पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५७
← अध्यायः ०५६ | पद्मपुराणम् अध्यायः ०५७ वेदव्यासः |
अध्यायः ०५८ → |
वात्स्यायन उवाच।
जगत्पवित्रसत्कीर्ति जानक्या वाच्यवाचनम् ।
कथं समकरोत्स्वामी तन्मे कथय सुव्रत १।
यथा मे मनसः सौख्यं भविष्यति सुशोभनम् ।
तथा कुरुष्व शेषाद्य त्वन्मुखान्निःसृतामृतम् ।
पिबतस्तृप्तिरेव स्याद्यया संसृतिकृं तनम् २।
शेष उवाच।
मिथिलायां महापुर्यां जनको नाम भूपतिः ।
तस्यां करोति सद्राज्यं धर्मेणाराधयन्प्रजाः ३।
तस्य संकर्षतो भूमिं सीतया दीर्घमुख्यया ।
सीरध्वजस्य निरगात्कुमारी ह्यतिसुंदरी ४।
तदात्यंतं मुदं प्राप्तः सीरकेतुर्महीपतिः ।
सीता नामाकरोत्तस्या मोहिन्या जगतः श्रियः ५।
सैकदोद्यानविपिने खेलंती सुमनोहरा ।
अपश्यत्स्वमनःकांतं शुकशुक्योर्युगं वदत् ६।
अत्यंतं हर्षमापन्नमत्यंतं कामलोलुपम् ।
परस्परं भाषमाणं स्नेहेन शुभया गिरा ७।
रममाणं तदा युग्मं नभसि क्षिप्रवेगतः ।
समुत्पतन्नगोपस्थे स्थितं शब्दं चकार तत् ८।
रामो महीपतिर्भूमौ भविष्यति मनोहरः ।
तस्य सीतेति नाम्ना तु भविष्यति महेलिका ९।
स तया सह वर्षाणां सहस्राण्येकयुग्दश ।
राज्यं करिष्यते धीमान्कर्षन्भूमिपतीन्बली १०।
धन्या सा जानकी देवी धन्योऽसौ रामसंज्ञितः ।
यौ परस्परमापन्नौ पृथिव्यां रंस्यतो मुदा ११।
इति संभाष्यमाणं तु शुकयुग्मं तु मैथिली ।
ज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च १२।
मदीयास्तु कथा रम्याः कुरुते शुकयोर्युगम् ।
एतद्गृहीत्वा पृच्छामि सर्वं वाक्यं गतार्थकम् १३।
एवं विचार्य सा स्वीयाः सखीः प्रतिजगाद ह ।
गृह्णंतु शनकैरेतत्पक्षियुग्मं मनोहरम् १४।
सख्यस्तास्तद्गिरिं गत्वा गृह्णन्पक्षियुगं वरम् ।
निवेदयामासुरिदं स्वसख्याः प्रियकाम्यया १५।
बहुधा विविधाञ्छब्दान्कुर्वद्वीक्ष्य मनोहरम् ।
आश्वासयामास तदा पप्रच्छ तदिदं वचः १६।
सीतोवाच।
मा भैषातां युवां रम्यौ कौ वां कुत्र समागतौ ।
को रामः का च सा सीता तज्ज्ञानं तु कुतः स्मृतम् १७।
तत्सर्वं शंसतं क्षिप्रं मत्तो वां व्येतु यद्भयम् ।
इति पृष्टं तया पक्षियुगं सर्वमशंसत १८।
पक्षियुग्ममुवाच।
वाल्मीकिरास्ते सुमहानृषिर्धर्मविदुत्तमः ।
आवां तदाश्रमस्थाने सर्वदा सुमनोहरे १९।
सशिष्यान्गापयामास भावि रामायणं मुनिः ।
प्रत्यहं तत्पदस्मारी सर्वभूतहिते रतः २०।
तदावाभ्यां श्रुतं सर्वं भावि रामायणं महत् ।
मुहुर्मुहुर्गीयमानमायातं परिपाठतः २१।
शृण्वावां तेऽभिधास्यावो यो रामो या च जानकी ।
यद्यद्भविष्यते तस्या रामेण क्रीडितात्मना २२।
ऋष्यशृंगकृतेष्ट्यां च चतुर्धा त्वंगतो हरिः ।
प्रादुर्भविष्यति श्रीमान्सुरस्त्रीगीतसत्कथः २३।
स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतः ।
धनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजाम् २४।
धनुर्भंक्त्वा जनकजां प्राप्स्यते सुमनोहराम् ।
तया सह महद्राज्यं करिष्यति श्रुतं वरे २५।
एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैः ।
कथितं तव चार्वंगि मुंचावां गंतुकामुकौ २६।
इति वाक्यं तयोर्धृत्वा श्रोत्रयोः सुमनोहरम् ।
पुनरेवजगादेदं वाक्यं पक्षियुगं प्रति २७।
स रामः कुत्र वर्तेत कस्य पुत्रः कथं तु ताम् ।
परिग्रहीष्यति वरः कीदृग्रूपधरो नरः २८।
मया पृष्टमिदं सर्वं कथयंतु यथातथम् ।
पश्चात्सर्वं करिष्यामि प्रियं युष्मन्मनोहरम् २९।
तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी ।
जानकीं हृदये ज्ञात्वा पपाठ पुरतस्ततः ३०।
सूर्यवंशध्वजो धीमान्राजा पंक्तिरथो बली ।
यं देवाः श्रित्य सर्वारीन्विजेष्यंति च सर्वशः ३१।
तस्य भार्यात्रयं भावि शक्रमोहनरूपधृक् ।
तस्मिन्नपत्य चातुष्कं भविष्यति बलोन्नतम् ३२।
सर्वेषामग्रजो रामो भरतस्तदनुस्मृतः ।
लक्ष्मणस्तदनु श्रीमाञ्छत्रुघ्नः सर्वतो बली ३३।
रघुनाथ इति ख्यातिं गमिष्यति महामनाः ।
तेषामनंतनामानि रामस्य बलिनः सखि ३४।
पद्मकोश इव शोभनं मुखं ।
पंकजाभनयने सुदीर्घके ।
उन्नता पृथुमनोहरा नसा ।
वल्गुसंगत मनोहरे भ्रुवौ ३५।
जानुलंबित मनोहरौ भुजौ ।
कंबुशोभिगलकोऽतिह्रस्वकः ।
सत्कपाटतलविस्तृतश्रिकं ।
वक्ष एतदमलं सलक्ष्मकम् ३६।
शोभनोरुकटिशोभया युतं ।
जानुयुग्मममलं स्वसेवितम् ।
पादपद्ममखिलैर्निजैः सदा ।
सेवितं रघुपतिं सुशोभनम् ३७।
एतद्रूपधरो रामो मया किं तु स वर्ण्यते ।
शताननोपि नो याति पक्षिणः किमु मादृशाः ३८।
यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा ।
लक्ष्मीर्मुमोह भुविका वर्तते या न मोहति ३९।
महाबलो महावीर्यो महामोहनरूपधृक् ।
किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम् ४०।
धन्या सा जानकीदेवी महामोहनरूपधृक् ।
रंस्यते येन सहिता वर्षाणामयुतं मुदा ४१।
त्वं कासि किं तु नामासि बत सुंदरि यत्तु माम् ।
परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात् ४२।
एतद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम् ।
उवाच जन्मललितं शंसंती स्वस्य मोहनम् ४३।
या त्वया जानकी प्रोक्ता साहं जनकपुत्रिका ।
स रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः ४४।
तदा वां मोचयाम्यद्धानान्यथा वाक्यलोभिता ।
लालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ ४५।
इत्युक्तं तत्समाकर्ण्य वेपतुर्भयतां गतौ ।
परस्परं प्रक्षुभितौ जानकीमित्यवोचताम् ४६।
वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः ।
परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे ४७।
अंतर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान् ।
त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः ४८।
एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम् ।
तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः ४९।
सीते मुंच कथं भार्यां रक्षसे मे मनोहरीम् ।
आवां गच्छाव विपिने विचरावः सुखं वने ५०।
अंतर्वत्नी तु वर्तेत भार्या मम मनोरमा ।
तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने ५१।
इत्युक्ता निजगादेमं सुखं गच्छ महामते ।
एतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम् ५२।
इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितः ।
योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि ५३।
न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठताम् ।
नोचेत्स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः ५४।
वयं चेदत्र वाक्यं नाकरिष्याम नगोपरि ।
बंधनं कथमावां स्यात्तस्मान्मौनं समाचरेत् ५५।
इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुंदरि ।
एतया भार्यया सीते तस्मान्मुंच मनोहरे ५६।
अनेकविधवाक्यैः सा बोधिता नामुचत्तदा ।
कुपिता दुःखिता भार्या शशाप जनकात्मजाम् ५७।
यथा त्वं पतिना सार्धं वियोजयसि मामितः ।
तथा त्वमपि रामेण वियुक्ता भव गर्भिणी ५८।
इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः ।
प्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात् ५९।
रामं रामं स्मरंत्याश्च वदंत्यांश्च पुनः पुनः ।
विमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ ६०।
तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट् ।
परमं क्रोधमापन्नो जाह्नव्यां दुःखितोऽपतत् ६१।
तथा भवामि रामस्य नगरे जनपूरिते ।
मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता ६२।
इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभिते ।
दुःखितः कुपितो भीतस्तद्वियोगेन कंपितः ६३।
क्रुद्धत्वाद्दुःखितत्वाच्च सीताया अपमाननात् ।
अंत्यजत्वं परं प्राप्तो रजकः क्रोधनाभिधः ६४।
यः क्रोधाच्च स्वकान्प्राणान्महतां दुष्टमाचरन् ।
संत्यजेत्स मृतो याति अंत्यजत्वं द्विजोत्तमः ६५।
तज्जातं रजकोक्त्यासौ निंदिता च वियोगिता ।
रजकस्य च शापेन वियुक्ता सा वनं गता ६६।
एतत्ते कथितं विप्र यत्ते पृष्टं विदेहजाम् ।
पुनरत्र परं वृत्तं शृणुष्व निगदामि तत् ६७।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रजकप्राग्जन्मकथनंनाम सप्तपंचाशत्तमोऽध्यायः ५७।