पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०४४

विकिस्रोतः तः
← अध्यायः ०४३ पद्मपुराणम्
अध्यायः ०४४
वेदव्यासः
अध्यायः ०४५ →

शेष उवाच।
आगत्य सविधे रुद्रं समरांगणमूर्धनि ।
जगाद हनुमान्वीरः संजिहीर्षुः सुराधिपम् १।
हनूमानुवाच।
त्वं यदाचरसे रुद्र धर्मस्य प्रतिकूलनम् ।
तस्मात्त्वां शास्तुमिच्छामि रामभक्तवधोद्यतम् २।
मया पुरा श्रुतं देव ऋषिभिर्बहुधोदितम् ।
रघुनाथपदस्मारी नित्यं रुद्रः पिनाकभृत् ३।
तत्सर्वं तु मृषा जातं शत्रुघ्नं प्रति युध्यतः ।
पुष्कलो मे हतः शूरः शत्रुघ्नोऽपि विमूर्च्छितः ४।
तस्मात्त्वां पातयाम्यद्य त्रैलोक्यप्रलयोद्यतम् ।
यत्नात्तिष्ठस्व भोः शर्व रामभक्तिपराङ्मुखः ५।
शेष उवाच।
इत्युक्तवंतं प्लवगं प्रोवाच स महेश्वरः ।
धन्योऽसि वीरवर्यस्त्वं भवान्वदति नो मृषा ६।
मत्स्वामी रामचंद्रोऽयं सुरासुरनमस्कृतः ।
तदश्वमानयामास शत्रुघ्नः परवीरहा ७।
तद्रक्षार्थं समायातस्तद्भक्त्या तु वशीकृतः ।
यथाकथंचिद्भक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः ८।
रघुनाथः कृपां कृत्वा विलोकय तु निस्त्रपम् ।
मां स्वभक्त सुदुःखेन किंचित्कोपं दधन्महान् ९।
शेष उवाच।
एवं वदति चंडीशे हनूमान्कुपितो भृशम् ।
शिलामादाय महतीं ताडयामास तद्रथम् १०।
शिलया ताडितस्तस्य रथः शकलतां गतः ।
ससूतः सहयः केतुपताकाभिः समन्वितः ११।
नभःस्था देवताः सर्वाः प्रशशंसुः कपीश्वरम् ।
धन्योसि प्लवगाधीश महत्कर्म त्वया कृतम् १२।
श्रीशिवं विरथं दृष्ट्वा नंदी तं समुपाद्रवत् ।
उवाच श्रीमहादेवं मत्पृष्ठं गम्यतामिति १३।
वृषस्थितं तु भूतेशं हनूमान्कुपितो भृशम् ।
शिलामुत्पाट्य तरसा प्राहनद्धृदये तदा १४।
तदाहतो भूतपतिः शूलं तीक्ष्णं समाददे ।
जाज्वल्यमानं त्रिशिखं वह्निज्वालासमप्रभम् १५।
आयातं तन्महद्दृष्ट्वा शूलं प्रज्वलनप्रभम् ।
हस्ते गृहीत्वा तरसा बभंज तिलशः क्षणात् १६।
भग्ने त्रिशूले तरसा कपीन्द्रेण क्षणाच्छिवः ।
शक्तिं करे समाधत्त सर्वलोहविनिर्मिताम् १७।
सा शक्तिः शिवनिर्मुक्ता हृदये तस्य धीमतः ।
लग्ना क्षणादभूत्तत्र विक्लवः प्लवगाधिपः १८।
क्षणाच्च तद्व्यथां तीर्त्वा गृहीत्वा वृक्षमुल्बणम् ।
ताडयामास हृदये महाव्यालविभूषिते १९।
ताडितास्तेन वीरेण फणीन्द्रास्त्रा समागताः ।
इतस्ततस्ते तं मुक्त्वा गताः पातालमुज्जवाः २०।
शिवस्तस्मिन्नगे मुक्ते वक्षसि स्वे निरीक्ष्य च ।
कुपितो व्यदधाद्घोरं मुसलं करयुग्मके २१।
हतोसि गच्छ संग्रामात्पलाय्य प्लवगाधम ।
एष ते प्राणहंताहं मुसलेन क्षणादिह २२।
मुसलं वीक्ष्य निर्मुक्तं शिवेन कुपितेन वै ।
कीशस्तद्वंचयामास महावेगाद्धरिं स्मरन् २३।
मुसलं तत्पपाताधः शिवमुक्तं महायसम् ।
विदार्य पृथिवीं सर्वां जगाम च रसातलम् २४।
तदा प्रकुपितोऽत्यतं हनूमान्रामसेवकः ।
गृहीत्वा पर्वतं हस्ते ताडयामास वक्षसि २५।
स यावत्पर्वतं छेत्तुं मतिं चक्रे सतीपतिः ।
तावद्धतः कपींद्रेण शालेन बहुशाखिना २६।
तमपिच्छेत्तुमुद्युक्तो यावत्तावच्छिलाहतः ।
शिलास्ता भेदितुं स्वांतं चकार मृड उद्यतः २७।
तावद्वृष्टिं चकारायं शिलाभिर्नगपर्वतैः ।
लांगूलेन च संवेष्ट्य ताडयत्येष भूतपम् २८।
शिलाभिः पर्वतैर्वृक्षैः पुच्छास्फोटेन भूरिशः ।
नंदी प्राप्तो महात्रासं चंद्रोऽपि शकलीकृतः २९।
अत्यंतं विह्वलो जातो महेशानः प्रकोपनः ।
क्षणेक्षणे प्रहारेण विह्वलं कुर्वतं भृशम् ३०।
जगाद प्लवगाधीशं धन्योसि रघुपानुग ।
महत्कर्म कृतं तेऽद्य यत्तेहं सुप्रतोषितः ३१।
न दानेन न यज्ञेन नाल्पेन तपसा ह्यहम् ।
सुलभोऽस्मि महावेग तस्मात्प्रार्थय मे वरम् ३२।
शेष उवाच।
एवं ब्रुवंतं तं दृष्ट्वा हनूमान्निजगाद तम् ।
प्रहसन्निर्भिया वाण्या महेशानं सुतोषितम् ३३।
हनूमानुवाच।
रघुनाथप्रसादेन सर्वं मेऽस्ति महेश्वर ।
तथापि याचे हि वरं त्वत्तः समरतोषितात् ३४।
एष पुष्कलसंज्ञो नः समरे पतितो हतः ।
तथैव रामावरजः शत्रुघ्नो मूर्च्छितो रणे ३५।
अन्ये च वीरा बहवः पतिताः शरविक्षताः ।
मूर्च्छिताः पतिताः केचित्तान्रक्षस्व गणैः सह ३६।
यथा चैतान्महाभूता वेतालाश्च पिशाचकाः ।
न हरंति न खादंति श्वशृगालादयस्तथा ३७।
एतेषां वपुषो भेदो न भवेत्त्वं तथाचर ।
यावदिंद्रगणं जित्वा न यामि द्रोणपर्वतम् ३८।
तत्रस्था औषधीर्वापि नीत्वा संस्थापितान्भटान् ।
जीवयामि बलात्सर्वांस्तावत्त्वं रक्ष सर्वशः ३९।
एष गच्छामि तं नेतुं द्रोणं पर्वतसत्तमम् ।
यस्मिन्वसंत्योषधयः प्राणिसंजीवनंकराः ४०।
एतद्वचः समाकर्ण्य तथेति निजगाद तम् ।
याहि शीघ्रं नगं तं तु रक्षामि त्वद्भटान्मृतान् ४१।
तच्छ्रुत्वा वाक्यमीशस्य जगाम द्रोणपर्वतम् ।
द्वीपान्सर्वानतिक्रम्य जगाम क्षीरसागरम् ४२।
अत्र तु स्वगणैश्चायं रक्षति स्म शिवो महान् ।
श्मशानं तद्गणैः स्वीयैर्महाबलपराक्रमैः ४३।
हनूमान्द्रोणमासाद्य द्रोणंनाम महागिरिम् ।
लांगूले तं निधायाशु प्रतस्थे रणमंडलम् ४४।
तं नेतुमुद्यते विप्र चकंपे स च पर्वतः ।
कंपमानं तु तं दृष्ट्वा तत्पाला देवतागणाः ४५।
हाहेति कृत्वा प्रोचुस्ते किमिदं भविता गिरौ ।
को ह्येनं नयते वीरो महाबलपराक्रमः ४६।
एवं कृत्वा सुराः सर्वे संहता ददृशुः कपिम् ।
मुंचैनमिति तं प्रोच्य जघ्नुः शस्त्रास्त्रकोटिभिः ४७।
तान्सर्वान्निघ्नतो दृष्ट्वा हनूमान्कुपितो भृशम् ।
जघान तान्क्षणाद्वीरः शक्रः सर्वासुरान्यथा ४८।
केचित्पदाहतास्तत्र केचित्करविमर्दिताः ।
लांगूलेन हताः केचित्केचिच्छृंगेण चाहताः ४९।
सर्वे ते नाशमापन्नाः क्षणात्कीशेन ताडिताः ।
केचिन्निपतिता भूमौ रुधिरेण परिप्लुताः ५०।
केचित्कीशभयात्त्रस्ता जग्मुः शक्रं सुराधिपम् ।
क्षतेन च परिप्लुष्टा रुधिरक्षतदेहिनः ५१।
तान्दृष्ट्वा भयसंविग्नान्रुधिरेण परिप्लुतान् ।
सुराञ्जगाद विमनाः शक्रः सर्वसुरोत्तमः ५२।
कथं यूयं भयत्रस्ताः कथं रुधिरविप्लुताः ।
केन दैत्येन निहता राक्षसेनाधमेन वा ५३।
सर्वं शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तम् ।
निहत्य बद्ध्वा चायामि युष्मद्घातकमुन्मदम् ५४।
इति वाक्यं समाकर्ण्य तुरासाहं सुरोत्तमाः ।
जगदुर्दीनया वाचा सुरासुरनमस्कृतम् ५५।
देवा ऊचुः।
इहागत्य न जानीमः कश्चिद्वानररूपधृक् ।
नेतुं द्रोणं समुद्युक्तो लांगूले वेष्ट्य तं गिरिम् ५६।
गंतुं कृतमतिस्तावद्वयं सर्वे सुसंहताः ।
युद्धं चक्रुः सुसंनद्धाः सर्वशस्त्रास्त्रवर्षिणः ५७।
तेन सर्वे वयं युद्धे निर्जिता बलशालिना ।
अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः ५८।
वयं तु बहुभिः पुण्यैर्जीविता इह चागताः ।
शोणितेन सुसिक्तांगाः क्षतपीडासमन्विताः ५९।
एतद्वाक्यं समाकर्ण्य सुराणां स पुरंदरः ।
आदिदेश सुरान्सर्वान्महाबलसमन्वितान् ६०।
यात महाद्रोणगिरिं कपिं बद्धुं महाबलम् ।
बद्ध्वा नयत यूयं वै सुराणां रणपातकम् ६१।
इत्याज्ञप्ता ययुस्ते वै द्रोणं पर्वतसत्तमम् ।
यत्रास्ते बलवान्वीरो हनूमान्कपिसत्तमः ६२।
गत्वा ते प्राहरन्सर्वे हनूमंतं महाबलम् ।
हनूमता ते निहता मुष्टिभिः करताडनैः ६३।
पतितास्ते क्षणात्तत्र रुधिरक्षतविग्रहाः ।
अन्ये पलायनपरा जग्मुस्ते त्रिदिवेश्वरम् ६४।
तच्छ्रुत्वा कुपितः शक्रः सर्वानमरसत्तमान् ।
आदिदेश महावीरं वानरेंद्रं सुरोत्तमः ६५।
तदाज्ञप्ता ययुस्ते वै यत्र कीशेश्वरो बली ।
तान्सर्वानागतान्दृष्ट्वा जगाद कपिसत्तमः ६६।
मायां तु वीराः समरे संहर्तारं हि मां बलात् ।
नेष्यामि युष्मानधुना संयमिन्याः पुरोंऽतिके ६७।
इत्युक्ता अपि ते सर्वे सन्नद्धाः प्राहरन्कपिम् ।
शस्त्रास्त्रैर्बहुधा मुक्तैर्महाबलसमन्विताः ६८।
केचिच्छूलैः परशुभिः केचित्खड्गैश्च पट्टिशैः ।
मुसलैः शक्तिभिः केचित्क्रोधेन कलुषीकृताः ६९।
स आहतोऽमरवरैर्विविधैरायुधैर्बली ।
शिलाभिस्ताञ्जघानाशु सर्वानमरसत्तमान् ७०।
केचित्पलाय्य आहुस्ते गताः शक्रसमीपकम् ।
तदुक्तं वाक्यमाकर्ण्य भयं प्राप सुराधिपः ७१।
बृहस्पतिं सुराध्यक्षं मंत्रिणं स्वर्गवासिनाम् ।
पप्रच्छ सविधे गत्वा नत्वा सुरगुरुं वरम् ७२।
इंद्र उवाच।
कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः ।
येन मे निहता वीरा अमराः शस्त्रधारिणः ७३।
शेष उवाच।
एतच्छ्रुत्वा तु तद्वाक्यमुक्तमांगिरसो महान् ।
जगाद भयसंविग्नं तुरासाहं सुराधिपम् ७४।
बृहस्पतिरुवाच।
यो रावणमहन्संख्ये कुंभकर्णमदीदहत् ।
येन ते वैरिणः सर्वे हतास्तस्यैव सेवकः ७५।
येन लंका सत्रिकूटा निर्दग्धा पुच्छवह्निना ।
अक्षश्च निहतो येन हनूमंतमवेहि तम् ७६।
तेन सर्वे विनिहता द्रोणार्थमयमुद्यतः ।
हयमेधं महाराजः करोति बलिसत्तमः ७७।
तस्याश्वं शिवभक्तस्तु नृपो वीरमणिर्महान् ।
जहार तत्र समभूद्रणं सुरविमोहनम् ७८।
शिवेन निहताः संख्ये वीरा रामस्य भूरिशः ।
तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः ७९।
नायं वर्षशतैर्जेयो भवता बलसंयुतः ।
तस्मात्प्रसादय कपिं देहि तत्रत्यमौषधम् ८०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे द्रोणगिरौ देवानां पराजयोनाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४ ।