सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१०

विकिस्रोतः तः
← अध्यायः ००९ पद्मपुराणम्
अध्यायः ०१०
वेदव्यासः
अध्यायः ०११ →

शेष उवाच।
इत्थं संशृण्वतो धर्मान्वसंतः समुपस्थितः ।
यत्र यज्ञ क्रियादीनां प्रारंभः सुमहात्मनाम् १।
दृष्ट्वा तं समयं धीमान्वसिष्ठः कलशोद्भवः ।
रामचंद्रं महाराजं प्रत्युवाच यथोचितम् २।
वसिष्ठ उवाच।
रामचंद्र महाबाहो समयः पर्यभूत्तव ।
हयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः ३।
सामग्री क्रियतां तत्र आहूयंतां द्विजोत्तमाः ।
करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम् ४।
दीनांधकृपणानां च दानं स्वांते समुत्थितम् ।
ददातु विधिवत्तेषां प्रतिपूज्याधिमान्य च ५।
भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर ।
भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः ६।
मृगशृंगधरः कट्यां मेखलाजिनदंडभृत् ।
करोतु यज्ञसंभारं सर्वद्रव्यसमन्वितम् ७।
इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम् ।
उवाच लक्ष्मणं धीमान्नानार्थपरिबृंहितम् ८।
श्रीराम उवाच।
शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम् ।
हयमानय यत्नेन वाजिमेधक्रियोचितम् ९।
शेष उवाच।
श्रुत्वा वाक्यं रघुपतेः शत्रुजिल्लक्ष्मणस्तदा ।
सेनापतिमुवाचेदं वचो विविधवर्णनम् १०।
लक्ष्मण उवाच।
वीराकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः ।
कार्यं तत्क्षितिपालमौलिमुकुटैर्घृष्टांघ्रि रामाज्ञया ।
सेनां कालबलप्रभंजनबलप्रोद्यत्समर्थांगिनीं ।
सज्जां सद्रथहस्तिपत्तिसुहयारोहैर्विधे ह्यन्विताम् ११।
सज्जीयतां वायुजवास्तुरंगास्तरंगमाला ललितांघ्रिपाताः ।
सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः १२।
संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रासकुंताग्रहस्तैः ।
शूरैः सास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः १३।
विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः ।
विविधरिपुविनाशस्मारकैरायुधास्त्रैर्भृतवलभिविभागानीयतां सूतवृंदैः १४।
पत्तयः शतशो मह्यमायांत्वस्त्राग्न्यपाणयः ।
हयमेधार्हवाहस्य रक्षणे विततोद्यमाः १५।
इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः ।
सेनानी कालजिन्नामा कारयामास सज्जताम् १६।
दशध्रुवकमंडितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकंठको शेमणिः मुखे विशदकांतिधृत्त्वसितकांतिभृत्कर्णयोर्व्यराजत तदाह यो धृतकराग्ररश्मिच्छटः १७।
कलासंशोभितमुखः स्फुरद्रत्नविशोभितः ।
मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः १८।
श्वेतातपत्ररचितः सितचामरशोभितः ।
बहुशोभापरीतांगो निर्ययौ हयराट्ततः १९।
अग्रतो मध्यतश्चैके पृष्ठतः सैनिकास्तथा ।
देवा हरिं यथापूर्वं सेवंते सेवनोचितम् २०।
अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा ।
हस्त्यश्वरथपादातवृन्दैः सुबहुसंकुलम् २१।
ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः ।
ततो दुंदुभिनादोऽभूत्तस्मिन्पुरवरे तदा २२।
तन्निनादेन शूराणां प्रियेण महता तदा ।
कंपंति गिरिशृंगाणि प्रासादा विचलंति च २३।
हेषारवो महानासीद्वाजिनां मुह्यतां नृप ।
रथांगघातसंघुष्टा धरा संचलतीव सा २४।
चलितैर्गजयूथैश्च पृथ्वी रुद्धा समंततः ।
रजस्तु प्रचलत्तत्र जनांतर्द्धानमादधात् २५।
निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ।
सेनान्याकालजिन्नाम्ना प्रेरितं जनसंकुलम् २६।
गर्जंतस्तलवीराग्र्याः कुर्वंतो रणसंभ्रमम् ।
रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा २७।
मृगमदमयमंगेष्वंगरागं दधानाः कुसुमविमलमालाशोभितस्वोत्तमांगाः ।
मुकुटकटकभूषाभूषितांगाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे २८।
इत्येवं ते महाराजं ययुः सेनाचरा वराः ।
धनुर्धराः पाशधराः खड्गधाराः स्फुटक्रमाः २९।
एवं शनैःशनैः प्राप्तो मंडपं यागचिह्नितम् ।
हयः खुरक्षततलां भूमिं कुर्वन्नभः प्लवन् ३०।
रामो दृष्ट्वा हरिं प्राप्तं बहुसंतुष्टमानसः ।
वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति ३१।
वसिष्ठो राममाहूय स्वर्णपत्नीसमन्वितम् ।
प्रयोगं कारयामास ब्रह्महत्यापनोदनम् ३२।
ब्रह्मचर्यव्रतधरो मृगशृंगपरिग्रहः ।
तत्कर्म कारयामास रामः परपुरंजयः ३३।
प्रारेभे यागकर्मार्थं कुंडं मण्डपसंमितम् ।
तत्राचार्योभवद्धीमान्वेदशास्त्रविचारवित् ३४।
वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः ।
ब्रह्मंस्तत्राचरद्ब्रह्मकर्मागस्त्यस्तपोनिधिः ३५।
वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः ।
अष्टौ द्वाराणि तत्रासन्सतोरण शुभानि वै ३६।
द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमंत्रवित् ।
पूर्वद्वारि मुनिश्रेष्ठौ देवलासित संज्ञितौ ३७।
दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी ।
पश्चिमद्वारि ऋषभौ जातूकर्ण्योऽथ जाजलिः ३८।
उत्तरद्वारि तु मुनी द्वौ द्वितैकत तापसौ ।
एवं द्वारविधिं कृत्वा वसिष्ठः कलशोद्भवः ३९।
हयवर्यस्य सत्पूजां कर्तुमारभत द्विज ।
सुवासिन्यः स्त्रियस्तत्र वासोलंकारभूषिताः ४०।
हरिद्राक्षतगंधाद्यैः पूजयामासुरर्चितम् ।
नीराजनं ततः कृत्वा धूपयित्वागुरूक्षणैः ४१।
वर्धापनं ततो वेश्याश्चक्रुस्ता वाडवाज्ञया ।
एवं संपूज्य विमले भाले चंदनचर्चिते ४२।
कुंकुमादिकगंधाढ्ये सर्वशोभासमन्विते ।
बबंध भास्वरं पत्रं तप्तहाटकनिर्मितम् ४३।
तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम् ।
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः ४४।
यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः ।
तस्यात्मजो वीरबलदर्पहारी रघूद्वहः ४५।
रामचंद्रो महाभागः सर्वशूरशिरोमणिः ।
तन्माता कोसलनृपपत्नीगर्भसमुद्भवा ४६।
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः ।
करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः ४७।
रावणाभिधविप्रेंद्र वधपापापनुत्तये ।
मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः ४८।
महाबलपरीवार परिखाभिः सुरक्षितः ।
तद्रक्षकोऽस्ति तद्भ्राता शत्रुघ्नो लवणांतकः ४९।
हस्त्यश्वरथपादात सेनासंघसमन्वितः ।
यस्य राज्ञ इति श्रेष्ठो मानः स्यात्स्वबलोन्मदात् ५०।
वयं धनुर्धराः शूराः श्रेष्ठा वयमिहोत्कटाः ।
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम् ५१।
मनोवेगं कामजवं सर्वगत्यधिभास्वरम् ।
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हयम् ५२।
शरासनविनिर्मुक्त वत्सदंतैः शिखाशितैः ५३।
इत्येवमादि विलिलेख महामुनींद्रः ।
श्रीरामचंद्र भुजवीर्यलसत्प्रतापम् ।
शोभानिधानमतिचंचलवायुवेगं ।
पातालभूतलविशेषगतिं मुमोच ५४।
शत्रुघ्नमादिदेशाथ रामः शस्त्रभृतां वरः ।
याहि वाहस्य रक्षार्थं पृष्ठतः स्वैरगामिनः ५५।
शत्रुघ्न गच्छ वाहस्य मार्गं भद्रं भवेत्तव ।
भवेतां शत्रुविजयौ रिपुकर्षण ते भुजौ ५६।
ये योद्धारः प्रतिरणगतास्ते त्वया वारणीया-।
वाहं रक्ष स्वकगुणगणैः संयुतः सन्महोर्व्याम् ।
सुप्तान्भ्रष्टान्विगतवसनान्भीतभीतांस्तु नम्रां-।
स्तान्मा हन्याः सुकृतकृतिनो येन शंसंति कर्म ५७।
विरथा भयसंत्रस्ता ये वदंति वयं तव ।
ते त्वया न हि हंतव्याः शत्रुघ्न सुकृतैषिणा ५८।
यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम् ।
तावकोऽहं ब्रुवाणं च स व्रजत्यधमां गतिम् ५९।
परस्वे चित्तवृत्तिं त्वं मा कृथाः पारदारिके ।
नीचे रतिं न कुर्वीथाः सर्वसद्गुणपूरितः ६०।
वृद्धानां प्रेरणं पूर्वं मा कुर्वीथा रणं जय ।
पूज्यपूजातिक्रमं त्वं मा विधेहि दयान्वितः ६१।
गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम् ।
अभिवाद्य यतो गच्छेस्तत्र सिद्धिमवाप्नुयाः ६२।
विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत् ।
ये तदीया महाबाहो तद्रूपा विचरंति हि ६३।
ये स्मरंति महाविष्णुं सर्वभूतहृदि स्थितम् ।
ते मंतव्या महाविष्णु समरूपा रघूद्वह ६४।
यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः ।
ते वैष्णवाः क्षणादेव पापिनं पावयंति हि ६५।
येषां प्रियं भागवतं येषां वै ब्राह्मणाः प्रियाः ।
वैकुंठात्प्रेषितास्तेऽत्र लोकपावनहेतवे ६६।
येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः ।
उदरे विष्णुनैवेद्यः स श्वपाकोऽपि वैष्णवः ६७।
येषां वेदाः प्रियतमा न च संसारजं सुखम् ।
स्वधर्मनिरता ये च तान्नमस्कुर्विहान्वितान् ६८।
शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः ।
तेषां पादरजः पूतं वहाम्यघविनाशनम् ६९।
गौरी गंगा महालक्ष्मीर्यस्य नास्ति पृथक्तया ।
ते मंतव्या नराः सर्वे स्वर्गलोकादिहागताः ७०।
शरणागतरक्षी च मानदानपरायणः ।
यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः ७१।
यस्य नाम महापापराशिं दहति सत्वरम् ।
तदीय चरणद्वंद्वे भक्तिर्यस्य स वैष्णवः ७२।
इंद्रियाणि वशे येषां मनोऽपि हरिचिंतकम् ।
तान्नमस्कृत्य पूयात्सह्या जन्ममरणांतिकात् ७३।
परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतिभूमिः ।
एवं ममादेशमथाचरंश्च लभेः परं धाम सुयोगमीड्यम् ७४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नशिक्षाकथनंनाम दशमोऽध्यायः १० ।