सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००५

विकिस्रोतः तः
← अध्यायः ००४ पद्मपुराणम्/खण्डः ५ (पातालखण्डः)
अध्यायः ००५
[[लेखकः :|]]
अध्यायः ००६ →

शेष उवाच।
अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः ।
रावणाभिधदैत्येंद्र वधहर्षितमानसाः १।
देवा ऊचुः।
जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक ।
जय देववरांगनागणग्रहणव्यग्रकरारिदारक २।
तवयद्दनुजेंद्र नाशनं कवयो वर्णयितुं समुत्सुकाः ।
प्रलये जगतांततीः पुनर्ग्रससे त्वं भुवनेशलीलया ३।
जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर ।
जय धर्मकरान्वयांबुधौ कृतजन्मन्नजरामराच्युत ४।
तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः ।
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ५।
हरविरिंचिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम् ।
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ६।
यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकांतिभृत् ।
सुरगणा हि कथं सुखिनः पुनर्ननुभवंति घृणामय पावन ७।
यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः ।
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ८।
मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम् ।
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ९।
अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः ।
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः १०।
इत्युक्त्वा ते सुराः सर्वे ब्रह्मेंद्रप्रमुखा मुहुः ।
प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ११।
इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः ।
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकंधरान् १२।
श्रीराम उवाच।
सुरा वृणुत मे यूयं वरं किंचित्सुदुर्ल्लभम् ।
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः १३।
सुरा ऊचुः।
स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम् ।
यदयं निहतः शत्रुरस्माकं तु दशाननः १४।
यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः ।
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् १५।
तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनंदनः ।
श्रीराम उवाच।
सुराः शृणुत मद्वाक्यमादरेण समन्विताः १६।
भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम् ।
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः १७।
तस्य वैरि पराभूतिर्न भविष्यति दारुणा ।
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ १८।
मदीयचरणद्वंद्वे भक्तिस्तेषां तु भूयसी ।
भविष्यति मुदायुक्ते स्वांते पुंसां तु पाठतः १९।
इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः ।
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् २०।
रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान् ।
प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः २१।
यस्मिञ्छासति लोकानां नाकालमरणं नृणाम् ।
न रोगादि पराभूतिर्गृहेषु च महीयसी २२।
नेतिः कदापि द्दश्येत वैरिजं भयमेव च ।
वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका २३।
पुत्रपौत्रपरीवार सनाथी कृतजीवनाः ।
कांता संयोगजसुखैर्निरस्तविरहक्लमाः २४।
नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः ।
कदापि परनिंदासु वाचस्तेषां भवंति न २५।
कारवोऽपि कदा पापं नाचरंति मनस्यहो ।
रघुनाथकराघातदुःखशंकाभिशंसिनः २६।
सीतापतिमुखालोक निश्चलीभूतलोचनाः ।
लोका बभूवुः सततं कारुण्यपरिपूरिताः २७।
राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम् ।
ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः २८।
संपुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः ।
सदा संपन्नसस्यं च सुवसुक्षेत्रसंयुतम् २९।
सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम् ।
देवतायतनानां च राजिभिः परिराजितम् ३०।
सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः ।
सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः ३१।
सपद्मिनीककासारा यत्र राजंति भूमयः ।
सदंभा निम्नगा यत्र न यत्र जनता क्वचित् ३२।
कुलान्येव कुलीनानां वर्णानां नाधनानि च ।
विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित् ३३।
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः ।
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ३४।
रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः ।
धनैरनंधो यत्रास्ति जनो नैव च भोजने ३५।
अनयः स्यंदनो यत्र न च वैराजपूरुषः ।
दंडः परशुकुद्दालवालव्यजनराजिषु ३६।
आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः ।
अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम् ३७।
आक्षिका एव दृश्यंते यत्र पाशकपाणयः ।
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ३८।
कठोरहृदया यत्र सीमंतिन्यो न मानवाः ।
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ३९।
वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै ।
कंपः सात्विकभावोत्थो न भयात्क्वापि कस्यचित् ४०।
संज्वरः कामजो यत्र दारिद्र्यकलुषस्य च ।
दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः ४१।
इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये ।
दानहानिर्गजेष्वेव तीक्ष्णा एव हि कंटकाः ४२।
बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा ।
स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ४३।
तं देशं पालयामास लालयँल्लालिताः प्रजाः ।
धर्मं संस्थापयन्देशे दुष्टे दंडधरोपमः ४४।
एवं पालयतो देशं धर्मेण धरणीतलम् ।
सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः ४५।
तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम् ।
स्वां च निंदां रजकतस्तां तत्याज रघूद्वहः ४६।
पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा ।
सीतां विरहितामेकां निदेशेन सुरक्षिताम् ४७।
कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः ।
आजगाम मुनिश्रेष्ठः कुंभोत्पत्तिर्मुनिर्महान् ४८।
गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः ।
जनताभिर्महाराजो वार्धिशोषकमागतम् ४९।
स्वागतेन सुसंभाव्य पप्रच्छ तमनामयम् ।
सुखोपविष्टं विश्रांतं बभाषे रघुनंदनः ५०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे अगस्त्यसमागमोनाम पंचमोऽध्यायः ५।