पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ११५

विकिस्रोतः तः
← अध्यायः ११४ पद्मपुराणम्
अध्यायः ११५
वेदव्यासः
अध्यायः ११६ →

श्रीराम उवाच-
कथं पातकसंघात संक्रमे ब्राह्मणाधमे ।
पुराणज्ञः कथं व्याख्यां चकार द्विजसत्तम १।
शंभुरुवाच-
अध्यापने चाध्ययने जायते चाथ संगमः ।
संगतौ वत्सरं राम याति पातकि पातकम् २।
पुराणज्ञे तु काकुत्स्थ सर्वतत्वार्थवेदिनि ।
अपिपातकसंदोह चीर्णपापं प्रणश्यति ३।
प्रभूतवह्निनाशे हि धूमराशिर्यथैव हि ।
शलभो दीपनाशाय वह्निनाशाय न प्रभुः ४।
कृतं पापं तथान्येषां नाशनाय पुराणिकः ।
भूतादिग्रस्तमर्त्यानां भूतादि भयमोचकः ५।
समंत्रवानपनयेद्यथा न स्वयमातुरः ।
पौराणिकस्तथा पापं न किंचित्प्राप्तुमर्हति ६।
आत्मना च कृतं पापमन्यैरपि च यत्कृतम् ।
पुराणज्ञो नाशयति त्वतिदुष्टं स्वकर्म्म वा ७।
भवानीशे हृषीकेशे समवृत्तिर्विवेकवान् ।
लोकवेदक्रियावेत्ता रुद्रजाप्यतिनिःस्पृहः ८।
तुष्टः शांतः क्रियादक्षः प्रभूतो योगकृद्वशी ।
यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः ९।
नियोगात्तव भूपाल अयोध्यायामतिष्ठत ।
अपालयद्भुवं कृत्स्नां त्वां च रक्षः समापतत् १०।
स च शुक्रोपदेशेन राक्षसस्त्वामथाभ्यगात् ।
निद्रासक्तं हनिष्यामि नान्यथावसरस्त्विति ११।
अथ विप्रो विदित्वैतद्वसिष्ठस्त्वद्धितप्रियः ।
सुप्तं प्रमत्तं काकुत्स्थं रक्षो हंति न संशयः १२।
ब्रह्मावाप्तवरं तद्धि मया कार्यं निवारणम् ।
इति संचिंत्य विप्रर्षिः सेनामादाय निर्गतः १३।
रक्षो हंतुमशक्तस्तु मृत्युहीनं ततो मुनिः ।
स्वयं च राक्षसो भूत्वा वाक्यमाह महामुनिः १४।
किमर्थमागतोसीह वनं मुनिनिषेवितम् ।
स आह राजा रक्षोघ्नस्तमहं हंतुमागतः १५।
मुनिरप्याह किं तेन जीवितेन मृतेन वा ।
भुक्त्वामिषं मदीयं तु युद्धं कृत्वा जयं व्रज १६।
राक्षस उवाच-
कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि ।
वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः १७।
निष्ठीव्य मस्तके तस्य मुष्टिना तमताडयत् ।
ताडितो राक्षसस्तेन व्यद्रावयदृषिश्च तम् १८।
पलायमानावन्योन्यं जलधिं तु गतावुभौ ।
तत्रस्थेन ग्रहेणासौ गृहीतो राक्षसस्तदा १९।
मुनिः पुनरयोध्यायां पूर्ववत्समतिष्ठत ।
शंभुरुवाच-
तस्मात्स्वाभिमतं कुर्यात्पुराणज्ञो विमत्सरः २०।
श्रवणस्य विधानं च कथयामि शुभं शृणु ।
शुक्लपक्षे दिने शुद्धे वारनक्षत्रयोगतः २१।
करणे चापि लग्ने च ग्रहताराबलान्विते ।
अमूढेन ग्रहे बाले न च वृद्धौ गुरौस्थिते २२।
न कृष्णपक्षे ग्रहणे न च नास्तिकसंनिधौ ।
पूर्वोक्तलक्षणोपेतं पुराणं शृणुयादिति २३।
शुद्धगेहेऽथवा शुद्धवेदिकायां मठेथ वा ।
नदीतीरे देवगेहे सभामंडप एव च २४।
रथ्या मठेथ वा रम्ये पुण्यशालासु राघव ।
स्वयं नमस्य विप्रेंद्रान्पुराणज्ञं विशेषतः २५।
आसनं कल्पितं कुर्य्यादूर्ध्वं सर्वविशेषितम् ।
एहि धर्म्मासनमिति वक्तव्यं स्यादनिष्ठुरम् २६।
पुराणप्रक्रमदिने यत्कार्यं तदुदीरयेत् ।
व्याख्यातारं पुराणस्य वस्त्राद्यैः परिपूजयेत् २७।
शुभानि दत्वा वस्त्राणि सूक्ष्माणि च नवानि च ।
करकंठविभूषादि पात्रमासनमेव च २८।
गंधपुष्पाक्षतैः पूज्य तांबूलं विनिवेद्य च ।
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् २९।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।
सभासदश्च संपूज्य गणेशं प्रार्थयेत्ततः ३०।
ॐनमेत्यादि मंत्रेण पूजनं भारती नुतिः ।
प्रातःकाले पुराणस्य प्रक्रमं प्रारभेदिति ३१।
उपक्रमदिने राम त्रिपंचदश वा शुभाः ।
श्लोका द्वितीये दिवसे ततो द्विगुणिताः शुभाः ३२।
तृतीये दिवसे राम ततश्चाधिकमिष्यते ।
दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा ३३।
व्यवस्थितिर्यदा जाता तदा पौराणिकं गुरुम् ।
तांबूलादिप्रदायाथ परेद्युः शृणुयादपि ३४।
पुराणमेवं श्रोतव्यं दैनंदिनमिति श्रुतिः ।
व्रतरूपेण यः कश्चित्पुराणं शृणुयान्नरः ३५।
यदैवं तत्पुराणं तु तत्र याति न संशयः ।
पुराणं श्रोतुकामेन श्लोकश्चैकोपि चेच्छ्रुतः ३६।
तद्दिने तु कृतं पापं नाशयेत्तु न संशयः ३७।
एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबंधात् ।
सुरापीतिः स्वर्णहरश्च राम गुर्वंगनागश्च विमुक्तिमेति ३८।
पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यंति पुराकृतानि ।
इहापि यान्यब्दशतार्जितानि श्रोतुर्विनश्यंति तथा च वक्तुः ३९।
कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते ।
विगुणापि ततो व्याख्या फलदा दानकर्मवत् ४०।
पुराणानामभिप्रायं व्यासो वेद न चापरः ।
अहं वेद्मि विशेषेण व्यासादपि विधेरपि ४१।
न स्वाध्यायस्तपो वापि न मंत्रो न जुहोतयः ।
फलंति न तथा तिष्ये पुराणश्रवणं यथा ४२।
एकैकश्रवणादेव पातकं महदेव तु ।
नाशमाप्नोत्यसंदेहः श्रीशैले वर्तनादिव ४३।
अतो गुरुः पुराणज्ञः श्रोतृवंद्योऽघनाशनः ।
न तस्मादधिकः कश्चिद्गुरुरस्ति गतिप्रदः ४४।
मंत्रेषु गुरवो ये च वेदशास्त्रेषु ये मताः ।
नेशते सर्वविज्ञानं दातुं तस्मान्न बोधकाः ४५।
पिशाचाः प्रायशो राम ब्रह्मराक्षसनामिनः ।
वेदमंत्रस्य वेत्तारो दृश्यंते न पुराणवित् ४६।
पुराणविमुखो नैव सर्वः सर्वं हि पश्यति ।
पुराणज्ञो हि तस्तस्मात्पापनाशकरः प्रभुः ४७।
तत्पूजा सर्वपूजा स्यात्सर्वद्रोहोऽस्य पीडनम् ।
यथा समस्तदानानां विद्यादानं प्रशस्यते ४८।
पौराणिकस्तथा धन्यस्तत्र दानं महत्फलम् ।
राम उवाच-।
किं वा पौराणिके देयं कियत्कीदृशमेव च ४९।
पुराणं कीदृशं वर्ज्यं वर्ज्यः कीदृक्पुराणवित् ।
शंभुरुवाच-
षड्रसानन्नपानानि स्नेहद्रव्याणि यानि च ५०।
गृहं सोपस्करं राम पुराणज्ञाय दापयेत् ।
पर्याप्तान्येव सर्वाणि अधिकानि फलाधिकात् ५१।
दद्याद्द्रव्यमतो भूयः सचैलं शोभितं मृदु ।
भूषणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत् ५२।
गंधपुष्पं प्रतिदिनं केवलं गंधमेव च ।
केवलं च तथा पुष्पं फलकाले फलान्यपि ५३।
तांबूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः ।
पुराणस्य समाप्तौ तु दद्याद्दानादिकं तथा ५४।
अधिकं तु तथा देयं भूहिरण्यादिकं नृप ।
न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन ५५।
सभासद्भिः कृता चैव या पूजैकेन वा कृता ।
देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते ५६।
तीर्थेपि च यथा राम पुण्येष्वायतनेषु च ।
स्वशक्त्या पूजनं कुर्यात्पुराणज्ञाय राघव ५७।
श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप ।
पौराणिकस्य सर्वस्य लक्षणं कथयामि ते ५८।
कुलहीनो महाव्याधिर्महापापी तिरस्कृतः ।
शौचाचारविहीनश्च वेदस्मृतिविवर्जितः ५९।
अन्यदेवः पूतिवचो व्यंगश्चाप्यधिकांगवान् ।
परपूर्वापतिः स्तेनः प्राणिहंता निराकृतिः ६०।
अथ वर्ज्यं पुराणं ते कथयामि नृपोत्तम ।
पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः ६१।
व्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेत् ।
पुराणस्थं पठेद्ग्रन्थं व्याख्यायेत विचारयन् ६२।
यया कयापि वा राम भाषयादेशभाषतः ।
न देशभाषा रचितं ग्रंथं श्रुत्वा फलं लभेत् ६३।
व्याख्या या कापि काकुत्स्थ पुराणस्य हिता हि सा ।
तस्मात्त्वं देवयाचस्व व्याख्यास्ये यत्पुराणकम् ६४।
शंभुरुवाच-
एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः ।
स्वयं वस्त्रत्रयं प्रादाद्ब्राह्मणाय महात्मने ६५।
कौर्मं पुराणं प्रथमं श्रुतवानिति नः श्रुतम् ।
दत्तवान्स्वर्णमधिकं वस्त्राणि च शुभानि च ६६।
अथ लैंगं च शुश्राव वैष्णवं वामनं तथा ।
पाद्मं च गारुडं चैव सौरं ब्राह्ममथैव च ६७।
एवमष्ट स शुश्राव पुराणानि स गौतमः ।
अथ रामायणं चैव कौर्ममेव पुनश्च सः ६८।
शिवनारायणेत्येवं जपं चक्रे सदैव हि ।
अवाप निधनं चापि स गतो ब्रह्मणः पदम् ६९।
ब्रह्मा संपूज्य तं विप्रं विष्णुलोकमथागमत् ।
विष्णुना पूजितः सोऽथ जगाम शिवमंदिरम् ७०।
सर्वेषामेव वंद्योऽसौ गौतमो मुनिसत्तमः ।
भारतश्रवणे चापि नियमा ये मयेरिताः ७१।
पुरा व्यासेन मुनिना त्रिवर्षाद्यत्कृतं शुभम् ।
श्रवणात्तस्य कृत्स्नस्य व्याकर्ता भारतस्य यः ७२।
न किंचित्प्रणमेद्विप्रं मुक्त्वा योगिनमुत्तमम् ।
सर्वेषामेव वंद्योसौ भारतं व्याकरोति यः ७३।
यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा ।
स सर्वेभ्योधिको विप्रस्तारयेच्चैव मानवान् ७४।
व्याकरोति च पर्वैकं सर्वाणि कतिचित्तु वा ।
सर्वपापविनिर्मुक्तो हव्ये कव्ये विशिष्यते ७५।
तमेव प्रणमेद्विप्रं तमेवार्हं च पूजयेत् ।
तमेव भोजयेन्नित्यं सर्वं तस्मै निवेदयेत् ७६।
तस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विजः ।
प्रतिपूज्योऽथ वस्त्राद्यैः पूजयेद्विधिमार्गतः ७७।
आदिपर्वसमाप्तौ च सूक्ष्मवस्त्रत्रयं ददेत् ।
सुवर्णं च यथाशक्ति सभापर्वणि वाससी ७८।
आनुशासनिकारण्यस्वर्गारोहेषु पर्वसु ।
आदिपर्वणि पूजा या सा पूजा नृपपुंगव ७९।
कर्णाश्वमेधवैराटशल्यद्रोणेषु पर्वसु ।
सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमथापि वा ८०।
क्षुद्रपर्वस्वथान्येषु निष्कावथ समानयेत् ।
हरिवंशे सनिष्कं तु वस्त्रत्रितयमेव तु ८१।
भारतस्याखिलस्यैव समाप्तौ क्षेत्रदो भवेत् ।
रामायणस्य श्रवणे कांडेकांडे प्रपूजयेत् ८२।
क्षेत्रं पर्याप्तमथवा सुवर्णमपि दापयेत् ।
व्याख्यातुर्गुरुवाक्यस्य सर्वकल्मषनाशनः ८३।
अर्थोधर्म्मश्च कामश्च मोक्षश्च नृपसत्तम ।
व्याख्याश्रवणतः सर्वे सिद्धयंति च सुबुद्धयः ८४।
ब्रह्महत्यादिपापानां सर्वेषामपि नाशनम् ।
एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि ८५।
यानवसुसुवर्णाद्यैर्नित्यमेनं प्रपूजयेत् ।
व्याख्यातारं यतः पापसंदोहस्य विनाशनम् ८६।
अन्यान्यपि पुराणानि मुनिप्रोक्तानि तान्यपि ।
श्रोतॄणां पापनाशाय वक्तुश्चापि विशेषतः ८७।
यश्च सर्वपुराणानि षट्त्रिंशत्तु प्रकीर्तयेत् ।
शृणोति वा न तस्यास्ति चित्तच्छेदः कदाचन ८८।
ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते ।
तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते ८९।
अथ भागवतं प्रोक्तं पंचमं षष्ठमुच्यते ।
भविष्यं नारदीयं च सप्तमं परिकीर्तितम् ९०।
मार्कंडेयमिति प्रोक्तमष्टमं नवमं तथा ।
आग्नेयं ब्रह्मवैवर्तं दशमं परिकीर्तितम् ९१।
लैंगं च वामनं चैव स्कांदं मात्स्यमथैव च ।
कौर्मं वाराहमुदितं गारुडं वाथ कीर्तितम् ९२।
ब्रह्मांडमित्यष्टादशपुराणानि विदुर्बुधाः ।
तथा चोपपुराणानि कथयिष्याम्यतः परम् ९३।
आद्यं सनत्कुमाराख्यं नारसिंहमतः परम् ।
तृतीयमांडमुद्दिष्टं दौर्वाससमथैव च ९४।
नारदीयमथान्यं च कापिलं मानवं तथा ।
तद्वदौशनस प्रोक्तं ब्रह्मांडं च ततः परम् ९५।
वारुणं कालिकाह्वानं माहेशं सांबमेव च ।
सौरं पाराशरं चैव मारीचं भार्गवाह्वयम् ९६।
कौमारं च पुराणानि कीर्तितान्यष्ट वै दश ।
अष्टादशपुराणानां व्याकर्ता तु भवेन्मनुः ९७।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे पुराणमाहात्म्यकथनंनाम पंचदशोत्तरशततमोऽध्यायः ११५।