पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ११४
← अध्यायः ११३ | पद्मपुराणम् अध्यायः ११४ वेदव्यासः |
अध्यायः ११५ → |
राम उवाच-
क एष दृश्यते व्योम्नि सर्वाभरणभूषितः ।
विमानस्थो महादीप्त मध्याह्नार्क इवापरः १।
दुष्प्रेक्ष्यः सर्वमर्त्यानां तस्यांके चारुहासिनी ।
अपरा श्रीरिव ब्रह्मंस्तथा पंचसुयोषितः २।
गायंति मधुरां गीतिं सुभ्रूभंगनिरीक्षणैः ।
मंदस्मितैः करतलशब्दास्फोटिकया तथा ३।
क्वचिद्गलकृतैर्गीतैरन्योन्य करताडनैः ।
अन्योन्य मुखमालोक्य प्रलोभैर्गीतपूर्वकैः ४।
क्रीडन्नास्ते महायोगी पद्मकिंजल्कसन्निभः ।
एवं चरितपुण्येन केन वा तद्वदस्व मे ५।
शंभुरुवाच-
एष विप्रः पुरा राम सर्वसंपत्समन्वितः ।
नानाविधसुखोपेतो भार्य्यापोषणतत्परः ६।
अपुत्रो दानहीनश्च देवतार्चनवर्जितः ।
पंचयज्ञविहीनश्च स्वाध्यायपरिवर्जितः ७।
प्रातर्म्मध्याह्नसायाह्नभोजनप्रवणोऽशुचिः ।
कदाचिदगमद्गेहं गौतमस्य महात्मनः ८।
त्र्यंबकस्य गिरौ पुण्ये नानामुनिगणाश्रिते ।
तत्रापि शोभितगृहं स्फटिकस्तंभकल्पितम् ९।
अगुरुद्रवकस्तूरीचंद्र कुंकुमचर्चिता ।
भित्तिर्यस्य च संतानकुसुमामोदसौष्ठवम् १०।
कस्तूरिका पुष्परस समुत्सेचितभूतलम् ।
सूक्ष्म सुश्वेतविविधवितानपरिशोभितम् ११।
अंगणं शोभित महाकदलीपूगशोभितम् ।
समीपसरसीजात मंजुकूजन्मधुव्रतम् १२।
पाटीरतरुसंभूत गंधपूरितदिङ्मुखम् ।
शिक्षागीतकृताल्हाद गीतपूरितदिङ्मुखम् १३।
निदाघजनिताताप नाशयंत्रविनिर्मितम् ।
कदलीदलसंच्छादि पावकाकल्पितच्छदम् १४।
पाटीरतरुसुस्निग्ध सांद्र द्वारकपाटकम् ।
सौगंधिकमहामोदि कल्पितांतर भित्तिकम् १५।
ईशानभागसुभग रतिकल्पित वेदिकम् ।
हाटिकाकल्पितपदं विचित्रवेदिकायुतम् १६।
सुस्निग्धनि बिडच्छायं वटमूलोपकल्पितम् ।
प्रसूनकदलीखंड सरोभिः प्रांतशोभितम् १७।
महावटाग्रसंलग्न तुषारितपयोधरम् ।
नाकोपवनसंपन्न विचित्राराम शोभितम् १८।
वापीकूपतडागाद्यमनेकवनशोभितम् ।
मंदं मंदं ववौ वायुर्यत्र गेहे सुखप्रदः १९।
वादिन्यश्चारुसर्वांग्यो वाद्यानि स्मरसंपदः ।
वीणां वेणुं त्रिवेणुं च वादयंति वरांगनाः २०।
तौर्य्यत्रिककृतो नार्य्यश्चतुर्दिक्षु तथोर्द्ध्वतः ।
सुवर्णादिकपात्रेषु वटका भस्मनः शुभाः २१।
वासिताः सर्वगंधैश्च सुधूपैरपि धूपिताः ।
कुशग्रथितसंघाश्च अक्षमालाश्च कोटिशः २२।
कृष्णाजिनसहस्राणि बहिः प्रांते स्थितानि च ।
एतादृशे गृहवरे देववंद्यो मुनीश्वरः २३।
कर्पूरादींश्च संस्थाप्य चतुर्दिक्षु मुनीश्वरः ।
पाटीरपीठे कर्पूरसिंहासनमकल्पयत् २४।
सूक्ष्मं श्वेतं च सुस्रिग्धमावृत्तं घनसारकैः ।
सुगंधवासितजलैः स्नाप्य क्षीरेण शंकरम् २५।
अन्यैश्च वैदिकैर्मंत्रैः स्नापयित्वा सदाशिवम् ।
दारुचंद्रोपपीठे तु वस्त्रपीठं निधाय च ।
पात्रिकामग्रतः स्थाप्य स्थापयित्वा दलेष्वमून् २६।
एकस्मिन्नक्षताः पात्रे अन्यस्मिन्सतिलाक्षताः ।
पंचगंधकमेकस्मिन्नन्यस्मिन्नष्टगंधकम् २७।
काश्मीरं मृगनाभिं तु कर्पूरं चंदनं तथा ।
पात्रेष्वन्येषु विन्यस्य पूजास्थाने प्रकल्प्य च २८।
नानावरणमार्गेण पूजा तत्र विधीयते ।
लिंगमध्ये स्थितो देवः पंचवक्त्रः सदाशिवः २९।
तस्य प्रावरणं लिंगं शक्तिस्तस्य विधीयते ।
शक्तेरावरणं विष्णुर्विष्णोरावरणं विधिः ३०।
ब्रह्मप्रावरणं चंद्रस्तस्य सूर्यस्ततः श्रुतिः ।
दिग्देवतासु तद्गुप्तिस्तासामावरणं दिशः ३१।
दिशामावरणं शंभुस्तस्य चावरणं गुणाः ।
दशप्रावरणं ह्येतच्छिवलिंगार्चनं शुभम् ३२।
केषांचिन्मतमेतत्स्यादथ प्रावरणांतरम् ।
विद्यावरणमाख्यातं तदुमावरणं स्मृतम् ३३।
विष्णुरावरणं तस्या विष्णोश्चावरणं विधिः ।
ब्रह्मप्रावरणंचंद्रस्तस्य भानुरथावृतिः ३४।
भानोरावरणं चेश इति षोढावृतिः स्मृता ।
विधिं विना समाख्यातं पंचावरणमुत्तमम् ३५।
शशांकविष्णुशक्तीनामेतदावरणत्रयम् ।
अंबिकावरणं प्रोक्तमेकावरणमुत्तमम् ३६।
अथवा लोकपालाः स्युरावृतिः सोमपूजने ।
अनावरणमथवा पूजनं शस्यते शिवे ३७।
पत्रिकाष्टदलेष्वेव स्थितद्रव्यैर्यजेच्छिवम् ।
पत्रिकालक्षणं वक्ष्ये सर्वकर्मोपयोगितम् ३८।
स्वर्णेन राजतेनाथ ताम्रेणाथ प्रकल्पितम् ।
मुक्ताशुक्तिनिभं कुर्यात्पत्रिकाष्टदलं शुभम् ३९।
पद्मपत्रसमानाष्टकोणाकारं प्रकल्पयेत् ।
पलमात्रं ततः शस्तं निर्वृतं विस्तृतं पदम् ४०।
अस्थूलमध्यमुपरि पद्माकृतिदलाष्टकम् ।
अथवा शक्तिमार्गेण पंचपत्रं प्रकल्पयेत् ४१।
त्रिपत्रमथवा कुर्याच्छक्तिभावे मतेन च ।
यथा स्याच्छोभनं पात्रं तथा कुर्य्याद्विचक्षणः ४२।
शक्त्यांतरितरुद्राक्षैः कल्पिताष्टशतैः शुभा ।
मालोपवीतं त्रिंशत्या अष्टकेन प्रकल्पितम् ४३।
प्रगंडयोरथैकैकं बद्धा तु द्वे प्रकोष्ठयोः ।
शिरस्येका धृता तेन कंठे च परमर्षिणा ४४।
रुद्राक्षैः स्फटिकै रत्नैः कल्पिता ह्यक्षमालिका ।
व्याघ्रचर्मासनं कृत्वा पद्मासनगतो मुनिः ४५।
आवाहनासनं चार्घ्यं पाद्यं वाचमनीयकम् ।
निर्वर्त्य गंगासलिलैः स्नापयामास शंकरम् ४६।
अष्टगंधकसंयुक्तैः पुष्पैर्बकुलपाटलैः ।
स्वर्णभांडस्थितैर्वस्त्रशोधितैर्वासितैर्दृढम् ४७।
द्वारे ताम्रकटाहश्च प्रबंधद्रोणिना शुभम् ।
गोशृंगेण विषाणेन गवयस्य तथा क्वचित् ४८।
दक्षिणावर्तशंखेन रत्नपात्रैरथापि वा ।
स्वर्णैर्वा राजतैर्वापि ताम्रैः कांस्यैरथापि वा ४९।
स्वर्णैश्च सूक्ष्मकलशैः स्नापयामास चेच्छया ।
अथवा मृण्मयैः कुर्य्यात्पद्मपत्रैरथापि वा ५०।
पालाशैश्चूतजंब्वाद्यैः पात्रैः संस्नापयेद्विभुम् ।
स्नानानामथ सर्वेषां धारास्नानं विशिष्यते ५१।
नमस्तेत्यादिमंत्रेण शतरुद्रियसंज्ञिना ।
शं चेत्याद्यनुवाकेन शांतिरूपेण चेश्वरम् ५२।
आवृत्य च यथाशक्ति पश्चाद्गंधादि विन्यसेत् ।
ततश्च शोभनैः पुष्पैः पत्रैर्बिल्वैः समर्चयेत् ५३।
तुलसीमारुवदलैः कल्हारैश्च महोत्पलैः ।
नीलोत्पलैरुत्पलैश्च शेषैश्च करवीरकैः ५४।
कर्णिकारैः सितांभोजैरपराजितया तथा ।
तिलाक्षतैरक्षतैश्च श्रीपत्रैस्तिलमिश्रकैः ५५।
एवं महेशमीशानं पूजयामास गौतमः ।
कर्पूरागरुकस्तूरी सर्ज्जागरुकचंदनैः ५६।
अन्यैश्च धूपयामास षोडशाथ प्रदीपिकाः ।
कर्पूरवर्त्तिसंयुक्ता दीपयंत्रोपरिस्थिताः ५७।
निवेदितं महेशाय अथ नैवेद्यमुत्तमम् ।
सुपक्वशालिपिष्टान्नं भक्ष्यं लेह्यं च चोष्यकम् ५८।
मधुरादिसमोपेतं पंचभक्ष्यसमन्वितम् ।
अनेकपक्वशाकाढ्यमनेक पक्वमिश्रितम् ५९।
पानं विंशतिसंयुक्तं द्राक्षारंभाफलान्वितम् ।
सूपाष्टकादिसंयुक्तं युक्तं मूलफलादिना ६०।
यथासंभवसंयुक्तैरन्यैरप्युपकल्पितम् ।
अग्रपुष्पसमोपेतं नैवेद्यं प्रददौ मुनिः ६१।
सौवर्णपात्रिका न्यस्तनीराजनसहस्रकम् ।
सोपहाराय देवाय दत्वा चैव नमस्य च ६२।
पूगखंडानथो घृष्टान्पत्राणि क्षालितानि च ।
अपृष्ठाग्राणि सुश्वेतच्छदयावृतिकानि च ६३।
घनसारकचूर्णं च न्यस्तपत्रत्रयं शुभम् ।
सौवर्णपात्रविन्यस्तमिदं तांबूलमीश्वरे ६४।
अथ प्रदक्षिणं कृत्वा नमस्काराननंतरम् ।
अष्टयोषास्ततः प्राप्तास्तंत्रीवेण्वादिधारिकाः ६५।
विचित्रवाद्यवादिन्यः संप्राप्ता मुनिसन्निधिम् ।
क्षुद्रतालयुगं गृह्य स्वयं गातुं प्रचक्रमे ६६।
गौतमे गातुमुद्युक्ते तानं कुर्युरथांगनाः ।
मंदं मंदं च वाद्यानि वादयंति तथापराः ६७।
मधुरं गायति मुनौ स्वरामूर्तिभृतस्तथा ।
प्रानृत्यंत महेशाग्रे तदद्भुतमिवाभवत् ६८।
एतस्मिन्नंतरे प्राप्तो भगवान्नारदो मुनिः ।
तमागतं गौतमोपि संपूज्य प्रणिपत्य च ६९।
आहचैनंकृतार्थोस्मिनचकश्चिन्मयासमः ।
तवागमनकृत्यं किं कुत आगमनं तथा ७०।
श्रीनारद उवाच-
पातालादागतोस्मीह भुक्त्वा वै बाणमंदिरे ।
आयास्यंति महात्मानो बाणशुक्रादयो गृहम् ७१।
अथ क्षणादभ्यगाच्च बाणः परपुरंजयः ।
विंशत्यक्षौहिणीयुक्तो गजमारुह्य सोसुरः ७२।
अपरं हि गजं शुक्रः प्रह्लादो रथमुत्तमम् ।
वृषपर्वा रथवरं बलिस्तुरगमुत्तमम् ७३।
आगतानथ तान्सर्वानाज्ञाय स तु गौतमः ।
सशिष्यो निर्जगामाथ ह्यादायार्घ्यादिकं त्वरा ७४।
गौतमं चापि ते वीक्ष्यावरुह्य च गजादिकात् ।
नमश्चक्रुरथो दैत्यास्तं नमस्कृत्य भार्गवम् ७५।
आलिंग्य राक्षसान्सर्वान्पूजयित्वा यथाविधि ।
सेनायाः सन्निवेशं च चकार मुनिपुंगवः ७६।
पादौ प्रक्षाल्य शुक्रस्य जलं मूर्ध्नि धृतं तथा ।
विचित्रफलसंयुक्तं दत्तवानर्हणं मुनिः ७७।
वापीतडागसरसी स्नानपूर्वकृत क्रियाः ।
संगमे वर्तमाने तु गौतमस्याश्रमे शुभे ७८।
तद्गेहं तु प्रविश्याथ राक्षसास्सपुरोहिताः ।
देवपूजाप्रपत्तिं च चक्रुः सर्वे द्विजालये ७९।
सद्यः प्रकल्पितायां च वेद्यां शुक्रोऽयजच्छिवम् ।
तस्यैव वामभागे तु प्रह्लादोयजदच्युतम् ८०।
सोमं च बलिरप्येवमन्ये चासुरपुंगवाः ।
अथ बाणोऽयजद्देवमेकमेव त्रियंबकम् ८१।
शुक्रोपि भगवन्तन्तमुमानाथमपूजयत् ।
गौतमोप्यथ मध्याह्ने पूजयामास शंकरम् ८२।
सर्वे शुक्लांबरधरा भस्मोद्धूलितविग्रहाः ।
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुंड्रकम् ८३।
नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः ।
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपंचकम् ८४।
तेषां मध्ये महाकाशमाकाशे निर्मलानलम् ।
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ८५।
अज्ञानसंयुतं भूतं शमलं सर्वसंगतम् ।
तद्देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ८६।
आकाशस्यावृतं चाहं दग्ध्वाऽऽकाशमथो दहेत् ।
दग्ध्वाकाशमयो वायुमग्निभूतं तदा दहेत् ८७।
अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च ।
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ८८।
एवं दहित्वा भूतानि देही तज्ज्ञानवह्निना ।
शिखामध्यस्थितं विष्णुमानंदरसनिर्भरम् ८९।
निष्पन्नचंद्रकिरणसंकाशकिरणं शिवम् ।
शिवांगोत्पन्नकिरणैरमृतद्रवसंयुतैः ९०।
सुशीतला ततो ज्वाला प्रशांता चन्द्ररश्मिवत् ।
प्रसारितसुधारुग्भिः सांद्रीभूतश्च संप्लवः ९१।
क्रमेण प्लावितं भूतग्रामं संचिंतयेत्परम् ९२।
इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते एव शुद्धः ।
पूजां कर्तुं जाप्यकर्म्मापि पश्चाद्देवध्याने ब्रह्महत्यादि हानिः ९३।
एवं ध्यात्वा चंद्रदीप्तिप्रकाशं ध्यानेनारोप्याशु लिंगे शिवस्य ।
सदाशिवं दीपमध्ये विचिंत्य पंचाक्षरेणार्चनमव्ययं तु ९४।
आवाहनादीनुपचारांस्तथापि कृत्वा स्नानं पूर्ववच्छंकरस्य ।
उदुंबरं राजतं स्वर्णपीठं वस्त्रादिछन्नं सर्वमेवेह पीठम् ९५।
अंते कृत्वा बुद्बुदानां च वृष्टिं पीठे पीठे नागमेकं पुरस्तात् ।
कुर्यात्पीठे चोर्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ९६।
जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादश प्रातिगुण्ये ।
सुश्वेतेन तस्य मध्ये महेशं लिंगाकारं पीठयुक्तं प्रपूज्यम् ९७।
एवं कृत्वा बाणमुख्या दितीशा दत्त्वा दत्त्वा पंचगंधाष्टगंधम् ।
पुष्पैः पत्रैः श्री तिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्च प्रपूज्य ९८।
धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् ।
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्रतत्रापि चक्रुः ९९।
अथास्मिन्नंतरे गौतमस्यप्राप्तः शिष्यः शंकरात्मेति नाम्ना १००।
उन्मत्तवेशो दिग्वासा अनेकावृतिमाश्रितः ।
क्वचिद्द्विजातिप्रवरः क्वचिच्चंडालसन्निभः १०१।
क्वचिच्छूद्र समो योगी तापसः क्वचिदप्युत ।
गर्जत्युत्पतते चैव नृत्यति स्तौति गायति १०२।
रोदिति शृणुते व्यक्तं पतत्युत्तिष्ठति क्वचित् ।
शिवज्ञानैकसंपन्नः परमानंदनिर्भरः १०३।
संप्राप्तो भोज्यवेलायां गौतमस्यांतिकं ययौ ।
बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च १०४।
क्वचिल्लेहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् ।
हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित् १०५।
क्वचिद्गृहांतरे मूत्रं क्वचित्कर्दमलेपनम् ।
सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मंदिरम् १०६।
प्रवेश्य स्वीयपीठे तमुपवेश्याभ्यभोजयत् ।
स्वयं तदस्य पात्रेण बुभुजे गौतमो मुनिः १०७।
तस्य चित्तं परिज्ञातुं कदाचिदथ सुंदरी ।
अहल्या शिष्यमाहूय भुंक्ष्वेत्युक्त्वाथ सा शुभा १०८।
सौवर्णे भाजने चान्नं निधाय चषकांतरे ।
पानादिकमथो दत्वा एकस्मिन्पावकं पुनः १०९।
निधायांगारनिचयं कंटकानां चयं परे ।
निधाय भुंक्ष्व भुंक्ष्वेति स चापि बुभुजे मुनिः ११०।
यथा पपौ हि पानीयं तथा वह्निमपि द्विजः ।
कंटकानपि भुक्त्वा स यथापूर्वमतिष्ठत १११।
पुरा हि मुनिकन्याभिराहूतो भोजनाय च ।
दिनेदिने तत्प्रदत्तं लोष्ठमंबु च गोमयम् ११२।
कर्दमं काष्ठदंडं च भुक्त्वा प्रीत्याथ हर्षितः ।
एतादृशो मुनिरसौ चंडालसदृशाकृतिः ११३।
सुजीर्णोपानहौ हस्ते गृहीत्वा तु तथा करे ।
अंत्यजोचितभाषाभिर्वृषपर्वाणमभ्यगात् ११४।
वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्ठत ।
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत् ११५।
हते तस्मिन्द्विजश्रेष्ठे जगदेतच्चराचरम् ।
अतीव कलुषमभवत्तत्रस्था मुनयस्तथा ११६।
गौतमस्य महाशोकः संजातः सुमहात्मनः ।
निर्ययौ चक्षुषोर्वारि शोकं संदर्शयन्निव ११७।
गौतमः सर्वदैत्यानां संनिधौ वाक्यमुक्तवान् ।
किमनेन कृतं पापं येन च्छिन्नमिदं शिरः ११८।
मम प्राणाधिकस्येह सर्वदा शिवयोगिनः ।
ममापि मरणं सत्यं शिष्यरूपी यतो गुरुः ११९।
शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् ।
मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् १२०।
शुक्र उवाच-
एनं संजीवयिष्यामि मम गोत्रं शिवप्रियम् ।
किमसौ म्रियते ब्रह्मन्पश्य मे तपसो बलम् १२१।
इति वादिनि विप्रेंद्रे गौतमोऽपि ममार ह ।
तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः १२२।
तस्यापि हतमाज्ञाय प्रह्लादा द्दानवेश्वराः ।
सर्वे मृताः क्षणेनैव तदद्भुतमिवाभवत् १२३।
मृतमासीदथ बलं तस्य बाणस्य धीमतः ।
अहल्या शोकसंतप्ता रुरोदोच्चैः पुनः पुनः १२४।
गौतमेन महेशस्य पूजया पूजितो विभुः ।
वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह १२५।
अहो कष्टमहोकष्टं माहेशा बहवो मृताः ।
शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यहम् १२६।
इति निश्चित्य गतवान्मंदराचलमव्ययम् ।
नमस्कृत्वा विरूपाक्षमिदं सर्वमथोक्तवान् १२७।
ब्रह्म हरी स्थितौ तत्र दृष्ट्वा प्राह शिवो वचः ।
मद्भक्तैः साहसं कर्म कृतं दृष्ट्वा वरप्रदः १२८।
गत्वा पश्यामहे विष्णो युवामप्यागमिष्यथ ।
अथेशो वृषमारुह्य वायुना धूतचामरः १२९।
नंदिकेन सुवेषेण धृते छत्रेति शोभने ।
सुश्वेतहेमदंडे च नान्ययोगे धृते विभोः १३०।
महेशानुमतिं लब्ध्वा हरिर्नागांतके स्थितः ।
आरक्तनीलछत्राभ्यां शुशुभे लक्ष्यकौस्तुभः १३१।
शिवानुमत्या ब्रह्मापि हंसारूढोऽभवत्तदा ।
इंद्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः १३२।
इंद्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः ।
अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः १३३।
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ।
ब्रह्मविष्णुमहेशाना दृष्ट्वा तत्परमाद्भुतम् १३४।
स्वभक्तं जीवयामास वामकोणनिरीक्षणात् ।
शंकरो गौतमं प्राह तुष्टोऽहं ते वरं वृणु १३५।
गौतम उवाच-
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
त्वल्लिंगार्चनसामर्थ्यं नित्यमस्तु महेश्वर १३६।
वृतमेतन्मया देव शृणुष्वैतत्त्रिलोचन ।
मम शिष्यो महाभागो हेयाहेयादिवर्जितः १३७।
प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा ।
न च घ्राणेन घ्रातव्यं न दातव्यं न चेतरत् १३८।
इति बुद्घ्वा तथा कुर्वन्स हि योगी महायशाः ।
उन्मत्तविकृताकारः शंकरात्मेति कीर्तितः १३९।
न कश्चित्तं प्रतिद्विष्यान्न च तं हिंसयेदिति ।
एतन्मे दीयतां देव एतेषाममृतिस्तथा १४०।
श्रीभगवानुवाच-।
आकल्पमेते जीवंतु ततो मुक्तिं भजंतु च ।
त्वया कृतमिदं वेश्म विस्तृतं विकृतं शुभम् १४१।
तिष्ठामः क्षणमात्रं तु ततो यास्याम मंदिरम् ।
गौतम उवाच-
अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति १४२।
ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते ।
अथेशो विष्णुमालोक्य गृहीत्वा तु करं हरेः १४३।
प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः ।
म्लानोदरोसि गोविंद देयं ते भोजनं किमु १४४।
स्वयं प्रविश्य यदि वा स्वयं भुंक्ष्व स्वगेहवत् ।
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति १४५।
इत्युक्त्वा तत्करालंबी एकांतमगमद्विभुः ।
आदिश्य नंदिनं देवो द्वाराध्यक्षं यथोक्तवत् १४६।
गौतमं समुवाचायमुत्तरं विष्णुभाषणम् ।
सदाशिव उवाच-
संपादयान्नं सर्वेषां भोक्तुकामा वयं मुने १४७।
इत्युक्त्वैकांतमगमद्वासुदेवेन शंकरः ।
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ १४८।
अन्योन्यं भाषणं कृत्त्वा प्रोत्तस्थतुरुभावपि ।
गत्वा तटाकं गंभीरं स्नास्यंतौ देवसत्तमौ १४९।
करांबुपानमन्योन्यं पृथक्कृत्वोभयत्र च ।
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे १५०।
अथ विष्णुर्महेशश्च जलपातानि शीघ्रतः ।
चक्रतुः शंकरः पद्मकिंजल्कांजलिना हरेः १५१।
अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने ।
नेत्रे केशरसंपातान्न्यमीलयत केशवः १५२।
अत्रांतरे हरेः स्कंधमारुरोह महेश्वरः ।
हर्युत्तमांगं बाहुभ्यां गृहीत्वा संन्यमज्जयत् १५३।
उन्मज्जयित्वा च पुनः पुनश्चापि पुनः पुनः ।
पीडितः स हरिः सूक्ष्मं पातयामास शंकरम् १५४।
अथ पादौ गृहीत्वा तु आचकर्ष च भ्रामयत् ।
अताडयद्धरेर्वक्षः पातयामास चाच्युतम् १५५।
अथोत्थितो हरिस्तोयमादायंजलिना ततः ।
अवाकिरदथो शंभुमथ विष्णुमथो हरः १५६।
जलक्रीडैवमभवदथ चर्षिगणांतरे ।
जलक्रीडासंभ्रमेण विस्रस्तजटबंधनाः १५७।
अथ संभ्रमतस्तेषामन्योन्यजटबंधनम् ।
इतरेतरबद्धासु जटासु च मुनीश्वराः १५८।
शक्तिमंतोऽशक्तिमतः आकर्षंति च सव्यथम् ।
पातयंतोन्यतश्चापि क्रोशतो रुदतस्तथा १५९।
एवं प्रवृत्ते तुमुले संभूते तोयकर्म्मणि ।
आकाशे नारदो हृष्टो ननर्त च ननाद च १६०।
विपंचीं नादयन्वाद्यं ललितां गीतिमुज्जगौ ।
सुगीत्या ललितायास्तु अगायत विधा दश १६१।
शुश्राव गीतं मधुरं शंकरो लोकभावनः ।
स्वयं गातुं हि ललितं मंदं मंदं प्रचक्रमे १६२।
स्वयं गायति देवेशे मिश्रा मंगलकैशिकी ।
नारदे नृत्यमाने तु गायति स्वरभेदिनि १६३।
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् ।
स्वधारामृतसंयुक्तं गानेनैवमथो जयत् १६४।
वासुदेवो मर्दलं च कराभ्यामिदमाहनत् ।
अवगाहंश्चतुर्वक्त्रस्तुंबुरुर्मुखरो बभौ १६५।
तानका गौतमाद्यास्तु तूष्णीं गातुं च वायुतः ।
गायके मधुरं गीतं हनूमति कपीश्वरे १६६।
म्लानमम्लानमभवत्कृशाः पुष्टास्तदाऽभवन् ।
स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिताः १६७।
तूष्णीं सर्वे समभवन्देवर्षिगणदानवाः ।
एकः स हनुमान्गाता श्रोतारः सर्व एव ते १६८।
मध्याह्नकालवितते भोजनावसरे सति ।
दुकूलयुगमाधत्त शृण्वन्गीतिं महेश्वरः १६९।
पीतवस्त्रद्वयं विष्णुरारक्तं चतुराननः ।
स्वस्वार्हाण्यथ सर्वेऽपि कृत्यं कृत्वापि कालिकम् १७०।
स्वं स्वं वाहनमारुह्य निर्गताः सर्वदेवताः ।
गानप्रियो महेशस्तु जगाद प्लवगेश्वरम् १७१।
प्लवगत्वं मयाज्ञप्तो निःशंकं वृषमारुह ।
मम चाभिमुखो भूत्वा गायस्वाशेषगायनम् १७२।
अथाह कपिशार्दूलो भगवंतं महेश्वरम् ।
वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते १७३।
तव वाहनमारुह्य पातकी स्यामहं विभो ।
मामेवारुह देवेश विहंगः शिववाहनः १७४।
तव चाभिमुखं गानं करिष्यामि विलोकय ।
अथेश्वरो हनूमंतमारुरोह वृषं यथा १७५।
आरूढे शंकरे देवे हनूमान्कंधराशिरः ।
छित्त्वा त्वचं परावृत्य मुखं गायति पूर्ववत् १७६।
शृण्वन्गीतिसुधां शंभुर्गौतमस्य गृहं गतः ।
सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः १७७।
पूजिता गौतमेनाथ भोजनावसरे सति ।
यच्छुष्कदारुसंभूतं गृहोपकरणादिकम् १७८।
प्ररूढमभवत्सर्वं गायमाने हनूमति ।
तस्मिन्गाने समस्तानां चित्रदृष्टिरतिष्ठत १७९।
द्विबाहुरीशस्य पदाभिवंदनः समस्तगात्राभरणोपपन्नः ।
प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्धांजलिभिः सुरैः स्तुतः १८०।
शिरः कराभ्यां परिगृह्य शंकरो हनूमतः पूर्वमुखं चकार ।
पद्मासनासीन हनूमतांजलौ निधाय पादं त्वपरं मुखे च १८१।
पादांगुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मंदमंदम् ।
स्कंधे मुखे त्वंसतले च कंठे वक्षःस्थले च स्तनमध्यमे हृदि १८२।
ततश्च कुक्षावथ नाभिमंडले ततो द्वितीयं निदधाति चांजलौ ।
शिरो गृहीत्वावनमय्य शंकरः पस्पर्श पृष्ठं चिबुकेन सध्वनि १८३।
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कंठगतं चकार ह ।
अथ विष्णुर्महेशानमिदं वचनमुक्तवान् १८४।
हनूमता समो नास्ति कृत्स्नब्रह्मांडमंडले ।
श्रुति देवाद्यगम्यं हि पदं तव किलस्थितम् १८५।
सर्वोपनिषदव्यक्तं त्वत्पदं कपि सर्वयुक् ।
यमादिसाधनैर्योगैर्न क्षणं ते पदं स्थितम् १८६।
महायोगिहृदंभोजे बलं स्वच्छं हनूमति ।
वर्षकोटिसहस्रेषु तपः कृत्वा तु दुष्करम् १८७।
त्वद्रूपं नाभिजानाति कुतः पादं मुनीश्वराः ।
अहो भाग्यं विचित्रं हि चपलो वा नरो मृगः १८८।
धत्ते पादयुगं चांगे योगिहृद्यपि न क्षमम् ।
मया वर्षसहस्रं तु सहस्राब्दं तथान्वहम् १८९।
भक्त्या संपूजितोऽपीश पादो नो दर्शितस्त्वया ।
लोके वादो हि सुमहाञ्छुंभुर्नारायणप्रियः १९०।
हरिः प्रियस्तथा शंभोर्न तादृग्भाग्यमस्ति मे ।
सदाशिव उवाच-
न त्वया सदृशो मह्यं प्रियोस्ति भगवन्हरे १९१।
पार्वती वा त्वया तुल्या न चान्यो विद्यते मम ।
अथ देवाय महते गौतमः प्रणिपत्य च १९२।
व्यज्ञापयदमेयात्मन्देवैहि करुणानिधे ।
मध्याह्नोऽयं व्यतिक्रांतो भुक्तिवेलाऽखिलस्य च १९३।
अथाचम्य महादेवो विष्णुना सहितो विभुः ।
प्रविश्य गौतमगृहं भोजनायोपचक्रमे १९४।
रत्नांगुलीयैरथ नूपुराभ्यां दुकूलबंधेन तडित्सु कांच्या ।
हारैरनेकैरथ कंठनिष्क यज्ञोपवीतोत्तरवाससी च १९५।
विलंबिचंचन्मणिकुंडलेन सुपुष्पिधम्मिल्लवरेण देवः ।
पंचांगगंधस्य विलेपनेन बाह्वंगदैः कंकणकांगुलीयकैः १९६।
इत्थं विभूषितः शिवो निविष्टउत्तमासने स्वसंमुखं हरिं तथा न्यवेशयद्वरासने ।
अन्योन्यसंमुखौ स्थितौ हरीशौ देवसत्तमौ सुवर्णभाजनान्यथो ददौ स चापि गौतमः १९७।
त्रिंशत्प्रभेदभक्ष्यकं सुपायसं चतुर्विधं सुपक्वपाकजातकं शतद्वयं प्रकल्पितम् ।
अपक्वपक्वमिश्रकं शतत्रयं प्रकल्पितं शतंशतं तथा सुकंदशाककं तथा मुनिः १९८।
शाकादि सर्पिषान्वितं ददौ च पंचविंशतिं सुशर्करादिकं तथा सुचूनदाडिमादिकम् ।
मोचाफलं तु गोस्तनीं सुखर्जुनागरंगकं जंबूफलं प्रियालुकं विकंकतं फलं तथा १९९।
एवमादीनि चान्यानि द्रव्याण्यर्प्य यथाविधि ।
दत्वा चापोशनं विप्रो भुंजध्वमिति चाब्रवीत् २००।
भुंजानेषु च सर्वेषु व्यजनं सूक्ष्मवस्त्रजम् ।
गौतमः स्वयमादाय शिवविष्णू अवीजयत् २०१।
परिहासमथोकर्तुमियेष परमेश्वरः ।
पश्य विष्णो हनूमंतं कथं भुंक्ते स वानरः २०२।
वानरं पश्यति हरौ मंडकं विष्णुभाजने ।
चिक्षेप मुनिसंघेषु पश्यत्स्वपि महेश्वरः २०३।
हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् ।
त्वदुच्छिष्टमभोज्यं तु तवैव वचनाद्विभो २०४।
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं तथा ।
मह्यं निवेद्य सकलं कूप एव विनिक्षिपेत् २०५।
अभुक्ते त्वद्वचो नूनं भुक्ते चापि कृपा तव ।
सदाशिव उवाच-
बाणलिंगे स्वयंभूते चंद्रकांते ह्यवस्थिते २०६।
चांद्रायणसमं ज्ञेयं शंभोर्नैवेद्यभक्षणम् ।
भुक्तिवेलेयमधुना तद्वैरस्यं कथांतरात् २०७।
भुक्त्वा तु कथयिष्यामि निर्विशंकं विभुंक्ष्व तत् ।
अथासौ जलसंस्कारं कृतवान्गौतमो मुनिः २०८।
आरक्तसुस्निग्धसुसूक्ष्म गात्राननेकधा धौत सुशोषितांगान् ।
तडागतोयैः कृतवीजघर्षितैर्विशोधितैस्तैः करकानपूरयत् २०९।
नद्याः सैकतवेदिकां नवतरां संच्छाद्य सूक्ष्मांबरैः शुद्धैः श्वेततरैरथोपरिघटांस्तोयेन पूर्णान्क्षिपेत् ।
क्षिप्त्वा नालकजातिमास्तपुटकं कंकोलकस्तूरिकाचूर्णं चन्दनचंद्ररश्मिविशदां मालां पुटां तं क्षिपेत् २१०।
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुंभे क्षिपेच्चंद्र ग्रंथिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलाम् २११।
शेफालीस्तबकमथो जलं च तत्र विन्यस्य प्रथमत एव तोयशुद्धिम् ।
कृत्वाथो मृदुतरसूक्ष्मवस्त्रखंडेनावेष्टेत्सृणिकमुखं च सूक्ष्मचंद्रम् २१२।
अनातपप्रदेशे तु निधाय करकानथ ।
मंदवातसमोपेते सूक्ष्मव्यजनवीजिते २१३।
अथ उर्वीशसलिलैः सिंचयेत्सृणिकामपि ।
संस्कृत्वा स्वायतास्तत्र नरा नार्योथ वा नृप २१४।
तत्कन्या वा क्षालितांगा धौतवस्त्राश्च वा सह ।
मधुपिंगलनिर्य्यासमसांद्रमगुरुद्रवम् २१५।
बाहुमूले च कंठे च विलिप्य सांद्रमेव च ।
मस्तके जाप्यकं न्यस्य पंचगंधविलेपनम् २१६।
पुष्पनद्धसुकेशास्तु ताः शुभास्याः सुनिर्मलाः ।
एवमेवोचितानार्य आत्तकुंकुमविग्रहाः २१७।
युवत्यश्चारुसर्वांग्यो नितरां भूषणैरपि ।
एतादृग्वनिताभिर्वानरैर्वादापयेज्जलम् २१८।
तेऽपि प्रदानसमये सूक्ष्मवस्त्राल्पवेष्टनम् ।
अथवा मकरे न्यस्य करकं तत्र पश्य हि २१९।
दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् ।
एवं सत्कारयामास गौतमो भगवान्मुनिः २२०।
महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु ।
प्रक्षालितांघ्रिहस्तेषु गंधोद्वर्तितपाणिषु २२१।
तदासनसमासीने देवदेवे महेश्वरे ।
अथ नीचसमासीना देवाः सर्षिगणास्तथा २२२।
मणिपात्रेषु संवेष्ट्य पूगखंडान्सुधूपितान् ।
अकोणवर्तुलान्स्थूलानसूक्ष्मानकृशानपि २२३।
श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखंडकम् ।
चूर्णं च शंकरायाथ निवेदयति गौतमे २२४।
गृहाण देव तांबूलमित्युक्तवचने मुनौ ।
कपे गृहाण तांबूलं प्रयच्छ मम खंडकान् २२५।
उवाच वानरो नास्ति मम शुद्धिर्महेश्वर ।
अनेकफलभुक्तत्वाद्वानरस्तु शुचिः कथम् २२६।
सदाशिव उवाच-।
मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम् ।
मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः २२७।
मद्वाक्याद्धर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते ।
पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः २२८।
अतो गृहाण तांबूलं मम दद्याः सुखंडकान् ।
हरिर्वामकरेणादात्तांबूलं पूगखंडकम् २२९।
ततः पत्राणि संगृह्य ततः खंडान्समर्पयत् ।
कर्पूरमग्रतो दत्तं गृहीत्वाऽभक्षयच्छिवः २३०।
देवे तु कृततांबूले पार्वती मंदराचलात् ।
जया विजययोर्हस्तं गृहीत्वाऽऽयान्मुनेर्गृहम् २३१।
देवपादौ ततो नत्वा विनम्रवदनाऽऽभवत् ।
उन्नमय्य मुखं तस्या इदमाह त्रिलोचनः २३२।
त्वदर्थं देवदेवेशि अपराधः कृतो मया ।
यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुंदरि २३३।
अथ स्वमंदिरे स्थाप्य देवदेवविवर्जिते ।
सर्वबंधविमुक्ते च महदेनो मया कृतम् २३४।
क्षंतुमर्हसि देवेशि त्यक्तकोपा विलोकय ।
न बभाषैवमुक्त्वा सा अरुंधत्या हि निर्ययौ २३५।
निर्गच्छंतीं मुनिर्ज्ञात्वा दंडवत्प्रणनाम च ।
तदारभ्य महेशाय दंडप्रणति संस्तुतिम् २३६।
कुर्यादुवाच च शिवा गौतम त्वं किमिच्छसि ।
गौतम उवाच-
कृतकृत्योस्मि देवेशि यदि देयो वरो मम २३७।
मन्मंदिरे महाभागे भोक्तुमर्हसि सांप्रतम् ।
देव्युवाच-
भोक्ष्यामि तव गेहेहं शंकरानुमता मुने २३८।
गत्वेशं गौतमो विप्रो लब्धानुज्ञः पुनर्गतः ।
भोजयामास गिरिजां देवीं चारुंधतीं तथा २३९।
भुक्त्वाथ पार्वती सर्वं गंधपुष्पसभूषणा ।
सहानुचरकन्याभिः सहस्राभिर्हरं ययौ २४०।
अथाह शंकरो देवीं गच्छ गौतममंदिरम् ।
संध्योपास्तिमहं कृत्वा आगच्छामि पुनर्गृहम् २४१।
इत्युक्ता प्रययौ देवी गौतमस्यैव मंदिरम् ।
संध्यावंदनकामाश्च सर्वएव विनिर्गताः २४२।
कृतसंध्यास्तटाके तु महेशाद्यास्तु कृत्स्नशः ।
अथोत्तरमुखः शंभुर्न्यासं कृत्वा जजाप ह २४३।
अथविष्णुर्महातेजा महेशमिदमब्रवीत् ।
सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते २४४।
हूयते सर्वयज्ञेषु स भवान्किं जपिष्यति ।
रचितांजलयः सर्वे त्वामेवैकमुपासते २४५।
स भवान्देवदेवेश कस्मै वा रचितांजलि ।
नमस्कारादि पुण्यानां फलदस्त्वं महेश्वर २४६।
तव कः फलदो वंद्यः को वा त्वत्तोधिको वद ।
शंकर उवाच-
ध्याये न किंचिद्गोविंद न नमस्येह किंचन २४७।
नोपास्ये कंचन हरे न जपिष्येह किंचन ।
किंतु नास्तिकजंतूनां प्रवृत्त्यर्थमिदं मया २४८।
दर्शनीयं हरे ते स्युरन्यथा पापकारिणः ।
तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया २४९।
ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्ठत ।
अथ ते गौतमगृहं प्राप्ता देवगणर्षयः २५०।
सर्वे पूजामथो चक्रुर्देवदेवे पिनाकिने ।
देवो हनूमता सार्द्धं गायन्नास्ते रघूत्तम २५१।
पञ्चाक्षरीं महाविद्यां सर्व एव तदा जपन् ।
हनूमत्करमालंब्य देव्यभ्याशं गतो हरः २५२।
एकशय्यासमासीनौ तावुभौ देवदंपती ।
गायन्नास्ते स हनुमांस्तुंबुरुर्नारदस्तथा २५३।
नानाविधिविलासांश्च चकार परमेश्वरः ।
आहूय पार्वतीमीश इदं वाक्यमुवाच ह २५४।
श्रीसदाशिव उवाच-
रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे ।
देव्याह न च युक्तं तद्भर्त्राशुश्रूषणं स्त्रियः २५५।
केशप्रसाधनकृतावनर्थांतरमापतेत् ।
केशप्रसाधने देव तत्वं सर्वं न चेप्सितम् २५६।
अथ बंधे कृते पश्चादंसप्रांतप्रमार्जनम् ।
तनोश्चरमसंलग्न केशपुष्पादिमार्जनम् २५७।
एतस्मिन्वर्तमाने तु महात्मानो यदागमन् ।
तदा किमुत्तरं वाच्यं तव देवादिवंदिनः २५८।
नायांति चेदथ विभो भीतिर्नाशमुपेष्यति ।
एवं हि भाषमाणां तां करेणाकृष्य शंकरः २५९।
स्वोर्वोस्तां स्थापयित्वैव विस्रस्य कचबंधनम् ।
विभज्य च कराभ्यां स प्रससार नखैरपि २६०।
विष्णुदत्तां पारिजातस्रजं कचगतामपि ।
कृत्वा धम्मिल्लमकरोदथ मालां करागताम् २६१।
मल्लिकास्रजमादाय बबंध कचबंधने ।
कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः २६२।
पार्वतीवसने गूढगंधाढ्ये च समादधात् ।
अथांसपृष्ठसंलग्नमार्जनं कृतवान्विभुः २६३।
श्लथनीवेरधो देव्या वस्त्रवेष्टेरधोगतः ।
देवः किमिदमित्युक्त्वा नीवीबंधं चकार ह २६४।
नासाभूषणमेतत्ते पश्यामि स मदात्ततः ।
इत्युक्त्वा स्वयमादाय विच्छायं मौक्तिकं सती २६५।
हरिद्रायाः समायोगे मुक्ताफलमदीप्तिमत् ।
इदं हि ध्रियतां मुक्ताफलं मम तव प्रियम् २६६।
पार्वत्युवाच-
अहो त्वन्मंदिरं शंभो सर्ववस्तुसमृद्धिमत् ।
पूर्वमेव मया सर्वं वस्तुज्ञातं विभूषणैः २६७।
अहो द्रविणसंपत्तिर्भूषणैरवगम्यते ।
शिरोविभूषितं देव ब्रह्मशीर्षस्य मालया २६८।
नरकस्य तथा माला वक्षःस्थलविभूषणम् ।
शेषश्च वासुकिश्चैव सविषौ तव कंकणे २६९।
दिशोंऽबरे जटा केशा भसितं चांगरागकम् ।
महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च २७०।
ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः ।
एवं वदंतीं गिरिजां विष्णुः प्राहाति कोपनः २७१।
किमर्थं निंदसे देवि देवदेवं जगत्पतिम् ।
त्यक्ष्ये प्राणान्प्रियान्भद्रे तव नूनमसंयमम् २७२।
यत्रेशनिंदनं भद्रे तत्र नो मरणं व्रतम् ।
इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरोगतः २७३।
महेशस्तु करं गृह्य प्राह मा साहसं कृथाः ।
पार्वतीवचनं सर्वं प्रियं मम तवाप्रियम् २७४।
ममाप्रियं हृषीकेश कर्तुं यत्किंचिदिष्यते ।
ओमित्युक्त्वाथ भगवांस्तूष्णींभूतोऽभवद्धरिः २७५।
हनुमानथ देवाय व्यज्ञापयदिदं वचः ।
अर्थयामि विनिष्कामं मम पूजाव्रतं तथा २७६।
पूजार्थमप्यहं गच्छे ममानुज्ञातुमर्हसि ।
शंकर उवाच-
कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद २७७।
को गुरुः कश्च मंत्रस्ते कीदृशं पूजनं तथा ।
एवं वदति देवेशे हनूमानतिकंपितः २७८।
वेपमानसमस्तांगः स्तोतुमेव प्रचक्रमे ।
हनूमानुवाच-
नमो देवाय महते शंकरायामितात्मने २७९।
योगिने योगधात्रे च योगिनां गुरवे नमः ।
योगिगम्याय देवाय ज्ञानिनां पतये नमः २८०।
वेदानां पतये तुभ्यं देवानां पतये नमः ।
ध्यानायध्यनगम्याय धातॄणां गुरवे नमः २८१।
शिष्टायशिष्टगम्याय भूम्यादि पतये नमः ।
नमस्तेत्यादिना वेदवाक्यानां निधये नमः २८२।
आतनुष्वेतिवाक्यैश्च प्रतिपाद्याय ते नमः ।
अष्टमूर्ते नमस्तुभ्यं पशूनांपतये नमः २८३।
त्र्यंबकाय त्रिनेत्राय सोमसूर्याग्निलोचन ।
सुभृंगराजधत्तूरद्रोणपुष्पप्रियाय ते २८४।
बृहतीपूगपुंनाग चंपकादिप्रियाय च ।
नमस्तेस्तु नमस्तेस्तु भूय एव नमोनमः २८५।
शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् ।
हनुमानुवाच-
शिवलिगार्चनं कार्यं भस्मोद्धूलितदेहिना २८६।
दिवासंपादितैस्तोयैः पुष्पाद्यैरपि तादृशैः ।
देव विज्ञापयिष्यामि शिवपूजाविधिं शुभम् २८७।
सायंकाले तु संप्राप्ते अशिरः स्नानमाचरेत् ।
क्षालितं वसनं शुष्कं धृत्वाचम्य द्विरग्रधीः २८८।
अथ भस्म समादाय आग्नेयं स्नानमाचरेत् ।
प्रणवेन समामंत्र्याप्यष्टवारमथापि वा २८९।
पंचाक्षरेण मंत्रेण नाम्ना वा येनकेनचित् ।
सप्ताभिमंत्रितं भस्म दर्भपाणिः समाहरेत् २९०।
ईशानः सर्वविद्यानामुक्त्वा शिरसि पातयेत् ।
तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् २९१।
अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् ।
वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेत् २९२।
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः ।
उद्धूलयेत्समस्तांगे प्रणवेन विचक्षणः २९३।
त्रैवर्णिकानामुदितः स्नानादिविधिरुत्तमः ।
शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथा २९४।
शिवेति पदमुच्चार्य भस्मसंमंत्रयेत्सुधीः ।
सप्तवारमथादाय शिवायेति शिरः क्षिपेत् २९५।
शंकराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत् ।
स्थाणवे नम इत्युक्त्वा गुह्ये चापि स्वयंभुवे २९८।
उच्चार्य पादयोः क्षिप्त्वा भस्मशुद्धमतः परम् ।
नमः शिवायेत्युच्चार्य सर्वांगोद्धूलनं स्मृतम् २९७।
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः ।
दर्भाभावे सुवर्णं स्यात्तदभावे गवालकः २९८।
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम् ।
संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् २९९।
देववेदिमथो वापि कल्पितं स्थंडिलं तु वा ।
मृण्मयं कल्पितं शुद्धं पद्मादिरचनायुतम् ३००।
चातुर्वर्णक रंगैश्च श्वेतेनैकेन वा पुनः ।
विचित्राणि च पद्मानि स्वस्तिकादि तथैव च ३०१।
उत्पलादि गदा शंख त्रिशूलं डमरुं तथा ।
सरोक्तपंचप्रासादं शिवलिंगमथैव च ३०२।
सर्वकामफलं वृक्षं कुलकं कोलकं तथा ।
षट्कोणंचत्रिकोणंचनवकोणमथापिवा ३०३।
कोणद्वादशकांदोलां पादुकाव्यजनानि च ।
चामरच्छत्रयुगलं विष्णुब्रह्मादिकं तथा ३०४।
चूर्णैर्विरचयेद्वेद्यां धीमान्देवालयेऽपि वा ।
यत्रापि देवपूजा स्यात्तत्रैवं कल्पयेद्बुधः ३०५।
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् ।
याचितं तु कनिष्ठं स्याद्बलात्कारमथाधमम् ३०६।
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् ।
रक्तशालि जपा स्थाण कलमासित रक्तकैः ३०७।
तंदुलैर्व्रीहिमात्रोत्थैः कर्णैश्चैव यथाक्रमम् ।
उत्तमैर्मध्यमैश्चैव कथितैरधमैस्तथा ३०८।
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् ।
प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् ३०९।
आसनं च प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ।
कौशं चार्म्मं चैलतुल्यं दारवं ताडपत्रकम् ३१०।
कांबलं कांचनं चैव राजतं ताम्रमेव च ।
गोकरीषार्कजैर्वापि आसनं परिकल्पयेत् ३११।
वैयाघ्रं रौरवं चैव हारिणं मार्गमेव च ।
चार्मं चतुर्विधं ज्ञेयमथ बंधुकमेव च ३१२।
यथासंभवमेतेषु ह्यासनं परिकल्पयेत् ।
कृतपद्मासनो वापि स्वास्तिकासन एव च ३१३।
दर्भभस्मसमासीनः प्राणानायम्य वाग्यतः ।
तावत्स देवतारूपो ध्यानं चान्तः समाचरेत् ३१४।
शिखांते द्वादशांगुल्ये स्थितं सूक्ष्मतनुं शिवम् ।
अंतश्चरंतं भूतेषु गुहायां विश्वमूर्तिषु ३१५।
सर्वाभरणसंयुक्तमणिमादि गुणान्वितम् ।
ध्यात्वा तं धारयेच्चित्ते तद्व्याप्त्या पूरयेत्तनूम् ३१६।
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् ।
स्वर्णं पारदसंपर्काद्रक्तं श्वेतं यथा भवेत् ३१७।
तद्द्वादशदलावृत्तमष्टपंचत्रिरेव वा ।
परिकल्प्यासनं शुद्धं तत्र लिंगं निधाय च ३१८।
गुहास्थितं महेशानं लिंगे संचिंतयेत्तथा ।
शोधिते कलशे तोयं शोधितं गंधवासितम् ३१९।
सुगंधपुष्पं निक्षिप्य प्रणवेनाभिमंत्रितम् ।
प्राणायामश्च प्रणवः शूद्रेषु न विधीयते ३२०।
प्राणायामपदे ध्यानं शिवेत्योङ्कारमंत्रणम् ।
गंधपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च ३२१।
तानि स्थाप्य समीपे तु ततः संकल्पयिष्यते ।
शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च ३२२।
इति संकल्पयित्वा तु तत आवाहनादिकम् ।
कृत्वा तु स्नानपर्यंतं ततः स्नानं प्रकल्पयेत् ३२३।
नमस्तेत्यादिमंत्रेण शतरुद्रियविधानतः ।
अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता ३२४।
तया यः स्नापयेन्मासं जपन्रुद्रमुपांशु वा ।
एकवारं त्रिवारं च पंच सप्त नवापि वा ३२५।
एकादशमथो वारमथैकादशचान्वितम् ।
मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् ३२६।
शैवया विद्यया स्नानं केवलं प्रणवेन च ।
मृण्मयैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा ३२७।
कांस्येन मुक्ता भुक्त्या च पुष्पादिक सरेणवा ।
स्नापयेद्देवदेवेशं यथासंभवमीरितैः ३२८।
शृंगस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् ।
पूर्वमंतस्तु संशोध्य बहिरंतस्तु शोधयेत् ३२९।
सुस्निग्धं लघुकृत्वाथ नागं छिंद्यात्कथंचन ।
नीचैकदेशविन्यस्तद्वारद्रोण्या सुवृत्तयोः ३३०।
कुशानुयुतया स्नानं देवाय परिकल्पयेत् ।
एवं गवयशृंगस्य जलमूर्तिरथोच्यते ३३१।
द्वारे निषिद्धलोहार्द्धं संधिद्वारा समन्विते ।
योगवक्त्रं नागदंडं नागाकारं प्रकल्पयेत् ३३२।
फलस्थाने तु चषकं दंडेन समरंध्रकम् ।
तत्रैव पातयेत्तोयमूर्द्ध्वयंत्रघटे स्थितम् ३३३।
पातयेदथ चान्येन वामेनैव करेण वा ।
मुक्तिधाराकृता तेन पवित्रं पापनाशनम् ३३४।
एवं संस्थाप्य देवेशं पंचगव्यैस्तथैव च ।
पंचामृतैरथ स्नाप्य मधुरत्रितयेन च ३३५।
विभूष्य भूषकैर्देवं पुनः स्नाप्य महेश्वरम् ।
शीतोपचारं कृत्वाथ तत आचमनादिकम् ३३६।
वस्त्रं तथोपवीतं च पंचगंधकमेव च ।
कर्पूरमरुवं चापि पाटीरमथ वा भवेत् ३३७।
उभयं मिश्रितं वापि शिवलिंगं प्रपूजयेत् ।
कृत्स्नपीठं गंधपूर्णं यद्वा विभवसारतः ३३८।
तूष्णीमथोपचारं वा कालियं पुष्पमर्पयेत् ।
श्रीपत्रमरुचित्याजं यथाशक्त्याखिलं यथा ३३९।
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा ।
कपिलाघृतसंयुक्तं सर्वधूपाय शस्यते ३४०।
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् ।
अथवाप्याज्यमात्रेण दीपान्दत्वोपहारकम् ३४१।
यथाशक्त्युपपन्नं च दत्वा पुष्पसमन्वितम् ।
मुखशुद्धिं ततो दत्वा दत्वा तांबूलमादरात् ३४२।
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते ।
गीतांगपंचकं पश्चात्तानि विज्ञापयामि ते ३४३।
गीतं वाद्यं पुराणं च नृत्यं हासोक्तिरेव च ।
नीराजनं च पुष्पाणामंजलिश्चाखिलार्पणम् ३४४।
क्षमा चोद्वासनं चैव कीर्तितं चोपचारकम् ।
भूषणं च तथा छत्रं चामरं व्यजनं तथा ३४५।
शिवोपवीतं कैङ्कर्यं षडीशानोपचारकम् ।
द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् ३४६।
एकेनाह्ना समस्तानां पापानां नाशनं ध्रुवम् ।
द्वात्रिंशदुपचारं स्यात्पूजनं तूत्तमोत्तमम् ३४७।
सदाशिव उवाच-
एवमेतत्कपिश्रेष्ठ तव पूजां वदाम्यहम् ।
मत्पादयुगलं पूज्य सर्वपूजाकरो भव ३४८।
आराध्येत्थं यथालिंगे तन्ममाराधनं कुरु ।
हनूमानुवाच-
गुरुणा लिंगपूजैव नियता कल्पिता मम ३४९।
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् ।
इत्युक्त्वैव नमस्येशं शिवलिगार्चनेऽभवत् ३५०।
सरस्तीरमथो गत्वा कृत्वा सैकतवेदिकाम् ।
तालपत्रैर्विरचितमासनं परिकल्पयेत् ३५१।
प्रक्षाल्य पादहस्तौ तु समाचम्य समाहितः ।
भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः ३५२।
देववेद्यामथो चक्रे पद्मानि सुमनोहरम् ।
अनंतरं तालपत्रं पद्मासनगतः कपिः ३५३।
प्राणानायम्य सन्यासं शुक्लध्यानसमन्वितः ।
प्रणम्य गुरुमीशानं जपन्नासीदतः परम् ३५४।
अथ देवार्चनं कर्तुं यत्नमास्थितवानपि ।
पलाशपत्रपुटकद्वयानीत जलं शुचि ३५५।
शिरःकमंडलुगतं निधायाग्निं त्रिमंत्रितम् ।
आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च ३५६।
अथ स्नापयितुं देवमादाय करसंपुटे ।
कृत्वा निरीक्षणं देवं पीठं नो दृष्टवान्कपिः ३५७।
लिंगमात्रं करगतं दृष्ट्वा भीतिसमन्वितः ।
इदमाह महायोगी किं वा पापं मया कृतम् ३५८।
यदेतत्पीठरहितं शिवलिंगं करस्थितम् ।
ममाद्य मरणं सिद्धं पीठं चेन्नागमिष्यति ३५९।
अथ रुद्रं जपिष्यामि तदायाति महेश्वरः ।
इति निश्चित्य मनसा जजाप शतरुद्रियम् ३६०।
अथापि न समायातो महेशोऽथ कपीश्वरः ।
रुद्रं न्यपातयद्भूम्यां वीरभद्रः समागतः ३६१।
किमर्थं रुद्यते भक्त रुदिहेतुं वदस्व मे ।
हनूमानुवाच-
पीठहीनमिदं लिंगं पश्य मे पापसंचयम् ३६२।
वीरभद्र उवाच-
यदि नायाति पीठं ते लिंगे मा साहसं कृथाः ।
दाहयिष्याम्यहं लोकं यदि नायाति पीठकम् ३६३।
पश्य दर्शय मे लिंगं पीठं यद्यागतं न वा ।
अथ दृष्ट्वा वीरभद्रो लिंगं पीठमनागतम् ३६४।
दग्धुकामोऽखिलाँल्लोकान्वीरभद्रः प्रतापवान् ।
अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा ३६५।
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत ।
पंचोर्द्ध्वलोकानदहज्जनलोकनिवासिनः ३६६।
ललाटनेत्रसंभूतं नखेनादाय चानलम् ।
जंबीरफलसंकाशं कृत्वा करतले विभुः ३६७।
यदि नायाति पीठं ते दग्धा लोका न संशयः ।
अनायातमथो दृष्ट्वा वीरभद्रः प्रतापवान् ३६८।
सनकादयो महात्मानो ज्ञात्वा योगेन चागमन् ।
गौतमस्याश्रमवरं समागम्य महेश्वरम् ३६९।
न दृष्टवंतो देवादिं विद्यमानमपि द्विजाः ।
अस्तुवन्नथ च स्तोत्रैः सर्ववेदसमुद्भवैः ३७०।
ॐनमो देवदेवाय तस्मै शुद्धप्रभाचिंत्यरूपाय तस्मै ।
नमः सुराणामधीशाय तस्मै नमो वेदगुह्याय शुद्धाय तस्मै ३७१।
नमः शिवायादिदेवाय तस्मै नमो व्यालयज्ञोपवीताय तस्मै ।
नमः सुरानंदसंदोह वर्षत्रयी बिंदुविश्वंभराय तस्मै ३७२।
पृथिव्यथो वायुराकाशमापः पुनः शशी वह्निसूर्य्यौ तथात्मा ।
यस्याष्टैता मूर्तयः शंकरस्य तस्मै नमो ज्ञानगम्याय शश्वत् ३७३।
एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः ।
विष्णुमाह च गच्छ त्वं समानय च तान्द्विजान् ३७४।
आनीतास्तेन हरिणा देवाय प्रणतास्तु ते ।
तानाह शंकरो वाक्यं किमर्थं यूयमागताः ३७५।
मुनय ऊचुः -
देव द्वादशलोकानां दृश्यंते भस्मराशयः ।
स्थितमेकं वनमिदं पश्य त्वं लोकसंक्षयम् ३७६।
सदाशिव उवाच-
ऊर्द्ध्वस्थपंचलोकानां दाहे संदेह एव नः ।
कथमंगारवृष्टिश्च कथं नो वा महाध्वनिः ३७७।
मुनय ऊचुः -
भीतिरस्माकमधुना वर्तते वीरभद्रतः ।
स एवांगारवृष्टिं च पिपासुरिव तामपात् ३७८।
देवोथ वीरमाहूय किं वीरेत्यब्रवीद्भवः ।
वीरो हनूमतो लिंगपीठाभावादिदं कृतम् ३७९।
कपेश्चित्तं परिज्ञातुं मया कृतमिदं बृहत् ।
कृपानिधिरथो देवो यथापूर्वमकल्पयत् ३८०।
दग्धानप्यखिलाँल्लोकान्पूर्वतः शोभनान्विभुः ।
कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ३८१।
आलिंग्याघ्राय शिरसि तांबूलं दत्तवान्हरः ।
अथासौ हनुमानीश पूजनं कृतवानथ ३८२।
एकं वनचरं तत्र गंधर्वं सविपंचिकम् ।
इदमाह महावीणा मम वै दीयतामिति ३८३।
गंधर्वो न मया त्याज्या वीणा प्राणसमा मम ।
ममापि प्राणसदृशी वीणेत्याह कपीश्वरः ३८४।
अथ मुष्टिनिपातेन गंधर्वे पतिते कपिः ।
आदाय वीणां महतीं स्वरतंतुसमन्विताम् ३८५।
अलाबुसंयुतां कृत्वा राजवृक्षफलाकृतिम् ।
तस्योरसि विनिक्षिप्य गायन्नागाच्छिवांतिकम् ३८६।
बृहतीकुसुमैः शुद्धैर्देवपादावपूजयत् ।
तस्मै वरमथ प्रादादाकल्पं जीवितं पुनः ३८७।
समुद्रलंघने शक्तिं वरं प्रादादथापरम् ३८८।
समस्तभूषासुविभूषितांगः स्वदीप्तिमंदीकृतदेवदीप्तिः ।
प्रसन्नमूर्तिस्तरुणः शिवाङ्गकः संभावयामास समस्तदेवान् ३८९।
पीतमुद्गमनीयं च समादाय महेश्वरः ।
पीतवस्त्रमिदं देव त्वं गृहाण हरे शुभम् ३९०।
ब्रह्मणे रक्तवसनं सर्वेषां वसुदस्तथा ।
देवर्षिदानवादीनां दत्तवान्वसुयुग्मकम् ३९१।
रामोपि चैतदाकर्ण्य शंभवे युग्ममर्पयत् ।
सुसूक्ष्मं बहुमूल्यं च स्वर्णभूषणमेव च ३९२।
अथ भुक्त्वा सुखासीनः सामात्यः सपुरोहितः ।
नानामुनिगणैर्भूपैर्वानरैर्गौतमी तटे ३९३।
शंभुं पुराणतत्त्वज्ञं राघवो वाक्यमब्रवीत् ।
त्वमेव सर्वं जानीषे सर्वधर्मगुहाशयम् ३९४।
कस्मिन्कस्मिन्युगे ब्रह्मन्किंविशिष्टं वदस्व मे ।
शंभुरुवाच-
ध्यानमेव कृते श्रेष्ठं त्रेतायां यज्ञ एव च ३९५।
द्वापरे चार्चनं तिष्ये दानं च हरिकीर्तनम् ।
सर्वं च शस्तं सर्वत्र ध्यानं न च कलौ युगे ३९६।
नराणां मुग्धचित्तत्वात्कृच्छ्रस्थानां विशांपते ।
न धर्मे नियताबुद्धिर्न वेदे नैव च स्मृतौ ३९७।
न क्रतौ न स्वधाकारे पुराणानां च न श्रुतौ ।
न यज्ञेन च तीर्थेषु न च शुश्रूषणे सताम् ३९८।
नेज्यायां देवतानां च न स्वजातीयकर्म्मणि ।
न देवस्मरणेनापि न च क्वापि वृषे नृप ३९९।
अतश्च दीर्घकालानां पुण्यानामक्षमा नराः ।
दानं तु स्वल्पकालत्वात्कर्तुं शक्नोति मानवः ४००।
अतश्च कलिदुष्टानां प्रायश्चितं न विद्यते ।
केषांचित्पापनाशः स्यात्प्रायश्चित्तैस्तु नान्यथा ४०१।
ब्रह्मज्ञानी गयाश्राद्धी काशीगंता श्रुतौ रतः ।
पुराणज्ञावमाश्चैते श्रोता तस्य च राघव ४०२।
युगानामनुसारेण तथार्थस्य विवेचनात् ।
स्व पर प्रत्ययोत्पादात्परब्रह्मप्रकाशनात् ४०३।
पुराणवक्ता सर्वस्माद्ब्राह्मणस्तु विशिष्यते ।
तेनापि च कृतं पापं न सज्येत्किमुतान्यतः ४०४।
अन्येषामपि केषांचित्पुराणं पापनाशनम् ।
यः पुराणेषु विश्वासी वक्तारं मन्यते गुरुम् ४०५।
ब्रह्मविद्याप्रदातारं विशेषं ज्ञातिबंधुतः ।
तस्य पापानि सर्वाणि विलयं यान्त्यसंशयम् ४०६।
अथ श्रीशैलगमनं पूजकस्य महेशितुः ।
अतः कलौ मनुष्याणां पुराणं पापनाशनम् ४०७।
पुरा कलियुगे राम वृत्तं संकीर्तये शृणु ।
आसीत्तु गौतमो नाम ब्राह्मणो वेदवर्जितः ४०८।
तस्य पुष्टिः पशुश्चास्तां भ्रातरौ वेदवर्जितौ ।
ताभ्यां सह कृषिं चक्रे तत्र वृद्धिमवाप च ४०९।
धनधान्यादिकं किंचिद्राजानं दत्तवानथ ।
उवाच वचनं किंचिदधिकारं निरूपय ४१०।
अर्थं न गमयिष्यामि तौ शक्तौ भ्रातरौ मम ।
राजोवाच-
ब्राह्मणस्याधिकारो हि वैदिके धर्मकर्मणि ४११।
तदन्यत्र नियुक्तस्य ब्राह्मण्यं विप्रणश्यति ।
गौतम उवाच-
युगेष्वन्येषु धर्मोयं कलिधर्मो न तादृशः ४१२।
भूपति त्वं हि भूपाल नृपाणां धर्म उच्यते ।
ब्राह्मणश्च परिक्षीणस्तं कुर्वन्नैव दुष्यति ४१३।
शूद्राणां तु कृषिर्द्धर्मो नापद्यप्यग्रजन्मनः ।
तस्मात्क्षत्त्रेण वर्तिष्ये ग्रामान्मम समादिश ४१४।
अन्यत्र चात्र क्षत्त्रेण वर्तनं मम रोचते ।
अन्यन्न तु तथेत्युक्तो ददौ ग्रामान्द्विजन्मनः ४१५।
ग्रामाधिकारदुष्टस्य वर्तनं त्वन्यथाभवत् ।
अभक्षि मांसं चापायि सुरा चाभाषि दुर्वचः ४१६।
परयोषा तथा गामि परस्वं प्रत्यहारि च ।
अक्रीडि द्यूतमसकृत्कलंजं चादि दुर्भुजा ४१७।
नापूजि जगतामीशः शिवो वा विष्णुरेव वा ।
एवं कालेन दुर्वृत्तं राजा वाक्यमभाषत ४१८।
विप्र विप्रत्वमुत्सृज्य शूद्रत्वं प्राप्तवानसि ।
तस्मान्नियोगधर्मेण भवंतं भ्रंशयामि च ४१९।
मास्तु विप्रत्वमद्यैव शूद्रतैव वरं मम ।
तदृते यदि विप्रास्ते न भोक्ष्यंति वरं मम ४२०।
न हि सर्वमिदं त्यक्तुं शक्तोहं पृथिवीपते ।
शंभुरुवाच-
एवं वदति दुर्विप्रे राजा तूष्णीमतिष्ठत ४२१।
स तु वै शूद्रतुल्यश्च बुभुजेन्नं सहामिषम् ।
कदाचिदथ दुर्वृत्तः प्रतोलीमंडपस्थितः ४२२।
द्विजेन पठ्यमानं तु पद्यं तु श्रुतवानिदम् ।
हृदये पद्यमेतत्तु द्विजेरितमतिष्ठत ४२३।
परात्परतरं यांति नारायणपरायणाः ।
न ते तत्र गमिष्यंति ये द्विषंति महेश्वरम् ४२४।
व्याख्यानमपि च श्रुत्वा पौराणिकमभाषत ।
कीदृङ्नारायणः प्रोक्तः कीदृशोपि महेश्वरः ४२५।
किं परं त्वयनं प्रोक्तं द्वेषः कीदृगुदाहृतः ।
किं तत्परमिति ख्यातं ततः परतरं च किम् ४२६।
पौराणिक उवाच-
परं तद्ब्रह्मणः स्थानं सुखव्यक्तैकलक्षणम् ।
ततः परतरं विष्णोर्द्धाम तद्ब्रह्मणोधिकम् ४२७।
अविनाशितया तत्तु कीर्तितं परमं पदम् ।
तन्मध्ये पुरुषो विष्णुस्तदंग परमं विभुः ४२८।
आपो हि नरजन्मत्वान्नाराः प्रोक्ता मनीषिभिः ।
नाराश्चास्यायनं यस्मात्तेन नारायणः स्मृतः ४२९।
तत्परं वर्तनं येषां ते प्रोक्तास्तत्परायणाः ।
महदादीनि तत्वानि यानि तेषां य ईश्वरः ४३०।
सूर्याग्निशशिनेत्रोऽसौ महेशः स्यादुमापतिः ।
द्वेषो हि वैरं विज्ञेयमीश्वरे परमात्मनि ४३१।
शंभुरुवाच-
एवं पुराणभट्टेन समीरितमिदं वचः ।
चिंतयन्पुनरप्याह मादृशस्य कथं गतिः ४३२।
पौराणिकोऽथ तं प्राह शृणु वक्ष्यामि ते गतिम् ।
कुरु सर्वेण यत्नेन प्रायश्चित्तं यथाविधि ४३३।
धर्मं चर यथाशक्ति यथाकालं यथाविधि ।
विमुक्तपापः पश्चात्त्वमुत्तमां गतिमेष्यसि ४३४।
पुराणमथवा नित्यं शृणुष्वावहितश्च सन् ।
निराशो वा महेशानं पूजयस्व पिनाकिनम् ४३५।
देवं वा पुंडरीकाक्षं केशवं क्लेशनाशनम् ।
संन्यासमथवा नित्यं ब्रह्मज्ञानपरो भव ४३६।
अथवा गच्छ काशीशं मुक्तौ वा मृतिमाप्नुहि ।
गयां वा गच्छ तत्र त्वं श्राद्धं कर्तुं प्रयत्नतः ४३७।
अथवा सर्ववेदानां सारं पातकनाशनम् ।
रुद्रं रुद्रप्रियकरं जप प्रत्यहमादरात् ४३८।
श्रीशैलमथवा गच्छ केदारमथवेच्छया ।
अथवा प्रतिवर्षे तु माघस्नानं प्रवर्तय ४३९।
किमत्र बहुनोक्तेन धर्मभक्तः सदा भव ।
नैवं नरकवासस्ते भविता तु द्विजाधम ४४०।
गौतम उवाच-
श्रुत्वा सर्वं करिष्यामि पुराणं भवतो मुखात् ।
शास्त्रं विश्वासहेतुं च वर्जं चापि वदस्व मे ४४१।
पौराणिक उवाच-
वर्ज्यं मांसं सुराऽन्यस्त्री भोगो द्यूतं विकत्थनम् ।
पारुष्यमनृतं माया देवदेवविनिंदनम् ४४२।
गुरूणां सुरवृद्धानां पुराणस्मृतिभाषिणाम् ।
निंदनं श्वेतवृंताकं कृतकालाबुवर्तनम् ४४३।
बीजपूरं कुसुंभं च लोहितं शृंगमेव च ।
अररुं नालिकेरं च कूष्मांडकं तथैव च ४४४।
कोविदारफलं तैलपक्वं मानवजं पयः ।
वार्ध्रीणस खरी दुग्धं सूतिका क्षीरमाविकम् ४४५।
औष्ट्रमेकशफक्षीरं मार्गमाजं नृसंभवम् ।
विवत्सासंधिनीक्षीरं लवणं चैव योगि यत् ४४६।
नालिकेररसं कांस्ये ताम्रे मधु च सीसके ।
काचे तक्रं करंभांश्च घृताक्तान्नैव कारयेत् ४४७।
होमं तु मृण्मये पात्रे पुरोडाशं तु राजते ।
न सेवेत परं लोके शुभार्थी तु विचक्षणः ४४८।
पात्रांतश्चूर्णलेपोऽपि तत्र भक्षणमेव च ।
क्रमुकस्य तथा भक्षश्चूर्णपत्रस्य चैव हि ४४९।
क्रमुकस्यापि पक्वस्य भक्षणं क्रमियोगिनः ।
पायसे लवणं चैव केवलं च करार्पितम् ४५०।
सिंधुसौराष्ट्रकांबोजमागधेषु च सिंहले ।
न दोषाय भवेत्तत्र क्षीरं च लवणान्वितम् ४५१।
क्षीराणि च समस्तानि लवणानि च योगतः ।
देशेष्वन्येषु दोषाय पाने चैवेह संशयः ४५२।
किमत्र बहुनोक्तेन सद्भिर्निंद्यं विवर्जयेत् ।
शंभुरुवाच-
एवं तस्य वचः श्रुत्वा ब्राह्मणस्य महात्मनः ४५३।
स्वमेव भवनं गत्वा चिंतयामास दुःखितः ।
रात्रौ मृत्युर्दिवा चेति न जानाति महानपि ४५४।
परलोके सुखं दुःखमिह भोगविनोदनम् ।
क्रिमिकीटमनुष्याद्यैः सुख दुःखैः पृथक्पृथक् ४५५।
प्रतिजीवंतु हेतूनां भेदोऽपि सुविनिश्चयः ।
एकस्यापि हि जीवस्य नास्ति चैकविधा स्थितिः ४५६।
जन्मकाले महाऽज्ञानं शैशवेत्यल्पबोधनम् ।
स्खलत्पदेल्पविज्ञानं बाल्ये चाल्पं तथैव च ४५७।
कौमारे क्रीडनरतिर्यौवने विषयोषितम् ।
यौवने विनिवृत्ते तु द्रव्यसंपादनेषणा ४५८।
वार्द्धके भोगलिप्सा च न भोक्तुं क्षमतेपि च ।
दूषिका श्लेष्मलालाभिर्वलीपलितकंपनैः ४५९।
श्वासकासानिलाक्षिप्तैर्हृषीकैर्विकलैर्युतः ।
किंचिद्धर्तुं न शक्नोति न च जानाति किंचन ४६०।
तिष्ठंतीषु परस्त्रीषु गुह्यस्थानं प्रदर्शयेत् ।
कोशकंडूयनपरः क्रूरो जीवितलक्षणैः ४६१।
कंडूयते स्फिचौ वस्त्रमुद्धृत्य च विचालयन् ।
भुंजानः श्लेष्मणा ग्रासं ग्रसितुं न च शक्नुयात् ४६२।
यदा कासस्तदा जज्ञे पायुवायुश्च शब्दवान् ।
निःसृतिश्च मलस्यापि श्लेष्मनिर्गम एव च ४६३।
स्नुषादिभर्त्सनं बाल तालहास्यनिदर्शनम् ।
गुरुनिर्गमनादीनि संचिंत्य च पुनः पुनः ४६४।
आहूतो भोजनाद्यर्थं भोज्यान्नादि विनिंदयन् ।
चिरमुष्णं च निर्भर्त्स्य पुनश्चिंतामवाप सः ४६५।
अतिदुष्कृतिकर्म्माहं कथं भोक्ष्ये कथं स्वपे ।
कथं तिष्ठे कथं गच्छे परलोकः कथं भवेत् ४६६।
इति चिंताकुलो नित्यं न नमत्यपरान्वितः ।
द्विजस्य सदनं गत्वा पुराणज्ञस्य राघव ४६७।
लज्जावाक्कृतवक्त्रश्च किंकरोमीत्यभाषत ।
न किंचिदप्युवाचासौ द्विजः पौराणिकस्तदा ४६८।
पापोयमिति विज्ञाय शिष्येण निरगामयत् ।
गौतमोपि विनिर्गम्य द्वार्येव च बहिः स्थितः ४६९।
भुव्यासीनं तु विज्ञाय पुराणार्थविचारकम् ।
कथं कथमपि प्राप्य पीठं दत्तं च नाभजत् ४७०।
निषण्णो भूतले राम पुराणज्ञमभाषत ।
प्रायश्चित्तं करिष्यामि तदत्रैव विधीयताम् ४७१।
ब्राह्मण उवाच-
पापानि कीर्तयस्व त्वं सर्वथैव कृतानि तु ।
स चापि नाऽकृतं किंचिन्मया पापमितीरयन् ४७२।
रुदन्पपात भूम्यां च कथं तातेति पीडितः ।
ब्राह्मणस्तमथ प्राह प्रायश्चित्तं न विद्यते ४७३।
महापापं त्रिरावृत्ते पुनश्च यदि चेत्कृतम् ।
गौतम उवाच-
पौराणिक महाभाग प्राप्यापि त्वामहं कथम् ४७४।
पापयुक्तो द्विजश्रेष्ठ संगतिर्विफला भवेत् ।
पौराणिक उवाच-
शास्त्रं प्रमाणं सर्वेषां प्रायश्चित्तविनिर्णये ४७५।
तद्विना यो हि तं ब्रूयात्प्रायाश्चित्तं न तद्भवेत् ।
सकृत्कृते सकृत्प्रोक्तं द्वितीये द्विगुणं भवेत् ४७६।
तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ।
त्वया कृतं तु बहुधा चतुर्विधमपीच्छया ४७७।
कथं वक्तुमहं शक्तः प्रायश्चित्तं भवादृशे ।
गौतमोऽपि पुनः प्राह क्व गंतव्यं मयेति च ।
उपवासत्रयं कृत्वा शिवरात्रिमविंदत ४८०।
चतुर्थमुपवासं च चकारातीव दुःखितः ।
पारणं चाप्यमायां स कृतवान्फलवल्कलैः ४८१।
अथ प्रदक्षिणं चक्रे श्रीशैलस्य च स द्विजः ।
गतवान्मंदिरं पश्चाच्चिंतयातिकृशः श्वसन् ४८२।
कथं पापनिवृत्तिर्मे तूष्णींभूतस्य सेत्स्यति ।
अनंतमविचार्यं किं पापं च सुमहत्तरम् ४८३।
श्रुत्वा न कोपि मे ब्रूयात्प्रायश्चित्तं विधीयताम् ।
किंतु कस्मिन्पुराणे तु श्रुते ज्ञातं भविष्यति ४८४।
इति कृत्वा मतिं सोथ पुराणज्ञमभाषत ।
पुराणमेकं मे तात व्याख्यातु भगवानिति ४८५।
जातकर्मादिसंस्कारान्कारयस्व ममाशु वै ।
द्विजो भूत्वा शृणोम्यद्य प्रायश्चित्तं करोम्यतः ४८६।
विधायकं पुराणं मे भविष्यति च कीर्तितम् ।
अतः शक्यं करिष्यामि पुराणार्थं विनिश्चयन् ४८७।
पौराणिक उवाच-
यथावत्कीर्तयिष्यामि पुराणं पापनाशनम् ।
यथाज्ञानं यथाशक्ति यथाशुद्धं यथाविधि ४८८।
किं वांच्छसि पुराणं तु कीर्तयिष्ये तदेव तु ।
गौतम उवाच-
सर्वं रुचि पुराणं मे वक्तव्यं किं हितं वद ४८९।
श्रुते यस्मिन्भिदा नैव जायते तु हरीशयोः ।
पौराणिक उवाच-
कौर्मोक्तं यत्पुराणं तद्देवयोरभिदाभिधम् ४९०।
शृणोति यस्तत्प्रथमं तस्य पापं विनश्यति ।
तस्य वक्ता तु यो विप्रस्तस्य विघ्नांतरं भवेत् ४९१।
श्रोतव्यं मन्यते पापो यदि भार्या विनश्यति ।
किंचैकं दुष्करं वक्ष्ये श्रोतुर्वक्तुरनिंदकम् ४९२।
व्याख्यातरि यदि प्रीतिर्द्धर्मादेव प्रकाशिनी ।
आचारदर्शने पुण्ये कर्ममोक्षादिदर्शके ४९३।
तदा तुष्टो महेशः स्याद्विष्णुरिष्टफलप्रदः ।
पितरस्तारितास्तेन यांति ते परमां गतिम् ४९४।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे चतुर्दशोत्तरशततमोऽध्यायः ११४।