पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००९
← अध्यायः ००८ | पद्मपुराणम् अध्यायः ००९ वेदव्यासः |
अध्यायः ०१० → |
श्रीराम उवाच।
कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने ।
कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः १।
अगस्त्य उवाच।
गंगाजलसमानेन वर्णेन वपुषा शुभः ।
कर्णे श्यामो मुखे रक्तः पीतः पुच्छे सुलक्षितः २।
मनोवेगः सर्वगतिरुच्चैःश्रवस्समप्रभः ।
वाजिमेधे हयः प्रोक्तः शुभलक्षणलक्षितः ३।
वैशाखपूर्णमास्यां तु पूजयित्वा यथाविधि ।
पत्रं लिखित्वा भाले तु स्वनामबलचिह्नितम् ४।
मोचनीयः प्रयत्नेन रक्षकैः परिरक्षितः ।
यत्र गच्छति यज्ञाश्वस्तत्र गच्छेत्सुरक्षकः ५।
यस्तंबलान्निबध्नाति स्ववीर्यबलदर्पितः ।
तस्मात्प्रसभमानेयः परिरक्षाकरैर्हयः ६।
कर्त्रा तावत्सुविधिना स्थातव्यं नियमादिह ।
मृगशृंगधरो भूत्वा ब्रह्मचर्यसमन्वितः ७।
व्रतं पालयमानस्य यावद्वर्षमतिक्रमेत् ।
तावद्दीनांधकृपणाः परितोष्या धनादिभिः ८।
अन्नं तु बहुशो देयं धनं वा भूरि मारिष ।
यद्यत्प्रार्थयते धीमांस्तत्तदेव ददाति हि ९।
एवं प्रकुर्वतः कर्म यज्ञः संपूर्णतां गतः ।
करोति सर्वपापानां नाशनं रिपुनाशन १०।
तस्माद्भवान्समर्थोऽस्ति करणे पालनेऽर्चने ।
कृत्वा कीर्तिं सुविमलां पावयान्याञ्जनान्नृप ११।
श्रीराम उवाच।
विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना ।
तादृशाः संति नो वाश्वाः शुभलक्षणलक्षिताः १२।
इति श्रुत्वा तु तद्वाक्यमगस्त्यः करुणाकरः ।
उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनः शुभान् १३।
गत्वाथ तत्र शालायां रामचंद्रसमन्वितः ।
ददर्शाश्वान्विचित्रांगान्मनोवेगान्महाबलान् १४।
अवनितलगताः किं वाजिराजस्य वंश्याः किमथ रघुपतीनामेकतः कीर्तिपिंडाः ।
किमिदममृतराशिर्वाहरूपेण सिंधोर्मुनिरिति मनसोंतर्विस्मयं प्राप पश्यन् १५।
एकतः शोणदेहानां वाजिनां पंक्तिरुत्तमा ।
एकतः श्यामकर्णाश्च कस्तूरीकांतिसप्रभाः १६।
एकतः कनकाभाश्च त्वन्यतो नीलवर्णिनः ।
एकतः शबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः १७।
एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः ।
ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः १८।
ददर्श तत्र शतशो बद्धांस्तादृशवर्णकान् ।
दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षितांगकः १९।
एकतः श्यामकर्णांश्च सर्वांगैः क्षीरसन्निभान् ।
पीतपुच्छान्मुखे रक्ताञ्छुभलक्षणलक्षितान् २०।
निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान्मनोजवनशोभितान्विमलकीर्तिपुंजप्रभान् ।
पयोनिधिविशोषको मुनिरुवाचसीतापतिं विचित्रहयदर्शनाद्धृषितनेत्रवक्त्रप्रभः २१।
अगस्त्य उवाच।
हयमेधक्रतौ योग्यान्वाहांस्ते बहुशः शुभान् ।
पश्यतो नेत्रयोर्मेऽद्य तृप्तिर्नास्ति रघूत्तम २२।
रामचंद्र महाभाग सुरासुरनमस्कृत ।
यज्ञं कुरु महाराज हयमेधं सुविस्तरम् २३।
सुरपतिरिव सर्वान्यज्ञसंघान्करिष्यंस्तपन इव सुपर्वारातितोयं विशोष्यन् ।
हतरिपुगणमुख्यं सांपरायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभाग २४।
इत्येवं वाक्यवादेन परितुष्टाखिलेंद्रियः ।
सर्वान्वै यज्ञसंभारानाजहार मनोहरान् २५।
मुन्यन्वितो महाराजः सरयूतीरमागतः ।
सुवर्णलांगलैर्भूमिं विचकर्ष महीयसीम् २६।
विलिख्य भूमिं बहुशश्चतुर्योजनसंमिताम् ।
मंडपान्रचयामास यज्ञार्थं स नरोत्तमः २७।
कुंडं तु विधिवत्कृत्वा योनिमेखलयान्वितम् ।
अनेकरत्नरचितं सर्वशोभासमन्वितम् २८।
मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः ।
सर्वं तत्कारयामास वेदशास्त्रविधिश्रितम् २९।
प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान् ।
कथयामासुरुद्युक्तं हयमेधे रघूत्तमम् ३०।
आकारितास्तदा सर्वे ऋषयस्तपतां वराः ।
आजग्मुः परमेशस्य दर्शने त्वतिलालसाः ३१।
नारदोसितनामा च पर्वतः कपिलो मुनिः ।
जातूकर्ण्योंऽगिरा व्यास आर्ष्टिषेणोऽत्रिरासुरिः ३२।
हारीतो याज्ञवल्क्यश्च संवर्तः शुकसंज्ञितः ।
इत्येवमादयो राम हयमेधवरं ययुः ३३।
तान्सर्वान्पूजयामास रघुराजो महामनाः ।
प्रत्युत्थानाभिवादाभ्यामर्घ्यविष्टरकादिभिः ३४।
गां हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः ।
महद्भाग्यं त्वद्यमेऽस्ति यद्यूयं दर्शनं गताः ३५।
शेष उवाच।
एवं समाकुले ब्रह्मन्नृषिवर्य समागमे ।
धर्मवार्ता बभूवाहो वर्णाश्रमसुसंमता ३६।
वात्स्यायन उवाच।
का धर्मवार्ता तत्रासीत्किं वा कथितमद्भुतम् ।
साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन् ३७।
शेष उवाच।
तान्समेतान्मुनीन्दृष्ट्वा रामो दाशरथिर्महान् ।
पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान् ३८।
ते तु पृष्टा हि रामेण धर्मान्प्रोचुर्महागुणान् ।
तान्प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्व तान् ३९।
ऋषय ऊचुः।
ब्राह्मणेन सदा कार्यं यजनाध्ययनादिकम् ।
वेदान्पठित्वा विरजो नैव गार्हस्थ्यमाविशेत् ४०।
ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम् ।
आपद्गतोऽपि जीवेत न श्ववृत्त्या कदाचन ४१।
ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः ।
स्त्रीणां वरमनुस्मृत्याऽपत्यकामोथवा भवेत् ४२।
दिवाभिगमनं पुंसामनायुष्यकरं मतम् ।
श्राद्धाहः सर्वपर्वाणि यतस्त्याज्यानि धीमता ४३।
तत्र गच्छेत्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात् ।
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ४४।
सर्वदा ब्रह्मचारी ह विज्ञेयः स गृहाश्रमी ।
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः ४५।
पुत्रदास्तासु या युग्मा अयुग्माः कन्यकाप्रदाः ।
त्यक्त्वा चंद्रमसं दुष्टं मघां मूलं विहाय च ४६।
शुचिः सन्निर्विशेत्पत्नीं पुंनामर्क्षे विशेषतः ।
शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम् ४७।
आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्प्रशस्यते ।
शुल्कमण्वपि कन्यायाः कन्याक्रेतुस्तु पापकृत् ४८।
वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा ।
कुविवाहः क्रियालोपः कुलपातनहेतवः ४९।
अन्नोदक पयो मूलफलैर्वापि गृहाश्रमी ।
गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम् ५०।
अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति ।
आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत् ५१।
पितृदेवमनुष्येभ्यो दत्त्वाश्नीतामृतं गृही ।
स्वार्थं पचत्यघं भुंक्ते केवलं स्वोदरंभरिः ५२।
षष्ठ्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि ।
चतुर्दश्यां तथामायां त्यजेत क्षुरमंगनाम् ५३।
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया ।
एकवासा न भुंजीत न भुंजीतोत्कटासने ५४।
नाश्नंतीं स्त्रियमीक्षेत तेजःकामो नरोत्तमः ।
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ५५।
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत् ।
प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्ययोर्द्वयोः ५६।
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् ।
न दिवोद्गतसारं च भक्षयेद्दधिनो निशि ५७।
स्त्रीं धर्मिणीं नाभिवादेन्नाद्यादातृप्ति रात्रिषु ।
तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत् ५८।
न धारयेदन्यभुक्तं वासश्चोपानहावपि ।
न भिन्नभाजनेऽश्नीयान्नाश्नीतान्नं विदूषितम् ५९।
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ।
शयानो वा न चाश्नीयान्नोच्छिष्टः संस्पृशेच्छिरः ६०।
न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेत् ।
अभ्युद्यतं न प्रणमेत्परमर्माणि नो वदेत् ६१।
एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत् ।
सस्त्रीको वा गतस्त्रीको विरज्येत ततः परम् ६२।
इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा ।
श्रुता रामेण महता सर्वलोकहितैषिणा ६३।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मोपदेशोनाम नवमोऽध्यायः ९।