पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३५
← अध्यायः ०३४ | पद्मपुराणम् अध्यायः ०३५ वेदव्यासः |
अध्यायः ०३६ → |
शेष उवाच।
प्राप्य तं वाजिनं राजा शत्रुघ्नो राक्षसैर्हृतम् ।
अत्यंतं हर्षमापेदे पुष्कलेन समन्वितः १।
रुधिरैः सिक्तगात्रास्ते योधा लक्ष्मीनिधिस्तथा ।
रणोत्साहेन संयुक्तं प्रशशंसुर्महानृपम् २।
हते तस्मिन्महादैत्ये विद्युन्मालिनि दुर्जये ।
सुराः सर्वे भयं त्यक्त्वा सुखमापुर्मुनेमहत् ३।
नद्यस्तु विमला जाता रविस्तु विमलोऽभवत् ।
वाता ववुः सुगंधोद सिक्ता विमलशुष्मिणः ४।
सन्नद्धास्ते महावीरा रथस्था विमलांगकाः ।
राजानमूचुस्ते सर्वे जयलक्ष्म्या समन्विताः ५।
वीरा ऊचुः।
दिष्ट्या हतस्त्वया दैत्यो विद्युन्माली महामते ।
यद्भयात्त्रासमापन्नाः सुराः स्वर्गान्निराकृताः ६।
दिष्ट्या प्राप्तो महावाजी रघुनाथस्य शोभनः ।
दिष्ट्या गंतासि सर्वत्र जयं तु क्षितिमंडले ७।
स्वामिन्मुंचत्विमं वाहं मनोवेगं मनोरमम् ।
समयस्य विलंबो मा भवत्वत्र महामते ८।
शेष उवाच।
इति श्रुत्वा तु तद्वाक्यं वीराणां समयोचितम् ।
साधु साधु प्रशस्यैतान्मुमोच हयसत्तमम् ९।
स मुक्तश्चोत्तरामाशां बभ्रामाथ सुरक्षितः ।
रथपत्तिहयश्रेष्ठैः सर्वशस्त्रास्त्रकोविदैः १०।
तत्र यद्वृत्तमेतस्य शत्रुघ्नस्य मनोहरम् ।
वात्स्यायन शृणुष्वैतत्पापराशिप्रदाहकम् ११।
रेवातीरमथ प्राप्तो मुनिवृंदनिषेवितम् ।
नीलरत्नसमूहस्य रसः किं तु पयो मिषात् १२।
तांस्तान्मुनिवरान्सर्वान्प्रणमञ्छूरसेवितः ।
जगाम हयरत्नस्य पृष्ठतः कामगामिनः १३।
गच्छंस्तत्राश्रमं जीर्णं पलाशपर्णनिर्मितम् ।
रेवायाजलकल्लोलैः सिक्तं पापहराश्रयम् १४।
तं दृष्ट्वा सुमतिं प्राह सर्वज्ञं नयकोविदम् ।
शत्रुघ्नः सर्वधर्मार्थकर्मकर्तव्यकोविदः १५।
राजोवाच।
मंत्रिन्कथय कस्यायमाश्रमः पुण्यदर्शनः ।
विचारचतुरश्रेष्ठ वदैतन्मम पृच्छतः १६।
शेष उवाच।
इति वाक्यं समाकर्ण्य सुमतिः प्राह तं नृपम् ।
विशद स्मेरया वाचा दर्शयन्नात्मसौहृदम् १७।
सुमतिरुवाच।
एनं दृष्ट्वा महाराज धूतपापा वयं खलु ।
भविष्यामो मुनिश्रेष्ठं सर्वशास्त्रपरायणम् १८।
तस्मान्नत्वा तमापृच्छ सर्वं ते कथयिष्यति ।
रघुनाथपदांभोजमकरंदाति लोलुपः १९।
नाम्ना त्वारण्यकं ख्यातं रघुनाथांघ्रिसेवकम् ।
अत्युग्रतपसा पूर्णं सर्वशास्त्रार्थकोविदम् २०।
इति श्रुत्वा तु तद्वाक्यं धर्मार्थपरिबृंहितम् ।
जगाम तमथो द्रष्टुं स्वल्पसेवकसंयुतः २१।
हनूमान्पुष्कलो वीरः सुमतिर्मंत्रिसत्तमः ।
लक्ष्मीनिधिः प्रतापाग्र्यः सुबाहुः सुमदस्तथा २२।
एतैः परिवृतो राजा शत्रुघ्नः प्रापदाश्रमम् ।
नमस्कर्तुं द्विजवरमारण्यकमुदारधीः २३।
गत्वा तं तापसश्रेष्ठं नमस्कारमथाकरोत् ।
सर्वैस्तैः सहितो वीरैर्विनयानतकंधरैः २४।
तान्दृष्ट्वा सन्नतान्सर्वाञ्छत्रुघ्नप्रमुखान्नृपान् ।
अर्घ्यपाद्यादिकं चक्रे फलमूलादिभिस्तदा २५।
उवाच तान्नृपान्सर्वान्भवंतः कुत्र संगताः ।
कथमत्र समायातास्तत्सर्वं वदतानघाः २६।
तच्छ्रुत्वा वाक्यमेतस्य मुनिवर्यस्य वाडव ।
सुमतिः कथयामास वाक्यं वादविचक्षणः २७।
सुमतिरुवाच।
रघुवंशनृपस्यायमश्वो वै पाल्यतेऽखिलैः ।
यागं करिष्यते वीरः सर्वसंभारसंभृतम् २८।
तच्छ्रुत्वा वचनं तेषां जगाद मुनिसत्तमः ।
दंतकांत्याखिलं घोरं तमोनिर्वारयन्निव २९।
आरण्यक उवाच।
किं यागैर्विविधैरन्यैः सर्वसंभारसंभृतैः ।
स्वल्पपुण्यप्रदैर्नूनं क्षयिष्णुपददातृभिः ३०।
मूढो लोको हरिं त्यक्त्वा करोत्यन्यसमर्चनम् ।
रघुवीरं रमानाथं स्थिरैश्वर्यपदप्रदम् ३१।
यो नरैः स्मृतमात्रोपि हरते पापपर्वतम् ।
तं मुक्त्वा क्लिश्यते मूढो यागयोगव्रतादिभिः ३२।
अहो पश्यत मूढत्वं लोकानामतिवंचितम् ।
सुलभं रामभजनं मुक्त्वा दुर्ल्लभमाचरेत् ३३।
सकामैर्योगिभिर्वापि चिंत्यते कामवर्जितैः ।
अपवर्गप्रदं नॄणां स्मृतमात्राखिलाघहम् ३४।
पुराहं तत्त्ववित्सायां ज्ञानिनं सुविचारयन् ।
अगमं बहुतीर्थानि तत्त्वं कोपि न मेऽदिशत् ३५।
तदैकं हि महद्भाग्यात्प्राप्तं वै लोमशं मुनिम् ।
स्वर्गलोकात्समायातं तीर्थयात्राचिकीर्षया ३६।
तमहं प्रणिपत्याथ पर्यपृच्छं महामुनिम् ।
महायुषं महायोगिसंसेवितपदद्वयम् ३७।
स्वामिन्मयाद्य मानुष्यं प्राप्तमद्भुतदुर्ल्लभम् ।
संसारघोरजलधिं किं कर्तव्यं तितीर्षुणा ३८।
विचार्य कथय त्वं तद्व्रतं दानं जपो मखः ।
देवो वा विद्यते यो वै संसृत्यंभोधितारकः ३९।
यज्ज्ञात्वा संसृतिं घोरां तरामि त्वत्कृपाब्धितः ।
तन्मे कथय योगेश सर्वशास्त्रार्थपारग ४०।
इति मद्वाक्यमाकर्ण्य जगाद मुनिसत्तमः ।
शृणुष्वैकमना विप्र श्रद्धया परया युतः ४१।
संति दानानि तीर्थानि व्रतानि नियमा यमाः ।
योगा यज्ञास्तथानेके वर्तंते स्वर्गदायकाः ४२।
परं गुह्यं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।
तच्छृणुष्व महाभाग संसारांभोधितारकम् ४३।
नास्तिकाय न वक्तव्यं न चाऽश्रद्धालवे पुनः ।
निंदकाय शठायापि न देयं भक्तिवैरिणे ४४।
रामभक्ताय शांताय कामक्रोधवियोगिने ।
वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम् ४५।
रामान्नास्ति परो देवो रामान्नास्ति परं व्रतम् ।
न हि रामात्परो योगो न हि रामात्परो मखः ४६।
तं स्मृत्वा चैव जप्त्वा च पूजयित्वा नरः परम् ।
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं तथा ४७।
संस्मृतो मनसा ध्यातः सर्वकामफलप्रदः ।
ददाति परमां भक्तिं संसारांभोधितारिणीम् ४८।
श्वपाकोपि हि संस्मृत्य रामं याति परां गतिम् ।
ये वेदशास्त्रनिरतास्त्वादृशास्तत्र किं पुनः ४९।
सर्वेषां वेदशास्त्राणां रहस्यं ते प्रकाशितम् ।
समाचर तथा त्वं वै यथा स्यात्ते मनीषितम् ५०।
एको देवो रामचंद्रो व्रतमेकं तदर्चनम् ।
मंत्रोऽप्येकश्च तन्नाम शास्त्रं तद्ध्येव तत्स्तुतिः ५१।
तस्मात्सर्वात्मना रामचंद्रं भजमनोहरम् ।
यथा गोष्पदवत्तुच्छो भवेत्संसारसागरः ५२।
श्रुत्वा मया तु तद्वाक्यं पुनः प्रश्नमकारिषम् ।
कथं वा ध्यायते देवः कथं वा पूज्यते नरैः ५३।
कथयस्व महाबुद्धे सर्वज्ञ मम विस्तरात् ।
यज्ज्ञात्वाहं कृतार्थः स्यां त्रिलोक्यां मुनिसत्तम ५४।
एतच्छ्रुत्वा तु मद्वाक्यं विचार्य स तु लोमशः ।
कथयामास मे सर्वं रामध्यानपुरःसरम् ५५।
शृणु विप्रेंद्र वक्ष्यामि यत्पृष्टं तु त्वयानघ ।
यथा तुष्येद्रमानाथः संसारज्वरदाहकः ५६।
अयोध्यानगरे रम्ये चित्रमंडपशोभिते ।
ध्यायेत्कल्पतरोर्मूले सर्वकामसमृद्धिदे ५७।
महामरकतस्वर्णनीलरत्नादिशोभितम् ।
सिंहासनं चित्तहरं कांत्या तामिस्रनाशनम् ५८।
तस्योपरि समासीनं रघुराजं मनोरमम् ।
दूर्वादलश्यामतनुं देवदेवेंद्रपूजितम् ५९।
राकायां पूर्णशीतांशुकांतिधिक्कारिवक्त्रिणम् ।
अष्टमीचंद्रशकलसमभालाधिधारिणम् ६०।
नीलकुंतलशोभाढ्यं किरीटमणिरंजितम् ।
मकराकारसौंदर्यकुंडलाभ्यां विराजितम् ६१।
विद्रुमच्छवि सत्कांतिरदच्छदविराजितम् ।
तारापतिकराकार द्विजराजि सुशोभितम् ६२।
जपापुष्पाभया माध्व्या जिह्वया शोभिताननम् ।
यस्यां वसंति निगमा ऋगाद्याः शास्त्रसंयुताः ६३।
कंबुकांतिधरग्रीवा शोभया समलंकृतम् ।
सिंहवदुच्चकौ स्कन्धौ मांसलौ बिभ्रतं वरम् ६४।
बाहू दधानं दीर्घांगौ केयूरकटकांकितौ ।
मुद्रिकाहीरशोभाभिर्भूषितौ जानुलंबिनौ ६५।
वक्षो दधानं विपुलं लक्ष्मीवासेन शोभितम् ।
श्रीवत्सादिविचित्रांकैरंकितं सुमनोहरम् ६६।
महोदरं महानाभिं शुभकट्याविराजितम् ।
कांच्या वै मणिमत्या च विशेषेण श्रियान्वितम् ६७।
ऊरुभ्यां विमलाभ्यां वै जानुभ्यां शोभितं श्रिया ।
चरणाभ्यां वज्ररेखा यवांकुशसुरेखया ६८।
युताभ्यां योगिध्येयाभ्यां कोमलाभ्यां विराजितम् ।
ध्यात्वा स्मृत्वा च संसारसागरं त्वं तरिष्यसि ६९।
तमेव पूजयन्नित्यं चंदनादिभिरिच्छया ।
प्राप्नोति परमामृद्धिमैहिकामुष्मिकीं पराम् ७०।
त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमम् ।
तत्ते कथितमेतद्वै संसारजलधिं तर ७१।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे आरण्यकोपाख्याने लोमशारण्यकसंवादोनाम पंचत्रिंशत्तमोऽध्यायः ३५ ।