पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०२४
← अध्यायः ०२३ | पद्मपुराणम् अध्यायः ०२४ वेदव्यासः |
अध्यायः ०२५ → |
शेष उवाच।
शत्रुघ्नस्तु क्रुधाविष्टो दंतान्दंतैर्विनिष्पिषन् ।
हस्तौ धुन्वंल्लेलिहानमधरं जिह्वया सकृत् १।
पुनः पुनस्तान्पप्रच्छ केनाश्वो नीयते मम ।
प्रतापाग्र्यः केन जितः सर्वशूरशिरोमणिः २।
सेवकास्ते तदा प्रोचुर्दमनोनाम शत्रुहन् ।
सुबाहुजः प्रतापाग्र्यं जितवान्हयमाहरत् ३।
इति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा ।
आजगाम स वेगेन यत्राभूद्रणमंडलम् ४।
तत्रापश्यत्स शत्रुघ्नो गजान्दीर्णकपोलकान् ।
पर्वतानिव रक्तोदे मज्जमानान्मदोद्धतान् ५।
हयास्तत्र निजारोहकर्तृभिः सहिताः क्षताः ।
मृता वीरेण ददृशे शत्रुघ्नेन सुकोपिना ६।
नरान्रथान्गजान्भग्नान्वीक्षमाणः स शत्रुहा ।
अतीव चुक्रुधे यद्वत्प्रलये प्रलयार्णवः ७।
पुरतो दमनं वीक्ष्य हयनेतारमुद्भटम् ।
प्रतापाग्र्यस्य जेतारं तृणीकृत्य निजं बलम् ८।
तदा राजा प्रत्युवाच योधान्कोपाकुलेक्षणः ।
कोऽसौ दमन जेताऽत्र सर्वशस्त्रास्त्रधारकः ९।
यो वै राजसुतं वीरं रणकर्मविशारदम् ।
जेष्यत्यस्त्रेण निर्भीतः सज्जीभूतो भवत्वयम् १०।
इति वाक्यं समाकर्ण्य पुष्कलः परवीरहा ।
दमनं जेतुमुद्युक्तो जगाद वचनं त्विदम् ११।
स्वामिन्क्वायं दमनकः क्व तेऽपरिमितं बलम् ।
जेष्येऽहं त्वत्प्रतापेन गच्छाम्येष महामते १२।
सेवके मयि युद्धाय स्थिते कैर्नीयते हयः ।
रघुनाथप्रतापोऽयं सर्वं कृत्यं करिष्यति १३।
स्वामिञ्छृणु प्रतिज्ञां मे तव मोदप्रदायिनीम् ।
विजेष्ये दमनं युद्धे रणकर्मविचक्षणम् १४।
रामचंद्रपदांभोजमध्वास्वादवियोगिनाम् ।
यदघं तु भवेत्तन्मे दमनं न जयेयदि १५।
पुत्रो यो मातृपादान्यत्तीर्थं मत्वा तया सह ।
विरुद्ध्येत्तत्तमो मह्यं न जयेदमनं यदि १६।
अद्य मद्बाणनिर्भिन्न महोरस्को नृपांगजः ।
अलंकरोतु प्रधने भूतलं शयनेन हि १७।
शेष उवाच।
इति प्रतिज्ञामाकर्ण्य पुष्कलस्य रघूद्वहः ।
जहर्ष चित्ते तेजस्वी निदिदेश रणं प्रति १८।
आज्ञप्तोऽसौ ययौ सैन्यैर्बहुभिः परिवारितः ।
यत्रास्ते दमनो राजपुत्रः शूरकुलोद्भवः १९।
दमनोऽपि तमाज्ञाय ह्यागतं रणमंडले ।
प्रत्युज्जगाम वीराग्र्यः स्वसैन्यपरिवारितः २०।
अन्योन्यं तौ संमिलितौ रथस्थौ रथशोभिनौ ।
समरे शक्रदैत्यौ किं युद्धार्थं रणमागतौ २१।
उवाच पुष्कलस्तं वै राजपुत्रं महाबलम् ।
राजपुत्र दमनक मां जानीहि समागतम् २२।
स प्रतिज्ञं तु युद्धाय भरतात्मजमुद्भटम् ।
पुष्कलेन स्वनाम्ना च लक्षितं विद्धिसत्तम २३।
रघुनाथपदांभोज नित्यसेवामधुव्रतम् ।
त्वां जेष्ये शस्त्रसंघेनसज्जीभव महामते २४।
इति वाक्यं समाकर्ण्य दमनः परवीरहा ।
प्रत्युवाच हसन्वाग्मी निर्भयोद्दृष्टविक्रमः २५।
सुबाहुपुत्रं दमनं पितृभक्ति हृताघकम् ।
विद्धि मामश्वनेतारं शत्रुघ्नस्य महीपतेः २६।
जयो दैवविसृष्टोऽयं यस्य चालंकरिष्यति ।
स प्राप्नोति निरीक्षस्व बलं मे रणमूर्धनि २७।
इत्युक्त्वा स शरं चापं विधायाकर्णपूरितम् ।
मुमोच बाणान्निशितान्वैरिप्राणापहारिणः २८।
ते बाणास्त्वाविलीभूताश्छादयामासुरंबरम् ।
सूर्यभानुप्रभा यत्र बाणच्छायानिवारिता २९।
गजानां कटभित्त्योघे लग्ना सायकसंततिः ।
अलंकरोति धातूनां रागा इव विचित्रिताः ३०।
पतितास्तत्र दृश्यंते नरा वाहा गजा रथाः ।
शरव्रातेन नृपतेः सुतेन परिताडिताः ३१।
तद्विक्रांतं समालोक्य पुष्कलः परवीरहा ।
शराणां छायया व्याप्तं रणमंडलमीक्ष्य च ३२।
शरासने समाधत्त बाणं वह्न्यभिमंत्रितम् ।
आचम्य सम्यग्विधिवन्मोचयामास सायकम् ३३।
ततोऽग्निप्रादुरभवत्तत्र संग्राममूर्धनि ।
ज्वालाभिर्विलिहन्व्योम प्रलयाग्निरिवोत्थितः ३४।
ततोऽस्य सैन्यं निर्दग्धं त्रासं प्राप्तं रणांगणे ।
पलायनपरं जातं वह्निज्वालाभिपीडितम् ३५।
छत्राणि तु प्रदग्धानि चंद्राकाराणि धन्विनाम् ।
दृश्यंते जातरूपाभ कांतिधारीणि तत्र ह ३६।
हया दग्धाः पलायंते केसरेषु च वैरिणाम् ।
रथा अपि गता दाहं सुकूबरसमन्विताः ३७।
मणिमाणिक्यरत्नानि वहंतः करभास्ततः ।
पलायंते दहनभू ज्वालामालाभिपीडिताः ३८।
कुत्रचिद्दंतिनो नष्टाः कुत्रचिद्धयसादिनः ।
कुत्रचित्पत्तयो नष्टा वह्निदग्धकलेवराः ३९।
शराः सर्वे नृपसुतप्रमुक्ताः प्रलयं गताः ।
आशुशुक्षणिकीलाभिर्भस्मीभूताः समंततः ४०।
तदा स्वसैन्ये दग्धे च दमनो रोषपूरितः ।
सर्वास्त्रवित्तच्छांत्यर्थं वारुणास्त्रमथा ददे ४१।
वारुणं वह्निशांत्यर्थं मुक्तं तेन महीभृता ।
आप्लावयद्बलं तस्य रथवाजिसमाकुलम् ४२।
रथा विप्लावितास्तोये दृश्यंते परिपंथिनाम् ।
गजाश्चापि परिप्लुष्टाः स्वीयाः शांतिमुपागताः ४३।
वह्निश्च शांतिमगमदग्न्यस्त्र परिमोचितः ।
शांतिमाप बलं स्वीयं वह्निज्वालाभिपीडितम् ४४।
कंपिताः शीततोयेन सीत्कुर्वंति च वैरिणः ।
करकावृष्टिभिः क्षिप्ता वायुना च प्रपीडिताः ४५।
तदा स्वबलमालोक्य तोयपूरेण पीडितम् ।
कंपितं क्षुभितं नष्टं वारुणेन विनिर्हृतम् ४६।
तदातिकोपताम्राक्षः पुष्कलो भरतात्मजः ।
वायव्यास्त्रं समाधत्त धनुष्येकं महाशरम् ४७।
ततो वायुर्महानासीद्वायव्यास्त्रप्रचोदितः ।
नाशयामास वेगेन घनानीकमुपस्थितम् ४८।
वायुना स्फालिता नागाः परस्परसमाहताः ।
अश्वाश्च संहतान्योन्यं स्वस्वारोहसमन्विताः ४९।
नराः प्रभंजनोद्धूता मुक्तकेशा निरोजसः ।
पतंतोऽत्र समीक्ष्यंते वेताला इव भूगताः ५०।
वायुना स्वबलं सर्वं परिभूतं विलोक्य सः ।
राजपुत्रः पर्वतास्त्रं धनुष्येवं समादधे ५१।
तदा तु पर्वताः पेतुर्मस्तकोपरि युध्यताम् ।
वायुः संच्छादितस्तैस्तु न प्रचक्राम कुत्रचित् ५२।
पुष्कलो वज्रसंज्ञं तु समाधत्त शरासने ।
वज्रेण कृत्तास्ते सर्वे जाताश्च तिलशः क्षणात् ५३।
वज्रं नगान्रजः शेषान्कृत्वा बाणाभिमंत्रितम् ।
राजपुत्रोरसि प्रोच्चैः पपात स्वनवद्भृशम् ५४।
सत्वाकुलितचेतस्को हृदि विद्धः क्षतो भृशम् ।
विव्यथे बलवान्वीरः कश्मलं परमाप सः ५५।
तं वै कश्मलितं दृष्ट्वा सारथिर्नयकोविदः ।
अपोवाह रणात्तस्मात्क्रोशमात्रं नरेंद्रजम् ५६।
ततो योधा राजसूनोः प्रणष्टाः प्रपलायिताः ।
गत्वा पुरीं समाचख्युः कश्मलस्थं नृपात्मजम् ५७।
पुष्कलो जयमाप्यैवं रणमूर्धनि धर्मवित् ।
न प्रहर्तुं पुनः शक्तो रघुनाथवचः स्मरन् ५८।
ततो दुंदुभिनिर्घोषो जयशब्दो महानभूत् ।
साधुसाध्विति वाचश्च प्रावर्तंत मनोहराः ५९।
हर्षं प्राप स शत्रुघ्नो जयिनं वीक्ष्य पुष्कलम् ।
प्रशशंस सुमत्यादि मंत्रिभिः परिवारितः ६०।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलविजयोनाम चतुर्विंशतितमोऽध्यायः २४ ।