पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३४
← अध्यायः ०३३ | पद्मपुराणम् अध्यायः ०३४ वेदव्यासः |
अध्यायः ०३५ → |
शेष उवाच।
रथैः सदश्वैः शोभाढ्यैः सर्वशस्त्रास्त्रपूरितैः ।
नानारत्नसमायुक्तैर्ययुस्ते राक्षसाधमम् १।
तान्दृष्ट्वा कामगे याने स्थितः प्रोवाच राक्षसः ।
मेघगंभीरया वाचा तर्जयन्निव भूरिशः २।
मायां तु सुभटा योद्धुं गच्छंतु निजमंदिरम् ।
मा त्यजंतु स्वकान्प्राणान्न मोक्ष्ये वाजिनं वरम् ३।
विद्युन्मालीति विख्यातो रावणस्य सुहृत्सखा ।
मत्सख्युः प्रेतभूतस्य निष्कृतिं कर्तुमेयिवान् ४।
क्वासौ रामो य आहत्य सखायं रावणं गतः ।
तस्य भ्रातापि कुत्रास्ते सर्वशूरशिरोमणिः ५।
तं हत्वा निष्कृतिं तस्य प्राप्स्ये रामस्य चानुजम् ।
पिबन्रुधिरमुद्भूतं कंठनालस्य बुद्बुदैः ६।
इति वाक्यं समाकर्ण्य योधानां प्रवरोत्तमः ।
पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितम् ७।
पुष्कल उवाच।
विकत्थनं न कुर्वंति संग्रामे सुभटा नराः ।
पराक्रमं दर्शयंति निजशस्त्रास्त्रवर्षणैः ८।
रावणो निहतो येन ससुहृत्स्वजनैर्वृतः ।
तस्य वाजिनमाहृत्य कुत्र गंतासि दुर्मद ९।
पतिष्यसि त्वं शत्रुघ्नबाणैः कोदंडनिर्गतैः ।
त्वामत्स्यंति शिवा भूमौ पतितं प्राणवर्जितम् १०।
मा गर्ज दुष्ट रामस्य सेवके मयि संस्थिते ।
गर्जंति सुभटा युद्धे शत्रुं जित्वा महोदयात् ११।
शेष उवाच।
एवं ब्रुवंतं तं वीरं पुष्कलं रणदुर्मदम् ।
जघान शक्त्या सुभृशं हृदि राक्षससत्तमः १२।
आयांतीं तां महाशक्तिमायसीं कांचनाश्रिताम् ।
चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः १३।
सा त्रिधा ह्यपतद्भूमौ विशिखैर्निष्प्रभीकृता ।
पतंती विरराजासौ विष्णोः शक्तित्रयीव किम् १४।
तां छिन्नां शक्तिकां दृष्ट्वा राक्षसः परतापनः ।
जग्राह शूलं तरसा त्रिशिखं लोहनिर्मितम् १५।
तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेंद्रो व्यमोचयत् ।
आयांतं तिलशश्चक्रे बाणैः पुष्कलसंज्ञितः १६।
छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः ।
पुष्कलश्चाप आधत्त बाणांस्तीक्ष्णान्मनोजवान् १७।
ते बाणा हृदि तस्याशु लग्ना रागं बतासृजन् ।
वैष्णवस्य यथा स्वांते गुणा विष्णोर्मनोहराः १८।
तद्बाणवेधदुःखार्तो विद्युन्माली सुदुर्मदः ।
जग्राह मुद्गरं घोरं पुष्कलं हंतुमुद्यतः १९।
मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि ।
हृदि लग्नोसृजच्छीघ्रं कश्मलं तदकारयत् २०।
मुद्गरप्रहतो वीरः कंपमानः सवेपथुः ।
पपात स्यंदनोपस्थे पुष्कलः शत्रुतापनः २१।
उग्रदंष्ट्रोऽथ तद्भ्राता लक्ष्मीनिधिमयोधयत् ।
शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृतिंकरैः २२।
पुष्कलस्तत्क्षणात्प्राप्य संज्ञां राक्षसमब्रवीत् ।
धन्योसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः २३।
पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिताम् ।
विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः २४।
इत्युक्त्वा निशितं बाणं समगृह्णाद्दुरासदम् ।
ज्वलंतमग्नितेजस्कं महौदार्यसमन्वितम् २५।
स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमम् ।
तावद्धृदिगतोऽत्युग्रस्तीक्ष्णधारः ससायकः २६।
तेन बाणेन विभ्रांतो भ्रमच्चित्तः स राक्षसः ।
पपात कामगोपस्थाद्भूमौ विगतचेतनः २७।
उग्रदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः ।
गृहीत्वा तं विमानांतर्निनाय रिपुशंकितः २८।
प्राह चारिं महारोषात्पुष्कलं बलिनां वरम् ।
मद्भ्रातरं पातयित्वा कुत्र यास्यसि दुर्मते २९।
मां वै युधि विनिर्जित्य गंतासि जयमुत्तमम् ।
स्थिते मयि तव स्वांते जयाशा विनिवर्त्य ताम् ३०।
एवं ब्रुवंतं तरसा जघान दशभिः शरैः ।
हृदये तस्य दुष्टस्य रोषपूरितलोचनः ३१।
स ताडितो दशशरैः पुष्कलेन महात्मना ।
चुक्रोध हृदि दुर्बुद्धिस्तं हंतुमुपचक्रमे ३२।
दंतान्निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनत् ।
व्यनदद्वज्रनिर्घातपातशंकां सृजन्हृदि ३३।
मुष्टिनाभिहतो वीरः पुष्कलः परमास्त्रवित् ।
नाकंपत विनिष्पेषं वांछंस्तस्य दुरात्मनः ३४।
वत्सदंतान्महातीक्ष्णान्मुमोच हृदि सायकान् ।
तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे ३५।
जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम् ।
लग्नं हृदि महावीर पुष्कलस्य तु दारुणम् ३६।
मूर्च्छितस्तेन शूलेन निहतो धन्विसत्तमः ।
कश्मलं परमं प्राप्तः पपात स्यंदनोपरि ३७।
मूर्च्छां प्राप्तं तमाज्ञाय हनूमान्पवनात्मजः ।
कोपव्याकुलितस्वांतो बभाषे तं तु राक्षसम् ३८।
कुत्र गच्छसि दुर्बुद्धे मयि योद्धरि संस्थिते ।
त्वां हन्मि चरणाघातैर्वाजिहर्तारमागतम् ३९।
एवमुक्त्वा महादैत्याञ्जघान परसैनिकान् ।
विमानस्थान्नखाग्रेण दारयन्नभसि स्थितः ४०।
लांगूलेनाहताः केचित्केचित्पादतला हताः ।
बाहुभ्यां दारिताः केचित्पवनस्य तनूभुवा ४१।
नश्यंति केचिन्निहताः केचिन्मूर्च्छंति संहताः ।
पलायंते पदाघातभयपीडाहतास्ततः ४२।
अनेके निहतास्तत्र राक्षसाश्चातिदारुणाः ।
छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै ४३।
कामगंतुविमानं तद्भिन्नप्राकारतोरणम् ।
हाहा कुर्वद्भिरसुरैः समंतात्परिवारितम् ४४।
हनूमति महाशूरे क्षणं भूमौ क्षणं दिवि ।
इतस्ततः प्रदृश्येत कामयानं दुरासदम् ४५।
यत्रयत्र विमानं तत्तत्रतत्र समीरजः ।
प्रहरन्नेव दृश्येत कामरूपधरः कपिः ४६।
एवं तदाकुलीभूते विमानस्थे महाजने ।
उग्रदंष्ट्रस्तु दैत्येंद्रो हनूमंतमुपेयिवान् ४७।
कपे त्वया महत्कर्म कृतं यद्भटपातनम् ।
क्षणं तिष्ठसि चेत्कुर्वे तव प्राणवियोजनम् ४८।
एवमुक्त्वा हनूमंतं प्रजघान स दुर्मतिः ।
त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककांतिना ४९।
तदागतं त्रिशूलं च मुखे जग्राह वीर्यवान् ।
चूर्णयामास सकलं सर्वलोहविनिर्मितम् ५०।
चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितम् ।
जघान तं चपेटाभिर्बह्वीभिर्हनुमान्बली ५१।
स आहतः कपीन्द्रेण चपेटाभिरितस्ततः ।
व्यथितो व्यसृजन्मायां सर्वलोकभयंकरीम् ५२।
तदा तमोभवत्तीव्रं यत्र को वा न लक्ष्यते ।
यत्र स्वीयो न पारक्यो विदामास जनान्बहून् ५३।
शिलाः पर्वतशृंगाभाः पतंति सुभटोपरि ।
ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे ५४।
विद्युतो विलसंत्यत्र गर्जंति जलदा घनम् ।
वर्षंति पूयरुधिरं मुंचंति समलं जलम् ५५।
आकाशात्पतमानानि कबंधानि बहूनि च ।
दृश्यंते छिन्नशीर्षाणि सकुंडलयुतानि च ५६।
नग्ना विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः ।
दृश्यंते सर्वतो दैत्या दारुणा भयकारिणः ५७।
तदा व्याकुलिता लोकाः परस्परभयाकुलाः ।
पलायनपरा जाता महोत्पातममंसत ५८।
तदा शत्रुघ्न आयातो रथे स्थित्वा महायशाः ।
श्रीरामस्मरणं कृत्वा चापे संधाय सायकान् ५९।
तां मायां स विधूयाथ मोहनास्त्रेण वीर्यवान् ।
शरधाराः किरन्व्योम्नि ववर्ष समरेसुरम् ६०।
तदादिशः प्रसेदुस्ता रविस्त्वपरिवेषवान् ।
मेघा यथागतं याता विद्युतः शांतिमागताः ६१।
तदा विमानं पुरतो दृश्यते राक्षसैर्युतम् ।
छिंधि भिंधीति भाषाभिर्व्याकुलं सुतरां महत् ६२।
बाणाश्च शतसाहस्राः स्वर्णपुंखैश्च शोभिताः ।
पेतुर्विमाने नभसि स्थिते कामगमे मुहुः ६३।
तदा भग्नं विमानं हि दृश्यते न तदुच्चकैः ।
स्वपुरी खण्डमेकत्र भग्नांगमिव भूतले ६४।
तदा प्रकुपितो दैत्यो बाणान्धनुषि संदधे ।
तैर्बाणैर्विकिरन्रामभ्रातरं चाभिगर्जितः ६५।
ते बाणाः शतशस्तस्य लग्ना वपुषि भूरिशः ।
शोभामापुः शोणितौघान्वहंतस्तीक्ष्णवक्त्रिणः ६६।
शत्रुघ्नः परया शक्त्या संयुक्तो वायुदैवतम् ।
अस्त्रं धनुषि चाधत्त राक्षसानां प्रकम्पनम् ६७।
तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः ।
दृश्यंते भूतवेतालसंघा इव नभश्चराः ६८।
तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः ।
अस्त्रं च पाशुपत्यं स चापे धाद्दनुजात्मजः ६९।
ततः प्रवृत्ता वेताला भूताः प्रेतनिशाचराः ।
कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु ७०।
ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा ।
जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः ७१।
तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभंजनम् ।
मुमोच तन्निरासाय चास्त्रं नारायणाभिधम् ७२।
नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात् ।
ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः ७३।
तदा क्रुद्धो निशाचारी विद्युन्माली समाददे ।
त्रिशूलं निशितं घोरं शत्रुघ्नं हंतुमुल्बणम् ७४।
शूलहस्तं समायांतं विद्युन्मालिनमाहवे ।
सायकैः प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः ७५।
तैर्बाणैश्छिन्नहस्तः स शिरसा हंतुमुद्यतः ।
हतोसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति ७६।
इति ब्रुवाणं तरसा चिच्छेद शितसायकैः ।
मस्तकं तस्य बलिनः शूरस्य सह कुंडलम् ७७।
तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रः प्रतापवान् ।
मुष्टिना हंतुमारेभे शत्रुघ्नं शूरसेवितम् ७८।
शत्रुघ्नस्तु क्षुरप्रेण सायकेनाच्छिनच्छिरः ।
प्रधावतो रणे वीरान्सर्वशस्त्रास्त्रकोविदान् ७९।
हतशेषा ययुः सर्वे राक्षसा नाथवर्जिताः ।
शत्रुघ्नं प्रणिपत्याथ ददुर्वाजिनमाहृतम् ८०।
ततो वीणानिनादाश्च शंखनादाः समंततः ।
श्रूयंते शूरवीराणां जयनादा मनोहराः ८१।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे विद्युन्मालिनामराक्षसपराजयोनाम चतुस्त्रिंशत्तमोऽध्यायः ३४ ।