पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ००७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००६ पद्मपुराणम्
अध्यायः ००७
वेदव्यासः
अध्यायः ००८ →

अगस्त्य उवाच
अथोग्रं स तपो दैत्यो दशवर्षसहस्रकम्
चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः १
कुंभकर्णोऽपि कृतवांस्तपः परमदुश्चरम्
विभीषणस्तु धर्मात्मा चचार परमं तपः २
तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः
देवदानवयक्षादि मुकुटैः परिसेवितः ३
ददौ राज्यं च सुमहद्भुवनत्रयभास्वरम्
वपुश्च कृतवान्रम्यं देवदानवसेवितम् ४
तदा संतापितो भ्राता धनदो धर्मबुद्धिमान्
विमानं तु ततो नीतं लंका च नगरी हठात् ५
भुवनं तापितं सर्वं देवाश्चैव दिवो गताः
हतवान्ब्राह्मणकुलं मुनीनां मूलकृंतनः ६
तदातिदुःखिता देवाः सेंद्रा ब्रह्माणमाययुः
स्तुतिं चक्रुर्महात्मानो दंडवत्प्रणतिं गताः ७
ते तुष्टुवुः सुराः सर्वे वाग्भिरर्थ्याभिरादृताः
ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत् ८
ततो निवेदयांचक्रुर्ब्रह्मणे विबुधाः पुरः
दशग्रीवाच्च संकष्टं तथा निजपराभवम् ९
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह
तस्य शैलस्य पार्श्वे तु वैचित्र्येण समाकुलाः १०
स्थिताः संतुष्टुवुर्देवाः शंभुं शक्रपुरोगमाः
नमो भवाय शर्वाय नीलग्रीवाय ते नमः ११
नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः
इति सर्वमुखेनोक्तां वाणीमाकर्ण्य शंकरः १२
प्रोवाच नंदिनं देवा नानयेति ममांतिकम्
एतस्मिन्नंतरे देवा आहूता नंदिना च ते १३
प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः
ब्रह्मागत्य ददर्शाथ शंकरं लोकशंकरम् १४
गणकोटिसहस्रैस्तु सेवितं मोदशालिभिः
नग्नैर्विरूपैः कुटिलैर्धूसरैर्विकटैस्तथा १५
प्रणिपत्याग्रतः स्थित्वा सह देवैः पितामहः
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् १६
कृपां कुरु महादेव शरणागतवत्सल
दुष्टदैत्यवधार्थं त्वं समुद्योगं विधेहि भोः १७
सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितम्
त्रिदशैः सहितैः सर्वैराजगाम हरेः पदम् १८
तुष्टुवुर्मुनयः सर्वे ससुरोरगकिन्नराः
जय माधव देवेश जय भक्तजनार्तिहन् १९
विलोकय महादेव लोकयस्व स्वसेवकान्
इत्युच्चैर्जगदुः सर्वे देवाः शर्वपुरोगमाः २०
इत्युक्तमाकर्ण्य सुराधिनाथो दृष्ट्वा सुरार्तिं परिचिंत्य विष्णुः
जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशमं नयन्निव २१
भो ब्रह्मशर्वेंद्र पुरोगमामराः शृण्वंतु वाचं भवतां हितेरताम्
जाने दशग्रीवकृतं भयं वस्तन्नाशयाम्यद्य कृतावतारः २२
पुरी त्वयोध्या रविवंशजातैर्नृपैर्महादानमखादिसत्क्रियैः
प्रपालिता भूतलमंडनीया विराजते राजतभूमिभागैः २३
तस्यां दशरथो राजा निरपत्यः श्रियान्वितः
पालयत्यधुना राज्यं दिक्चक्रजयवान्विभुः २४
स तु वंद्यादृष्यशृंगात्प्रार्थितात्पुत्रकाम्यया
पुत्रेष्ट्यां विधिना यज्वा महाबलसमन्वितः २५
ततोऽहं प्रार्थितः पूर्वं तपसा तेन भोः सुराः
पत्नीषु तिसृषु प्रीत्या चतुर्धापि भवत्कृते २६
राम लक्ष्मण शत्रुघ्न भरताख्या समन्वितः
कर्तास्मि रावणोद्धारं समूल बलवाहनम् २७
भवंतोऽपि स्वकैरंशैरवतीर्य चरंत्विह
ऋक्षवानररूपेण सर्वत्र पृथिवीतले २८
इत्युक्त्वा विररामाशु नभसीरितवाङ्मुने
देवाः श्रुत्वा महद्वाक्यं सर्वे संहृष्टमानसाः २९
ते चक्रुर्गदितं यादृग्देवदेवेन धीमता
स्वैःस्वैरंशैर्मही पूर्णा ऋक्षवानररूपिभिः ३०
योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः
सत्वमेव महाराज भगवान्कृतविग्रहः ३१
भरतोऽयं लक्ष्मणश्च शत्रुघ्नश्च महामते
तावकांशाद्दशग्रीवो जनितश्च सुरार्द्दनः ३२
पूर्ववैरानुबंधेन जानकीं हृतवान्पुनः
स त्वया निहतो दैत्यो ब्रह्मराक्षसजातिमान् ३३
पुलस्त्यपुत्रो दैत्येंद्र सर्वलोकैककंटकः
पातितः पृथिवी सर्वा सुखमापमहेश्वर ३४
ब्राह्मणानां सुखं त्वद्य मुनीनां तापसं बलम्
शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः ३५
त्वयि राज्ञि जगत्सर्वं सदेवासुरमानुषम्
सुखं प्रपेदे विश्वात्मञ्जगद्योने नरोत्तम ३६
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ
उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः ३७
इत्थं निशम्य दितिजेंद्र कुलानुकारिवार्तां महापुरुष ईश्वरईशिता च
संरुद्धबाष्पगलदश्रुमुखारविंदो भूमौ पपात सदसि प्रथितप्रभावः ३८

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिविपत्तिकथनंनाम सप्तमोऽध्यायः ७