सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ११३

विकिस्रोतः तः
← अध्यायः ११२ पद्मपुराणम्
अध्यायः ११३
वेदव्यासः
अध्यायः ११४ →

त्रयोदशोत्तरशततमोऽध्यायः 5.113

श्रीराम उवाच-
खे दृश्यंते विमानस्था नानारूपधराः शुभाः ।
सर्वकामफलोपेताः सुभार्य्याः शतयोषितः १।
सहस्रनरनारीभिः पूज्यमानाः पदे पदे ।
गायंति विंशतिर्योषा रूपलावण्यकोमलाः २।
करंकवाहिनी चैका चामरासक्तबाहवः ।
तालवृंतद्वयं नार्य्यो वीजयंति प्रगृह्य वै ३।
सचक्रे चांकमध्ये स्या उपधानं तथापरः ।
एकस्याः करयोर्हस्तः स्तावकानेकसंयुतः ४।
नानाविधपरीहास कृतोत्फुल्लमुखांबुजः ।
एकैकत्र विमाने तु दृश्यते चंद्रदीधितिः ५।
स्त्रीशतेषु विमानेषु दृश्यते ईश्वरः शुभः ।
एते किं पुण्यकर्तारो विष्णुमायाथवा मुने ६।
शंभुरुवाच-
एते हि ब्राह्मणाः पुण्या गृहस्थाश्रमवासिनः ।
येषामेव च स ग्रासो दत्तो दशरथेन ते ७।
तेषां तु ममचित्तानां कदाचिदभवन्मतिः ।
यथेह सुखिनः सर्वे वयं चान्योपजीविनः ८।
अस्मानेवानुजीवंति शतशो मनुजा इह ।
येन पुण्येन च वयं सर्वेकामानुमोदिनः ९।
सुस्त्रीकृतोपचाराश्च सर्वे राज्यसुखान्विताः ।
जरामरणहीनाश्च युवानः सर्वदैव हि १०।
विचार्यैवं द्विजाः सर्वे वसिष्ठस्याश्रमं ययुः ।
आगतानथ संपूज्य वसिष्ठो वाक्यमुक्तवान् ११।
किमर्थमागता यूयं शीघ्रं ब्रूत द्विजोत्तमाः ।
द्विजा ऊचुः -
वयमिच्छामहे सर्वे सर्वसंपत्समन्विते १२।
विमाने कामगे रोढुं तत्संपादय नो गुरो ।
तत्तेषां चिंतितं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् १३।
पुराणं सर्वदा विप्राः श्रोतव्यं पापनाशनम् ।
धर्मश्चार्थश्च कामश्च मोक्षस्तत्रैव दृश्यते १४।
तथेत्युक्त्वाथ सुनयः पुराणकुशलं मुनिम् ।
जग्मुरंगिरसं श्रेष्ठं सर्वशास्त्रविशारदम् १५।
सर्वागमपुराणज्ञं सदा सत्कर्म्मचारिणम् ।
इदमूचुर्नमस्कृत्य वयं सफलजीविनः १६।
कृतकृत्या वयं ब्रह्मन्साक्षाद्दृष्टोऽसि यन्मुने ।
अंगिरा उवाच-
यत्कार्यमागता यूयं तत्कार्यं करवाण्यहम् १७।
पुराणं श्रोतुकामास्तु यूयमत्र समागताः ।
कीर्तयिष्ये विधानं वः समस्ताघविनाशनम् १८।
सर्वज्ञानप्रदं देवं तत्वविज्ञानसंभवम् ।
शिवभक्तिप्रदं हृद्यं विष्णुभक्तिप्रदं शुभम् १९।
विचित्रस्वगतिप्राप्ति ज्ञानदं रमणीप्रदम् ।
नानाविधशुभज्ञानं रतितंत्रप्रकाशकम् २०।
भुक्तिमुक्तिप्रधानं च विधिदर्शनदीपकम् ।
विचित्रभक्तिकथनं भक्तिसाहसकीर्तनम् २१।
व्रतप्रतिष्ठादानादि भस्मपूजाविधिप्रद्रम् ।
पुराणं पाद्ममुदितं ब्रह्मपद्मोपनिर्वृतम् २२।
महेश्वरेण कथितं प्रमथाकृतिवर्णनम् ।
एतदन्यत्र कथितं पुराणे पाद्म एव तु २३।
दिलीपेनपुरापृष्टोवसिष्ठःप्रोक्तवानिदम् ।
तच्छृणुध्वं मुनिवरा ज्ञानं सर्वं भविष्यति २४।
अथ तद्वचनाद्विप्राः पुराणश्रवणे रताः ।
कथं श्रोतव्यमधुना किं कृत्वेत्यब्रुवन्मुनिम् २५।
सोऽपि सर्वं समाचष्ट शृणु धर्मं सनातनम् ।
नमस्कृत्य पुराणज्ञं दद्याच्चार्घासनं ततः २६।
निषीद तत्र चेत्युक्त्वा गंधपुष्पैः समर्चयेत् ।
आत्मयोगं च तांबूलमधिकं वा समर्पयेत् २७।
ब्रूहि पुण्यकथां ब्रह्मन्पौराणिकीमितीरयेत् ।
न खट्वासनमारुह्य नोच्चासनमथापि वा २८।
नीचासनो वै शृणुयाद्धर्म्मकामार्थसिद्धये ।
शृण्वित्युक्त्वा पुराणज्ञ इमं मंत्रमुदीरयेत् २९।
नमो हरिंहरमथो गणेशं भारतीमतः ।
इष्टदेवं नमस्कृत्वा पुराणं वक्तुमर्हति ३०।
अर्द्धयामं प्रतिदिनं यदि वापीच्छया भवेत् ।
एवं पाठसमाप्तिं च श्रुत्वा कृत्यं समाचरेत् ३१।
श्रोतुश्च तूष्णीं मननं तूष्णीं श्रवणमेव वा ।
अन्यथा भारती क्रुद्ध्येत् तत्क्रोधान्मूकता भवेत् ३२।
तस्मात्पुराणश्रोता च तांबूलादिसमर्पणम् ।
वक्तुश्च जीविकाकार्या स्वसामर्थ्यानुसारतः ३३।
पुराणप्रक्रमे देयं सचेलोद्गमनीयकम् ।
सूक्ष्मांबरमथो वापि वस्त्रद्वितयमर्पयेत् ३४।
आसनं तु महच्चित्रं रम्यमूर्जस्वलं मृदु ।
सुवर्णं वा तथा दद्याद्गो भू गेहादिकं तथा ३५।
एतत्समस्तं विप्रेंद्रा दक्षिणामूर्तिना पुरा ।
शंकरेण मुनीनां हि भाषितं च दिवौकसाम् ३६।
अथ ते मुनयः सर्वे तं प्रणम्यासनस्थितम् ।
पृथक्पृथक्च तांबूलं दत्वा शुश्रूषवः स्थिताः ३७।
तेनापि कथितं सर्वं पुराणं सर्वसंप्रदम् ।
उपांताध्यायपर्य्यंतं श्रुतवंतो द्विजोत्तमाः ३८।
दिलीप उवाच-
कामगेन विमानेन सर्वसंपत्समृद्धिना ।
सर्वतः सुखयुक्तेन पुण्यस्थानमुपस्थितम् ३९।
वसिष्ठ उवाच-
नालं पृष्टं त्वया राजन्नितोप्यतिशयांतरैः ।
क्रीडमाना भविष्यंति येन तत्पुण्यमुच्यते ४०।
सुधाधवलितं कृत्वा शिववेश्मसमं ततः ।
स्त्रियो रूपविलासाढ्याः सर्वालंकारभूषिताः ४१।
नानासुगीतकुशला नानानृत्यविशारदाः ।
चतस्रोऽष्टौ षडथवा मर्द्दलध्वनिकाः स्त्रियः ४२।
वशिन्यौ द्वे आवजिक्यौ कोणिकाधमने उभे ।
लासिक्यस्तु चतस्रः स्युः संतुष्टैकाथ गायिका ४३।
एका द्वे वा सुगीतज्ञेऽमुखरे हि प्रकीर्तिते ।
कोणवाद्यकृते द्वे तु तूष्णींभूताः षडष्ट वा ४४।
सर्वा रूपविलासिन्यः सर्वाश्चापतितस्तनाः ।
रतितंत्राधिकुशलास्तत एवाविशंकिताः ४५।
सुसूक्ष्मा वस्त्रवेषाश्च विद्युच्चंचलदृष्टयः ।
एतादृशीभिर्योषाभिर्येन नृत्यं हि कारितम् ४६।
एकस्मिन्दिवसे राजन्वत्सरान्सविमानगः ।
शतस्त्रीवीक्षितमुखो युवा बहुभिरर्चितः ४७।
आनंदपोषसंपूर्णः क्रोधेर्ष्यादिविवर्जितः ।
पंचगंधविलिप्तांगः सचंद्रा हिदलाननः ४८।
सूर्योपमस्तु योषाश्च सर्वास्ता दशनान्विताः ।
सद्योविकसितामोदि पारिजातकृतस्रजः ४९।
सर्वा विकसितारोहि रक्तसंधिकृतस्रजः ।
धम्मिल्ले वक्षसि तथा बिभ्रत्यः सुस्मिताधराः ५०।
चरत्येतादृशीभिस्तु नृत्यगीतानुमोदितः ।
एवं विमानगो भूत्वा उषित्वा कालमक्षयम् ५१।
पश्चाज्जायेत नृपतिरेवं कृत्वा पुनस्तथा ।
राज्यं स्वर्गफलं भुक्त्वा शिवभक्तो भविष्यति ५२।
शंभुरुवाच-।
दिलीपाय वसिष्ठोक्तं मुनीनामंगिरोब्रवीत् ।
ते तथा कृतवंतश्च तौर्य्यत्रिकमुमापतेः ५३।
श्रुत्वा पुराणं पाद्मं च समग्रं सुखिनो भवन् ।
त एते ब्राह्मणा राम विमानवरमास्थिताः ५४।
दृश्यंते खे च सुखिनः सदा मुदितमानसाः ।
एतत्ते सर्वमाख्यातं पुराणेषु विनिश्चितम् ५५।
इतः परं च किं भूयः श्रोतुमिच्छसि राघव ५६।
ति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे त्रयोदशोत्तरशततमोऽध्यायः ११३ ।