पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०८
← अध्यायः १०७ | पद्मपुराणम् अध्यायः १०८ वेदव्यासः |
अध्यायः १०९ → |
श्रीराम उवाच-
भस्मोत्पत्तिं महाभाग भस्ममाहात्म्यमेव च ।
भस्मसंधारणे पुण्यं भस्मदाने च तद्वद १।
शंभुरुवाच-
भस्मोत्पत्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।
स्मरणात्कीर्तनाद्राम तां शृणुष्व नराधिप २।
य एकः शाश्वतो देवो ब्रह्मवंद्यः सदाशिवः ।
त्रिलोचनो गुणाधारो गुणातीतोऽक्षरोव्ययः ३।
सिसृक्षा तस्य जाताथ वीक्ष्यात्मस्थं गुणत्रयम् ।
वेदत्रयमिदं ज्ञेयं गुणत्रयमिदं हि यत् ४।
पृथक्कृत्वात्मनस्तात तत्रस्थानं विभज्य च ।
दक्षिणांगेसृजत्पुत्रं ब्रह्माणं वामतो हरिम् ५।
पृष्ठदेशे महेशानं त्रीन्पुत्रानसृजद्विभुः ।
जातमात्रास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ६।
इदमूचुर्वचः स्पष्टं को भवान्के वयंत्विति ।
तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता ७।
इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकम् ।
पुत्रा ऊचुः -
कं वा गुणं को भजतां कियंतं कालमीश्वर ८।
कथं गुणनिवृत्तिश्च भवेदेतद्वदस्व नः ।
शिव उवाच-
यावज्ज्ञानं हि भवतां यावदायुरथापि वा ९।
धारणं तावदेवस्यादेकैकस्य गुणस्य च ।
सत्वं ब्रह्मा रजोविष्णुर्भजेन्महेश्वरस्तमः १०।
इत्युक्तमात्रे देवेशे ब्रह्मा सत्वमथाग्रहीत् ।
न च चालयितुं शक्तो धारणे किमु शक्तिमान् ११।
तं गुणं तु तिरस्कृत्य रजोगुणमथाग्रहीत् ।
न च चालयितुं शक्तो जग्राहाथ तमोगुणम् १२।
न च चालयितुं शक्तो निपपात रुरोद च ।
विष्णुश्च वामहस्तेन रजोगुणमधारयत् १३।
अंगुलीभ्यां महेशोऽपि तमोगुणमधारयत् ।
सत्वमेकोंगुलीभ्यां च सत्वं विष्णुमथादधात् १४।
ब्रह्माणं पादपीठे च दधार च ननर्त च १५।
नृत्यंतमत्यंतविलासरूपं गोक्षीररूपं तरुणं त्रिनेत्रम् ।
सर्वं दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्वरदो बभाषे १६।
शिव उवाच-
प्रीतोऽस्मि तव पुत्राहं वरं वृणु यथेप्सितम् ।
अथाह पितरं पुत्रो वरमेनं ददस्व मे १७।
मामुद्दिश्य कृता पूजा तव पूजा भवेच्छिव ।
तिष्ठेर्मयि सदा त्वं च त्वमेवाहं च वाव्ययः १८।
शिव उवाच-
एवमेतन्महाभाग भविष्यति न संशयः ।
रक्तगौराविमौ पुत्रौ ब्रह्मविष्णू ममैव तु १९।
बाहुमूलस्थरोमौ च ममाकारौ तथानघौ ।
अथ ब्रह्माणमाहेदं भजत्वेकं गुणं भवान् २०।
ब्रह्मोवाच-
त्वन्निर्दिष्टं गुणमहं धर्तुं शक्तो न हीश्वर ।
धारयिष्ये रजो देव सत्वं भजतु वै हरिः २१।
अवशिष्टं गुणं चायमीश्वरो धारयिष्यति ।
शंभुरुवाच-
गुणानादायते देवा नशेकुर्नित्यधारणम् २२।
कर्तुं भरणशक्त्यर्थं शिवमित्यवदत्पुनः ।
गुणान्वयं सर्वकालं न च धारयितुं क्षमाः २३।
दीयतां भगवञ्छक्तिर्यदि भोस्त्वं वरप्रदः ।
अथ तद्वचनं श्रुत्वा शिवो वाक्यमभाषत २४।
शिव उवाच-
विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते ।
गुणत्रयाश्रया विद्या अविद्या च तदाश्रया २५।
गुणत्रयं च दग्ध्वैव तत्सारं धर्तुमर्हथ ।
यच्च किंचिद्भवेत्तत्र भवद्भिर्ध्रियतां हि तत् २६।
अथाहुस्तत्सुता वाक्यं न दाहो ज्वलनं विना ।
शिवः प्राह महेशस्य लोचने वह्निरस्ति वै २७।
गुणत्रयमिदं धेनुर्विद्या स्याद्गोमयं शुभम् ।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् २८।
वत्सास्तु स्मृतयो यस्यास्तत्संभूतं तु गोमयम् ।
आगाव इति मंत्रेण धेनुं तत्राभिमंत्रयेत् २९।
गावो गावो गाव इति प्राशयेत्तु तृणं जलम् ।
उपोष्य च चतुर्द्दश्यां शुक्ले कृष्णेऽथवा व्रती ३०।
परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
कृतस्नानो धौतवस्त्रो गोमयार्थं व्रजेत्तु गाम् ३१।
उत्थाप्य तां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ।
सौवर्णे राजते ताम्रे धारयेन्मृन्मये घटे ३२।
पौष्करे वा पलाशे वा पात्रे गोशृंग एव वा ।
आदधीत हि गोमूत्रं गंधद्वारेति गोमयम् ३३।
अभूमिपातं गृह्णीयात्पात्रे पूर्वोदितेऽधिके ।
गोमयं शोधयेद्विद्वाञ्छ्रीर्मे भजतु मंत्रतः ३४।
अलक्ष्मीर्मयीति मंत्रेण गोमयस्यापमार्जनम् ।
सं त्वा सिंचामि मंत्रेण गोमूत्रं गोमये क्षिपेत् ३५।
पंचानां त्वेति मंत्रेण पिंडांश्चैव चतुर्द्दश ।
कुर्यात्संशोष्य किरणैस्तरणेराहरेत्तु तान् ३६।
निदध्यादथ पूर्वोक्तपात्रे गोमयपिंडकान् ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमिंधयेत् ३७।
पिंडान्विनिक्षिपेत्तत्तदर्णदेवाय पिंडकान् ।
आघारावाज्यभागौ च प्रक्षिप्य द्वौ हुनेत्सुधीः ३८।
ततो निधनपतये त्रयोदशजयादयः ।
होतव्याः पंचब्रह्माणि नमो हिरण्यबाहवे ३९।
इति सर्वाहुतीर्हुत्वा चतुर्थ्यंतैस्तु मंत्रकैः ।
ततः शर्वाय रुद्राय यस्य वैकंकतीति च ४०।
एतैस्तु जुहुयाद्विद्वाननाज्ञातत्रयं तथा ।
व्याहृतीरथ हुत्वा तु ततः स्विष्टकृतं हुनेत् ४१।
इध्मशेषं तु निर्वर्त्य पूर्णपात्रोदकं ततः ।
पूर्णमासांतयजुषा जलेनान्येन बृंहयेत् ४२।
ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् ।
प्राच्यामिति दिशां लिंगैर्दिक्षु तोयं विनिक्षिपेत् ४३।
ब्रह्मणे दक्षिणां दत्वा शांते पुलकमाहरेत् ।
आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ४४।
जातवेदसमेने त्वां पुलाकं च्छादयाद्य मे ।
मंत्रेणानेन तं वह्निं पुलाके छादयेदथ ४५।
त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम् ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीत वाग्यतः ४६।
भस्माधिकमभीप्संस्तु ह्यधिकं गोमयं हरेत् ।
दिनत्रयेण यदि वा एकस्मिन्दिवसे बहु ४७।
तृतीये वा चतुर्थे वा प्रातःस्नात्वा सितांबरः ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ४८।
शुक्लदंतो भस्मदिग्धो मंत्रेणानेन मंत्रवित् ।
तद्वेति चोच्चारयित्वा भस्मसत्यं न संत्यजेत् ४९।
तत आवाहनमुखा उपचारास्तु षोडश ।
कर्तव्या हुतदानेन ततोऽग्निमुपसंहरेत् ५०।
अग्ने भस्मेति मंत्रेण गृह्णीयाद्भस्म चोद्भवम् ।
अग्निरस्मीति मंत्रेण प्रमृज्य च ततः परम् ५१।
संयोज्य गंगासलिलैः कपिलापयसाथवा ।
चंद्रं कुंकुमकाश्मीरमुशीरं चंदनं तथा ५२।
अगुरुद्वितयं चैव चूर्णयित्वा तु सूक्ष्मतः ।
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममंत्रतः ५३।
ततः पयः सेचने च गदितः कपिला मनुः ।
अमृतं देवि ते क्षीरं पवित्रमिह वर्द्धितम् ५४।
तवप्रसादान्मुच्यंते मनुजाः सर्वपाप्मनः ।
प्रणवेनावहेद्विद्वान्भस्मनो वटकानथ ५५।
अणोरणीयानिति हि मंत्रेण तु विचक्षणम् ।
शंभुरुवाच-
इत्थं तु भस्मसंपाद्य शुष्कमादाय मंत्रवित् ५६।
प्रणवेन विमृज्याथ सप्तप्रणवमंत्रितम् ।
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च ५७।
उरोदेशमघोरेण गुह्यं वामेन मंत्रयेत् ।
सद्योजातेन वै पादौ सर्वांगं प्रणवेन तु ५८।
तत उद्धूल्य सर्वांगमापादतलमस्तकम् ।
तत आचम्य वसनं धौतं श्वेतं प्रधारयेत् ५९।
पुनराचम्य कर्म स्वं कर्तुमर्हति सर्वतः ।
ततो भस्मसमादाय प्रमृज्य प्रणवेन तु ६०।
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुम् ।
स्मरन्नमः शिवायेति ललाटे तु त्रिपुंड्रकम् ६१।
नमः शिवाभ्यामित्युक्त्वा बाह्वोर्वापि त्रिपुंड्रकम् ।
अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः ६२।
भीमायेति ततः पृष्ठे शिरोधि पश्चिमे तथा ।
नीलकंठाय शिरसि क्षिपेत्सर्वात्मने नमः ६३।
प्रक्षाल्याथ ततो हस्तौ कर्मानुष्ठानमाचरेत् ।
शिव उवाच-
यूयमेवं प्रकारेण भस्म कृत्वा प्रघृष्य च ६४।
गुणान्धारयितुं शक्तास्ततः स्रक्ष्यथ वै प्रजाः ।
शंभुरुवाच-
इत्थं शिवोदिता देवा ब्रह्मविष्णुमहेश्वराः ६५।
तथा कृत्वा च विधिना हमहमिकया तदा ।
अन्योन्यबोधनाशक्ताः प्रणम्य शिवमूचिरे ६६।
कं गुणं धारयेत्को वा शिवः प्राह सुतानथ ।
कर्मशक्तिं तथा ज्ञानं मुखरेण्वैव नश्यति ६७।
अल्पायुर्दृश्यते ब्रह्मा मनुभिश्चास्य जीवितम् ।
योऽहं ब्रह्मांडमालाभिर्भूषितो ब्रह्मगोपनम् ६८।
रजोगुणमवष्टभ्य न च जानासि मां तदा ।
ब्रह्माधिकबलो विष्णुरायुषि ब्रह्मणोऽधिकः ६९।
ब्रह्मांडमालाभरणे महेशस्य ममैव तु ।
चतुर्निःश्वासमात्रेण विष्णोरायुरुदाहृतम् ७०।
ब्रह्मणोऽधिकसत्वत्वात्सत्वमालंबतां हरिः ।
जानाति सर्वकालं मां क्वचिदेव न विस्मरेत् ७१।
सात्विकैकैव पूजास्य राजसी तामसी न तु ।
शांतं शिवं सत्वगुणं रजवक्त्रावमानतः ७२।
नभोनीलं तथा चैव गुणं शंभुस्तथाभजत् ।
सत्वं रजस्तमश्चापि दधार च पुरा किल ७३।
अतोऽस्य विविधा पूजा शंकरस्य विधीयते ।
रजश्च तमसायुक्तं दारुणं परिकीर्तितम् ७४।
दारुणापि ततः पूजा शंकरे गतिदा मता ।
रजश्च तमसायुक्तमलं शास्त्रप्रवर्तकम् ७५।
विच्छिन्नापि ततः पूजा शंकरे फलदा मता ।
तमश्च सत्वसंयुक्तं मिश्रकं च प्रवर्तकम् ७६।
मिश्रपूजा विफलदा शंकरे लोकशंकरे ।
यादृशं तादृशं वापि नियमेनार्चनं विभोः ७७।
शंकरस्याशुफलदं यादृशस्यापि देहिनः ।
शंभुरुवाच-
एतत्संक्षेपतः प्रोक्तं विधानं भस्मनोऽनघ ७८।
वक्तृश्रोतृजनानां च समस्ताघविनाशनम् ७९।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्मोत्पत्तिविधानं नामाष्टोत्तरशततमोऽध्यायः १०८।