पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०७

विकिस्रोतः तः
← अध्यायः १०६ पद्मपुराणम्
अध्यायः १०७
वेदव्यासः
अध्यायः १०८ →

शुचिस्मितोवाच-
कश्यपं जमदग्निं च देवानां च पुरा कथम् ।
ररक्ष भस्म तद्ब्रह्मन्समाचक्ष्व मुने मम १।
दधीच उवाच-
कश्यपादियुता देवाः पूर्वमभ्यागमन्गिरिम् ।
शोकरं नाम विख्यातं गिरिमध्ये सुशोभनम् २।
नानाविहंगसंकीर्णं नानामुनिगणाश्रयम् ।
वासुदेवाश्रयं रम्यमप्सरोगणसेवितम् ३।
विचित्रवृक्षसंवीतं सर्वर्तुकुसुमोज्ज्वलम् ।
तथाविधं प्रविश्यैते गिरिं वयमथापरे ४।
स्तुवंतः केशवं तत्र गताः स्म गिरिशेश्वरम् ।
दृष्ट्वा तत्र महाज्वालां प्रविष्टाश्च वयं च ताम् ५।
मामेकं तु तिरस्कृत्य ह्यदहद्देवता मुनीन् ।
मां ददाह ततः पश्चाद्भस्मीभूता वयं शुभे ६।
अस्मानेतादृशान्दृष्ट्वा वीरभद्रः प्रतापवान् ।
केनापिकारणेनासौ गतवान्पर्वतं च तम् ७।
भस्मोद्धूलितसर्वांगो मस्तकस्थशिवः शुचिः ।
एकाकी निःस्पृहः शान्तो हाहाशब्दमथाशृणोत् ८।
अथ चिंतापरश्चासीन्म्रियमाण शवध्वनिः ।
शवानामिवगंधश्च दृश्यते तन्निरीक्षणे ९।
इति निश्चित्य मनसा जगामाग्निमतिप्रभम् ।
स वह्निर्वीरभद्रं च दग्धुमारब्धवानथ १०।
तृणाग्निरिव शांतोऽभूदासाद्य सलिलं यथा ।
ततोऽपरां महाज्वालां वीरभद्रस्तु दृष्टवान् ११।
खं गच्छंतीं महाकालो ज्वालां निपतितामपि ।
मनसा चिंतयच्चापि वीरभद्रः प्रतापवान् १२।
सर्वेषां नाशिनी ज्वाला प्राणिनां शतकोटिशः ।
तत्सर्वं रक्षणार्थं हि पिपासुश्चाप्यहं त्विमाम् १३।
प्राश्नामि महतीं ज्वालां सलिलं तृषितो यथा ।
एतस्मिन्नंतरे वीरं वागाह चाशरीरिणी १४।
भारत्युवाच-
वीर मा साहसं कार्षीः क्व तृषा क्वाशुशुक्षणिः ।
तृषितानां जलेनार्थो विपरीतो वनाग्निना १५।
निकामं योजनशिराः प्रणष्टो राक्षसेश्वरः ।
शतयोजनवक्त्रश्च शतबाहुस्तथापरः १६।
अगस्त्यश्च महाभागो निःशेषं पीतसागरः ।
एतानन्यानसंख्याताञ्ज्वालेयं तानमारयत् १७।
वीरभद्र उवाच-
भीषिकेयं महाज्वाला त्वदुक्ता न हि जायते ।
सरस्वति भवत्यां च ममरोषश्च जायते १८।
सर्वदेवार्चितपदं वीरभद्रमवेहि माम् ।
भारत्युवाच-
मयोक्तं हितभावेन न द्वेषान्नान्यतो मुने १९।
कोपमुत्सृज वीर त्वमात्मनोहितमाचर ।
इत्युक्त्वांतर्दधे देवी भारती वीरभीतितः २०।
अथ वीरो महाज्वालामपासील्लीलयैव तु ।
क्षणेन महती ज्वाला शतयोजनविस्तृता २१।
एकेन वीरभद्रेण पीता परमदुःसहा ।
अथ चेंद्रमुखानां च मुनीनां भस्मराशयः २२।
दृष्टा वै वीरभद्रेण आहूताश्च महात्मना ।
न चाब्रुवन्प्रतिवचो मृता मुनिदिवौकसः २३।
वीरभद्रस्तु विज्ञाय नाशं मुनिदिवौकसाम् ।
दध्यावमून्कथं सर्वाञ्जीवयाम्यद्य कोविदः २४।
ध्यानेन दृष्टवांश्चापि जीवितं भस्मदेहिनाम् ।
अथाचम्य मृतानां तु भस्मान्यथ च भस्मना २५।
मृत्युंजयेन मंत्रेण मंत्रितेन ह्यमंत्रयत् ।
अथोत्थिता मुनिवराः स्वं स्वं रूपमुपाश्रिताः २६।
अथ ते गतवंतश्च गिरिपार्श्वं महाप्रभम् ।
तत्रापि भक्षिताः सर्वे सर्पेणातिशरीरिणा २७।
अथ वीरो महासर्पसमीपमगमत्प्रभुः ।
वीरमागतमालोक्य भुजगो योद्धुमारभत् २८।
युयुधे वर्षमेकं तु नानारूपधरः फणी ।
अथ वीरः प्रगृह्यौष्ठयुगं करयुगेन च २९।
द्विधा चक्रे समस्तांगं देवांस्तत्र गतायुषः ।
दृष्ट्वाथ भस्मनैवैताञ्जीवयामास शंकरः ३०।
अथ देवाः समुनयो वीरभद्रं प्रणम्य तु ।
गतवंतो यथामार्गं ददृशू रक्ष आगतम् ३१।
पंचमेढ्रं महाकायं दोर्भिश्च दशभिर्युतम् ।
पंचपादसमोपेतं शिरोभिर्युतमष्टभिः ३२।
कांक्षमाणं महाहारं युध्यमानो हि वालिना ।
महावराहवपुषो वासुदेवस्य यद्बलम् ३३।
तादृशं द्विगुणीभूतं कपौ वालिनि निश्चितम् ।
तादृशं वानरश्रेष्ठं ससुग्रीवं सराक्षसः ३४।
मुष्टियुद्धे पंचपादैः सहसा हत्य वालिनम् ।
सुग्रीवं च कराभ्यां स हंतुमेव प्रचक्रमे ३५।
आस्ये निक्षिप्य सुग्रीवमग्रसत्कवलं यथा ।
वालिसुग्रीवग्रसनं दृष्ट्वा चिंतामवाप ह ३६।
कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम् ।
एवं हि चिंतयानं तं वानरं राक्षसेश्वरः ३७।
अग्रसीदेकयत्नेन तथाभूतं च राक्षसम् ।
दृष्ट्वा देवर्षयः सर्वे पलायनपरास्तथा ३८।
पलायमानांस्तान्दृष्ट्वा पंचमेढ्रः स राक्षसः ।
हस्तैः समस्तैस्तान्सर्वानादायाभक्षयत्तदा ३९।
वीरभद्रस्ततो दृष्ट्वा वानरर्षिसुरादनम् ।
पंचाशद्योजनशिलां करेणादाय तं रुषा ४०।
निजघान शिरोमध्ये मध्यमं पतितं शिरः ।
तत आदाय शैलस्य शृंगं तच्छतयोजनम् ४१।
स्थापयित्वा दृढतरं राक्षसेंद्रं तथाहरत् ।
राक्षसोऽथ बभाषे तं वीरभद्रं त्रिलोचनम् ४२।
मम बाहुबलं पश्य वीक्षितं त्वद्बलं मया ।
असिद्वयं तैलधौतं पंचाशद्योजनोन्नतम् ४३।
एकयोजनविस्तारं सुदृढं लक्षणान्वितम् ।
एकं गृहाणाभिमतं विशिष्टं तन्ममप्रियम् ४४।
वीरभद्रस्तथेत्युक्त्वा गृहीत्वासिं महाबलः ।
करेणाचालयत्तीक्ष्णं क्ष्वेलीं चक्रे ततः क्रुधा ४५।
गृहीतासिस्तथा क्ष्वेलद्यं चक्रे राक्षसपुंगवः ।
वीरभद्रं समभ्येत्य कंठं प्रतिसमर्पयत् ४६।
तद्गात्रं भिन्नमभवच्छोणितं निर्गतं बहु ।
राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः ४७।
वीरभद्रः कंठदेशे राक्षसं प्राहरद्रुषा ।
शिरोद्वयं तथाच्छिन्नं पतमानं ततोऽग्रहीत् ४८।
न्यभक्षयदमेयात्मा सिंहनादं चकार ह ।
तेन नादेन महता क्षुब्धमासीज्जगत्त्रयम् ४९।
अन्योन्यमसिघातेन भिन्नगात्रौ विकस्वरौ ।
किंशुकाविव दृश्येते पुष्पितौ रुधिरोक्षितौ ५०।
वर्षमेकं तु संयुध्य सासीदेवासुरौ तदा ।
अतःपरं वर्षमेकं गदायुद्धमभूत्तयोः ५१।
असिपुत्रिकया पश्चाद्वर्षमेकमभूद्रणः ।
पुनर्गृहीत्वासियुगं युयुधाते परस्परम् ५२।
शं ब्रुवाणो महाखड्गं दंष्ट्राकारो गणेश्वरः ।
सरोषरक्तनयनश्चालयित्वासिमग्रतः ५३।
तस्य कंठवनं सर्वं चिच्छेद कदलद्यं यथा ।
शिरांसि सर्वाण्यादाय बभक्ष भगनेत्रहा ५४।
तस्य गात्रं कररुहैर्विदार्याहृत्य देवताः ।
कपींद्रौ च तथा चान्या अद्राक्षीत्परमेश्वरीम् ५५।
एतद्युद्धं महाघोरं नारदो वीक्ष्य चाभ्यगात् ।
ब्रह्मणे वासुदेवाय शंकराय व्यजिज्ञपत् ५६।
मुनयो रक्षिता देवा वालिसुग्रीव वानरौ ।
एतौ संजीवयामास ब्रह्मविष्णुशिवात्मकः ५७।
रक्षसे शंभुना दत्तो वरः परमदारुणः ।
हिरण्यकशिपोराज्ये बलवानेक राक्षसः ५८।
देवैः सार्द्धं तु युयुधे वर्षाणां शतमद्भुतम् ।
पलायिताश्च बहुधा मृताश्च शतशोसुराः ५९।
शुक्रेण रक्षितः सोऽथ गुरुणाचिंतयत्त्विदम् ।
मृतोऽस्मि शतशः शुक्र जीवितोऽस्मि त्वयैव हि ६०।
अमृत्यवे त्वमेतस्मादुदरस्थमृताय च ।
अन्यथा मरणं मह्यं भविष्यति न संशयः ६१।
गुरो यमेन साकं मे युद्धमासीत्सुदारुणम् ।
मयासौ ग्रसितो युद्धे यमराजः प्रतापवान् ६२।
ममोदरं प्रविश्यासौ बिभेद च ननाद च ।
अहं मृतस्तदा चासं त्वया संजीवितः पुनः ६३।
तस्मादुदरसंस्थानां मरणाय तपे तपः ।
शुक्र उवाच-
एवमेतन्न संदेहो यथावत्त्वं समाचर ६४।
स्यमंतपंचकं तीर्थं तत्र त्वं तप्तुमर्हसि ।
राक्षस उवाच-
तपे महत्तपो घोरं यन्न चीर्णं सुरासुरैः ६५।
गुल्फप्रदेशे पादान्ते त्वयःपाशैः प्रबध्य च ।
अयःस्तंभयुगं कृत्वा अयःपट्टिकयान्वितम् ६६।
पट्टिकायां पादबंधं कृत्वाधः शीर्षतां तथा ।
विवृतास्यं तथा कल्पं कृत्वाधोमुखमुच्चकैः ६७।
स्तंभोत्तरेण ज्वालायां चक्रिकायामितस्ततः ।
अधःशिरास्तथा तिष्ठन्नुन्मील्यैव विलोचने ६८।
एवं तपश्चरिष्यामि वरदः कोपि मे भवेत् ।
ब्रह्मा वा वरदः सोऽस्तु शंकरो विष्णुरेव च ६९।
वरदे न तु मे भाव्यं यो वा कोवा वरप्रदः ।
इत्थमाभाष्य मुनिना गुरुणा भार्गवेण सः ७०।
तथातपच्च षण्मासं पुनरन्यच्चकार ह ।
नखाभ्यां स्वशिरश्छित्त्वा जुहावाग्नौ समंत्रकम् ७१।
नमो भद्राय मंत्रेण चत्वारि च शिरांसि सः ।
पंचमं तु शिरो हातुं यतमाने च राक्षसे ७२।
वह्निमध्यात्समुत्तस्थौ भगवानंबिकापतिः ।
शुद्धस्फटिकसंकाशो बालचन्द्र विभूषणः ७३।
अधःशिरस्कं तद्रक्ष इदमाह महेश्वरः ।
मा साहसं कृथा रक्षो वरदोऽस्मि वरं वृणु ७४।
राक्षस उवाच-
बहूनां च वराणां त्वं दाता नूनं महेश्वरः ।
हतशीर्षसमुत्पत्तिं ग्रस्तजीवमृतिं तथा ७५।
वराहवपुषो विष्णोरस्तु शक्तिश्चतुर्गुणा ।
मयि तेन हि रोषः स्यात्संनिधिस्तु सदा मम ७६।
त्वज्जटोत्पाटनेनैकः पुरुषः संभविष्यति ।
तेनैव मरणं नान्यैरिदमस्तु वृतं मम ७७।
भविष्यत्येवमेवैतदित्युक्त्वांतर्हितोहरः ।
एवंलब्धवरः पापी राक्षसो निहतस्त्वया ७८।
अथालिंग्य हरिर्वीरं शंकरश्च पितामहः ।
यथागतमथोजग्मुरथ देवादियोषितः ७९।
निपत्य दंडवद्भूमौ वीरभद्रमथाब्रुवन् ।
नमस्ते देवदेवेश नमस्ते करुणाकर ८०।
नमस्ते शाश्वतानंत नमस्ते वरदो भव ।
वीरभद्र उवाच-
भस्मना जीवयिष्यामि सुरान्समुनि वानरान् ८१।
भवतीभिः प्रतोष्टव्यं शोकः कार्यो न चाधुना ।
इत्युक्त्वा वीरभद्रस्तु भस्मनाजीवयत्सतान् ८२।
उत्थिता मुनिदेवाश्च वानरौ चोत्थितौ ततः ।
इदमूचुर्वचो हृष्टाः शिरःस्थांजलयो नमन् ८३।
त्वयात्र जीवितास्तात पिता त्वं धर्मतो हि नः ।
अस्माकं शरणं नित्यं भव शंकरसंभव ८४।
शिशूनां दुष्टचरितं दृष्ट्वा शिक्षेस्तथा च तान् ।
रक्षेः परकृता बाधा व्याधिभ्यश्च यथौरसान् ८५।
दक्षाध्वरे कृतागस्काः शिक्षिता भवतानघ ।
इदानीं रक्षितास्तात वयं शिशुवदेव ते ८६।
वीरभद्र उवाच-
सत्यमेतन्न संदेहो यत्र बाधा भवेत्तु वः ।
तत्र मां स्मरत क्षिप्रं बाधानाशं गमिष्यति ८७।
वीरभद्रं पदं येपि पठंत्यष्टशतं ततः ।
प्रणवादि नमोंऽतं च चतुर्थीसहितं तथा ८८।
तेषां राक्षसपीडानां नाशनं च भविष्यति ।
ब्रह्मराक्षसपीडासु पिशाचादिभयेषु च ८९।
नामानुस्मरणात्सर्वबाधानां च विनाशनम् ९०।
विद्युत्प्रभालोचनमुग्रमीशं बालेंदुदंष्ट्रारुणशोभिताधरम् ।
सुनीलगात्रं च जटाकृतस्रजं दधानमंगे भसितत्रिपुंड्रकम् ९१।
ब्रह्मराक्षसमुक्त्यर्थं स्मरणं त्विदमीरितम् ।
मंत्रे च वीरभद्रस्य सर्वमेतदुदीरितम् ९२।
दधीच उवाच-
अथैवं विदधे वीरो मुनिदेवास्तथागताः ।
एतत्त्रियायुषं प्रोक्तं भस्ममाहात्म्यमुत्तमम् ९३।
पठतः शृण्वतो वापि स्मरतोऽघविनाशनम् ।
शिवभक्तिप्रदं पुण्यमायुरारोग्यवर्द्धनम् ९४।
शुचिस्मितोवाच-।
अहं कृतार्था धन्या च नारीणामुत्तमास्म्यहम् ।
हतपापा तथा चास्मि नमस्ते मुनिपुंगव ९५।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे सप्तोत्तरशततमोऽध्यायः १०७।