरमणिर्महान्
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ४७
शत्रुघ्नः शरमादाय सस्मार सुमनोहरम्
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ४८
ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम् ४९
मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां संप्रापयन्नृपम् ५०
ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः ५१
शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ५२
शिवेन सहसा योद्धुं समायातो रणांगणे
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत ५३
तयोः समभवद्युद्धं घोरं वैरिविदारणम्
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगंतरम् ५४
अस्त्रप्रत्यस्त्रसंघातैस्ताडनप्रतिताडनैः
देवानामपि दैत्यानां नैतादृग्रणमंडलम् ५५
तदा व्याकुलितोऽत्यंतं शत्रुघ्नः शिवसंगरे
सस्मार स्वामिनं तत्र पावनेरुपदेशतः ५६
हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम्
करोति धनुरुद्यम्य त्रायस्व रणमंडले ५७
अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया
मामप्युद्धर दुःखस्थं रामराम कृपानिधे ५८
इत्थं वक्ति यदा तावद्वीक्षितो रणमंडले
नीलोत्पलदलश्यामो रामो राजीवलोचनः ५९
मृगशृंगं कटौ धृत्वा दीक्षितं वपुरुद्वहन्
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समरांगणे ६०
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
श्रीरामसमागमोनाम पंचचत्वारिंशत्तमोऽध्यायः ४५