पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००५ पद्मपुराणम्/खण्डः ५ (पातालखण्डः)
अध्यायः ००६
[[लेखकः :|]]
अध्यायः ००७ →

शेष उवाच
इत्थं स्वागतसंतुष्टं ब्रह्मचर्यतपोनिधिम्
उवाच मतिमान्वीरः सर्वलोकगुरुर्मुनिम् १
स्वागतं ते महाभाग कुंभयोने तपोनिधे
त्वद्दर्शनेन सर्वे वै पाविताः सकुटुंबकाः २
कच्चिन्मतिस्ते वेदेषु शास्त्रेषु परिवर्तते
त्वत्तपोविघ्नकर्ता वै नास्ति भूमंडले क्वचित् ३
लोपामुद्रा महाभाग या च ते धर्मचारिणी
यस्याः पतिव्रता धर्मात्सर्वं भवति शोभनम् ४
अपि शंस महाभाग धर्ममूर्ते कृपानिधे
अलोलुपस्य किं कार्यं करवाणि मुनीश्वर ५
त्वत्तपोयोगतः सर्वं भवति स्वेच्छया बहु
तथापि मयि कृत्वैव कृपां शंश मुनीश्वरः ६
शेष उवाच
इत्युक्तो लोकगुरुणा राजराजेन धीमता
उवाच रामं लोकेशं विनीततरभाषया ७
अगस्त्य उवाच
स्वामिंस्तव सुदुर्दर्शं दर्शनं दैवतैरपि
मत्वा समागतं विद्धि राजराज कृपानिधे ८
हतस्त्वया रावणाख्यस्त्वसुरो लोककंटकः
दिष्ट्याद्य देवाः सुखिनो दिष्ट्या राजा बिभीषणः ९
राम त्वद्दर्शनान्मेऽद्य गतं वै दुष्कृतं किल
संपूर्णो मे मनःकोश आनंदेन सुरोत्तम १०
इत्युक्त्वा स बभूवाशु तूष्णीं कुंभसमुद्भवः
रामसंदर्शनाह्लादविह्वलीकृतमानसः ११
रामः पप्रच्छ तं भूयो मुनिं ज्ञानविशारदम्
लोकातीतं भवद्भावि सर्वं जानासि सर्वतः १२
मुने कथय मे सर्वं पृच्छतो हि सुविस्तरम्
कोऽसौ मया हतो यो हि रावणो विबुधार्दनः १३
कुंभकर्णोऽपि कस्त्वेष का जातिर्वै दुरात्मनः
देवो दैत्यः पिशाचो वा राक्षसो वा महामुने १४
सर्वमाख्याहि सर्वज्ञ सर्वं जानासि विस्तरात्
अतः कथय मे सर्वं कृपां कृत्वा ममोपरि १५
इति श्रुत्वा ततो वाक्यं कुंभजन्मा तपोनिधिः
यत्पृष्टं रघुराजेन प्रवक्तुं तत्प्रचक्रमे १६
राजन्सृष्टिकरो ब्रह्मा पुलस्त्यस्तत्सुतोऽभवत्
ततस्तु विश्रवा जज्ञे वेदविद्याविशारदः १७
तस्य पत्नीद्वयं जातं पातिव्रत्यचरित्रभृत्
एका मंदाकिनी नाम्नी द्वितीया कैकसी स्मृता १८
पूर्वस्यां धनदो जज्ञे लोकपालविलासभृत्
योऽसौ शिवप्रसादेन लंकावासमचीकरत् १९
विद्युन्मालिसुतायां तु पुत्रत्रयमभून्महत्
रावणः कुंभकर्णश्च तथा पुण्यो बिभीषणः २०
राक्षस्युदरजन्मत्वात्संध्यासमयसंभवात्
द्वयोरधर्मनिपुणा मतिरासीन्महामते २१
एकदा तु विमानेन पुष्पकेण सुशोभिना
कांचनीयोपकल्पेन किंकिणीजालमालिना २२
आरुह्य पितरौ द्रष्टुं प्रायाच्छोभासमन्वितः
स्वगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः २३
आगत्य पित्रोश्चरणे पतित्वा चिरमात्मजः
हर्षविह्वलितात्मा च रोमांचिततनूरुहः २४
उवाच मेऽद्य सुदिनं महाभाग्यफलोदयः
यन्मे युष्मत्पदौ दृष्टौ महापुण्यददर्शनौ २५
इत्यादिभिः स्तुतिपदैः स्तुत्वागान्मंदिरं स्वकम्
पितरावपि संहृष्टौ पुत्रस्नेहाद्बभूवतुः २६
तं दृष्ट्वा रावणो धीमाञ्जगाद निजमातरम्
कोऽयं पुमान्सुरो वाथ यक्षो वाथ नरोत्तमः २७
योऽसौ मम पितुःपादौ सन्निषेव्य गतः पुनः
महाभाग्यनिधिः स्वीयैर्गणैः सुपरिवारितः २८
केनेदं तपसा लब्धं विमानं वायुवेगधृक्
उद्यानारामलीलादि विलासस्थानमुत्तमम् २९
शेष उवाच
इति वाक्यं समाकर्ण्य जननी रोषविक्लवा
उवाच पुत्रं विमनाः किंचिन्नेत्रविकारिणी ३०
रे पुत्र शृणु मद्वाक्यं बहुशिक्षासमन्वितम्
एतस्य जन्मकर्मादि विचारचतुराधिकम् ३१
सपत्न्या मम कुक्षिस्थं विधानं समुपस्थितम्
येन स्वमातुर्विमलं कुलमुज्ज्वलितं महत् ३२
त्वं तु मत्कुक्षिजः कीटः पापः स्वोदरपूरकः
यथा खरः स्वकं भारं जानाति न च तद्गुणम् ३३
तथा त्वं लक्ष्यसेऽज्ञानी शयनासनभोगवान्
सुप्तो गतः क्वचिद्भ्रष्ट इत्येव तव संभवः ३४
अनेन तपसा लब्धं शिवसंतोषकारिणा
लंकावासो मनोवेगं विमानं राज्यसंपदः ३५
सुधन्या जननी त्वस्य सुभाग्या सुमहोदया
यस्याः पुत्रो निजगुणैर्लब्धवान्महतां पदम् ३६
इति क्रुधा भाषितमार्तया तया मात्रा स्वयाऽकर्ण्य दुरात्मसत्तमः
रोषं विधायात्मगतं पुनर्वचो जगाद तां निश्चयभृत्तपः प्रति ३७
रावण उवाच
जनन्याकर्णय वचो मम गर्वसमन्वितम्
रत्नगर्भा त्वमेवासि यस्याः पुत्रास्त्रयो वयम् ३८
कोऽसौ कीटः स धनदः क्व तपः स्वल्पकं पुनः
कालं का किंतु तद्राज्यं स्वल्पसेवकसंयुतम् ३९
मातः शृणु ममोत्साहात्प्रतिज्ञां करुणान्विते
न केनापि कृतां कर्त्रा महाभाग्ये हि कैकसि ४०
यद्यहं भुवनं सर्वं वशेन स्थापयामि वै
तपोभिर्दुष्कृतैः कृत्वा ब्रह्मसंतोषकारकैः ४१
अन्नोदके सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः
चेत्तदा पितृलोकस्य घातात्पापं भवेन्मम ४२
कुंभकर्णोऽपि कृतवान्विभीषणसमन्वितः
रावणेन सहभ्रात्रेत्युक्त्वागाद्गिरिकाननम् ४३
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
रावणोत्पत्तिर्नाम षष्ठोऽध्यायः ६