पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०८ पद्मपुराणम्
अध्यायः १०९
वेदव्यासः
अध्यायः ११० →

शंभुरुवाच-
अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीम्
श्रुत्वा यां प्राप धर्मात्मा शिवभक्तिमनुत्तमाम् १
इक्ष्वाकुर्नाम विप्रेंद्रो महाविद्यो महामतिः
बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः २
न यष्टा न च दाता च न देवानां च पूजकः
न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च ३
न पुराणेतिहासानां श्रुतीनामागमस्य वा
यत्नाद्भोक्ता तथा देहसंस्कारैकप्रवर्तकः ४
तादृशस्य द्विजस्याथ समालक्ष्यायुरत्यगात्
लक्षांतरे तथैकस्मिन्वत्सरे मासि पंचमे ५
तृतीय दिवसे रात्र्यां पुराणं श्रुतवानिदम्
स्वसंपादितवित्तस्य येन दानं न वै कृतम् ६
दिनेदिने भुज्यमानं निःसारं स्यात्क्रमेण हि
वर्षाण्येव च तावंति नरके पच्यते ध्रुवम् ७
कृमियोनिसहस्रं च अनुभूय ततः परम्
दरिद्रो व्याधितोऽबंधुर्दुष्टभार्यो बहुप्रजः ८
दिनेदिने भिक्षितेन याचितेन च जीवनम्
यन्न क्वापि च बीजानां मग्नानामथ मार्गणात् ९
लब्धेनजीवनं कर्म भृत्यानामथ जीवनम्
मध्ये श्रोत्रविहीनश्च नेत्रहीनः स्खलन्मलः १०
एवं पुराणं श्रुत्वा साविक्ष्वाकुर्भृशदुःखितः
मनसा चिंतयच्चेदं स्मारं स्मारं द्विजाधमः ११
रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता
तथा पुराणरहिता विद्या नो गतिदर्शनी १२
बहुशास्त्रं समभ्यस्य बहुवेदान्सविस्तरान्
पुंसोश्रुतपुराणस्य सम्यग्याति न दर्शनम् १३
शंभुरुवाच-
एवं चिंतयतस्तस्य अकालमरणं त्वभूत्
यमलोकं गतश्चाथ यमेन परिभाषितः १४
यम उवाच-
अनेकपापयुक्तोसि पुण्यं नैव महत्तव
न वेदाध्यापनात्प्राप्तं पापं च विदितं तव १५
कोटिवर्षाणि नरके तवस्थितिरिति द्विज
आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुम् १६
कुरु पुण्यं हितं दानं देवतापूजनं जपम्
सांगमध्यापनं विप्र भोजनं भस्मधारणम् १७
भज विश्वेश्वरं देवं देवदेवमुमापतिम्
तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि १८
यत्किंचित्प्रत्यहं पापिन्पुराणं शृणु सादरम्
ततस्तच्छ्रवणादेव नेक्षसे मम यातनाः १९
यमस्य वचनं श्रुत्वा ब्राह्मणः स्वां ययौ तनुम्
अथेशपूजनकृते यत्नमास्थाय स द्विजः २०
अगमन्मुनिवर्यं तु जाबालिशिवपूजकम्
तपः स्वाध्यायसंपन्नं श्रुतिस्मृतिविवेचकम् २१
पुराणतत्त्ववेत्तारं लक्षशिष्यसमावृतम्
जराशिथिलसर्वांगं वेदवेदांगपारगम् २२
द्रष्टुकामो ययौ शैलं मंदरं चारुकंदरम्
नानाविहंगसंपूर्णं नानापुष्पलतावृतम् २३
सर्वर्तुकुसुमोपेतं नानागंधोपशोभितम्
किन्नराणां च मिथुनैर्गीतपूर्णमहागुहम् २४
अनेकरूपलावण्य वनितोषितपादपम्
लंबमानविचित्राभिस्ताभिः शोभितपादपम् २५
रतिश्रमप्रसुप्तानां बोधनादितषट्पदम्
कूजंति च पिकाः कामं वियुक्तानां युजे किल २६
नानामुनिगणाकीर्णं प्रशांतमृगचारिणम्
अप्सरोगणसंकीर्णं गंधर्वगणसेवितम् २७
नानासिद्धमुखोद्भूतगीतपूर्णवनांतरम्
विचित्रफलसंपूर्णं नानादेवालयान्वितम् २८
प्रासादशतसंबाधं नानागृहसमन्वितम्
सिंहाननैर्गजमुखैरुलूकवदनैरथ २९
अमुखैर्विमुखैरुग्रैरर्द्धवक्त्रैर्मृगीमुखैः
रुरुजंतुकगोधाहि वानरर्क्षमुखैरपि ३०
व्याघ्रवृश्चिकभल्लूष्ट्रश्वानगर्दभतुंडकैः
समस्तजीववदनसदृशास्यैर्गणेश्वरैः
वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः ३१
शंखमुक्तादिजलजवदनैरुपशोभितम्
अधिकांगैरनंगैश्च जटिलैः शिखिमुंडितैः ३२
पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि
घंटास्यैः शूर्पवदनकर्णपादमुखैरपि ३३
घंटामुखैर्वेणुमुखैः किंकिणीवदनैरपि
यादृग्वस्तु जगत्यस्ति तादृशास्यैरयोमुखैः ३४
कैश्चिन्निभृतकंदर्परूपलावण्यकोमलैः
कोटिसूर्यप्रतीकाशैश्चंद्र कोटिसमप्रभैः ३५
नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः
द्विमुखैः पंचवक्त्रैश्च त्रिमुखैः षण्मुखैरपि ३६
एकानेकमुखैः शांतैः सर्वदा सुखिभिर्युतम्
नानाभोगसमृद्धैश्च रतिकामसमैरपि ३७
लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः
नानारूपधरैश्चान्यैः सेवितं मंदराचलम् ३८
धेनवो यत्र वेदाश्च मीमांसावत्स संयुताः
धर्मादयः सवर्ष्माणः पुराणानि च कर्मणा ३९
स्मृतीतिहासजातानि आगमाश्च शरीरिणः
स्थिताश्च मंदरे यत्र सशैलः पापनाशनः ४०
तस्य मध्ये महापुण्यं पुरं परमशोभितम्
वापीतडागोपवनप्रासादशतशोभितम् ४१
सप्तप्राकारपरिखं रत्नाट्टालकसंयुतम्
गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतम् ४२
यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितम्
तन्मध्ये नगरी पुण्या तन्मध्ये च सभा शुभा ४३
तस्यां भद्रासनं मध्ये वेदपादविचित्रितम्
सर्वोपनिषदाकॢप्तं पादपीठं सुशोभनम् ४४
पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः
तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः ४५
मंदस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः
दधान उरसामालां मणिरुद्राक्षकल्पिताम् ४६
बिभ्राण उपवीतं च कर्णिकारसमद्युतिः
सुरत्नकुंडलो देवः किरीटकनकांबरः ४७
नानाभूषणसंयुक्तो नानागंधविलेपनः
वामांकन्यस्तगिरिजो वीक्षमाणस्तदाननम् ४८
मुग्धां च सुमुखीं बालां नवयौवनशोभिताम्
भूषितां चारुसर्वांगीं बिभ्रतीं कनकांबुजम् ४९
आलिंग्य वामेनकरेण देवीं दक्षेण तस्या मुखमुन्नमय्य
स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वंस्तिलकं च देवः ५०
भक्तिर्वीजयते देवं प्रणव व्यजनेन च
पूजाकांतापि कुसुमैर्मालां देवाय बिभ्रती ५१
ज्ञप्तिर्विरक्तिर्वनिते बिभ्रत्यौ योगचामरे
समाधिः कार्यकर्तास्य धारणायोषिदस्य च ५२
यमाश्चनियमाश्चैव किंकरास्तस्य कीर्तिताः
प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक् ५३
ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा
ब्रह्मप्रभृतिकीटांताः पशवस्तत्पतिः शिवः ५४
पशूनां पालको धर्मः स्यादधर्मश्च तस्करः
मायापाशेन ते बद्धा मोचनी काशिका मृतिः ५५
नानाविधाश्च प्रमदा देवदेवमुमापतिम्
एतादृशमुमानाथं कोटिजंतुरनुस्मरेत् ५६
इष्टान्भोगानवाप्याथ शिवलोके महीयते
ब्रह्मविष्णुमहेंद्राद्यास्तत्पुरद्वारपालकाः ५७
लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्च्चनेक्षितेः
नियुक्ते देवदेवस्य देवाश्च सुरयोषितः ५८
दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः
एतादृशमहाशैलमिक्ष्वाकुः संददर्श ह ५९
मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा
गंतुकामो महाशैलं शक्तोस्यस्मिन्न वा मुने ६०
ममायुरल्पं कथितं यमेन ज्ञानिना पुरा ६१
नरकश्च बहुःप्रोक्तः कथं श्रेयो भविष्यति
जाबालिरुवाच-
मयापि सर्वमेतत्ते ज्ञातं दिव्येन चक्षुषा ६२
आयुर्दशदिनं ब्रह्मन्विद्वानपि न धर्मकृत्
न तपस्ते ह्यनभ्यासान्न च योगोऽल्पकालतः ६३
न दानं द्रविणाभावादसामर्थ्यात्तथार्हणा
न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः ६४
न चाध्यापनतीर्थादि सेवाकालविरोधतः
तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते ६५
गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने
इक्ष्वाकुरुवाच-
यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज ६६
तेन पापपरीहारो भविष्यति सुनिश्चितम्
तं ब्रूहि येन धर्मेण मम पापं प्रणश्यति ६७
केन वा पुण्ययोगेन स्वर्गतिश्च भविष्यति
शरणं भव विप्रर्षे नरकादतिबिभ्यतः ६८
सर्वधर्मफलं प्राहुः शरणागतपालनम्
जाबालिरुवाच-
सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः ६९
अमृतेत्वनृते शक्यं वक्तुं स्वप्नांतरेष्वपि
रहस्यमेकं किंचित्तु यस्य कस्यापि नोच्यते ७०
इक्ष्वाकुरुवाच-
शरणं पालय मुने कालो मे निर्गमिष्यति
जाबालिरुवाच-
मम प्राणाधिकं विप्र रहस्यं श्रुतिचोदितम् ७१
शिवलिंगार्चनं नाम ब्रह्मादिभिरनुष्ठितम्
समस्तपापशमनं सर्वोपद्रवनाशनम् ७२
भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर
नातिक्रामेद्यदि मुने शिवलिंगार्चनं शुभम् ७३
यः शंभुपूजां विच्छिंद्यात्तेन च्छिन्नं हि मे शिरः
वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणम् ७४
वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः
वरं वह्निप्रपतनं वरं चाधःशिरः कृतम् ७५
वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः
अपूजयित्वा चेशानं यो हि भुंक्ते नराधमः ७६
पापानामन्नरूपाणां तस्य भोजनमुच्यते
अनुच्चार्य पदं शंभोर्भुङ्क्ते यदि च खादति ७७
शिवेति मंगलं नाम यस्य वाचि प्रवर्तते
भस्मीभवंति तस्याशु महापातककोटयः ७८
शिवं प्रदक्षिणीकृत्य यो नमस्यति मानवः
भूमेः प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयात् ७९
प्रदक्षिणत्रयं कृत्वा नमस्कारं च पंचधा
पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येत पातकैः ८०
सर्ववाद्यानि यः कुर्यात्कारयेद्वा शिवालये
बलेन महता युक्तो वेदसेव्यत्र जायते ८१
श्रावयेद्यः पुराणानि देवदेवं त्रिलोचनम्
सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती ८२
तं नित्यमादरेणेशो वक्ति वाक्यं प्रियं सदा
एतत्संक्षेपतः प्रोक्तमीशपूजनमुत्तमम् ८३
अल्पायुश्च भवान्विप्र शिवपूजनमाचर
त्रिकालं वा द्विकालं वा एककालमथापि वा ८४
यामं यामार्धमथवा शिवपूजनमाचर
वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृताश्रयः ८५
वानप्रस्थप्रसूनैश्च प्रातःपूजय शंकरम्
श्रीफलैः शतपत्रैश्च पद्मसौगंधिकैरपि ८६
नीपैर्जपाभिः पुन्नागैः करवीरैश्च पाटलैः
तुलस्याच रविदलैरपराजितया तथा ८७
अपामार्गदलै रुद्र जटादमनकेन च
सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः ८८
द्रोणैः शिरीषैः शक्तैश्च दूर्वया कोरकैरपि
नंद्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः ८९
अन्यैरपि यथाशक्ति प्रातः संपूजयेच्छिवम्
कर्णिकारैश्च सौवर्णर्दूवर्ययापि शिवार्चनम् ९०
मुकुलैर्नार्चयेद्देवं चंपकैर्जलजं विना
जलजानां च सर्वेषां पत्राणामक्षतस्य च ९१
कुशपुष्पस्य रजतसुवर्णकृतयोरपि
अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप ९२
न तत्पर्युषितं प्रोक्तमपूपादि गमिष्यति
उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः ९३
जले तत्प्रोक्षितं मूलफलशाकादिकं नृप
न च पर्युषितं प्रोक्तं गंगातोयं च सागरम् ९४
महानदीजलं सर्वं केदारजलमेव च
ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव ९५
तडागवापीसरसां कूपेनापां च यद्भवेत्
तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेत् ९६
न रात्रौ जलमाहार्यं दिवा संपादयेज्जलम्
ससैकतं तथा धार्यं न च पर्युषितं हि तत् ९७
एवं विदित्वा पूजां त्वं शिवलिंगे समाचर
शंभुरुवाच-
एवमुक्तोथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः ९८
शिवपूजापरो भूत्वा दिनाष्टकमतिष्ठत
नवमेऽथ दिने प्राप्ते प्रातःकाले कृतार्चनः ९९
मरणावसरे प्राप्ते शिवपूजां विधाय सः
स्वान्प्राणानुपहाराय तत्याजैव महेशितुः १००
मृतं तमथ विज्ञाय यमदूताः समागताः
यमलोकप्रापका ये यतमास्थाय तस्थिरे १०१
शैवाश्चापि समायाता दूता वह्निमुखादयः
तेषामन्योन्यवादोभून्मामको मामकस्त्विति १०२
अथ यामः पाशपाणिः शिवदूतमथार्दयत्
अथ वह्निमुखः क्रुद्धो यमदूतशतं ततः १०३
महाकायस्तथा भूत्वा गृहीत्वा च करेण तत्
शिरांसि च तथैकेनापीड्य चिच्छेद शष्पवत् १०४
मारयित्वा ततो दूतानादायेक्ष्वाकुमभ्यगात्
निवेदयामास च तं वीरभद्राय धीमते १०५
स चापि शंकरायाथ तं प्राह च महेश्वरः
त्वयाष्टदिनपूजैव कृता कृष्णा दिने दिने १०६
त्वमनिंदः पुरा मां च लिंगं शिश्नाग्रमित्युत
तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि १०७
शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः
पूर्वं मन्नामवक्तृत्वाद्वक्ता चापि भविष्यसि १०८
अथेशवचनात्सोपि तथाभूतोभवत्क्षणात्
शंभुरुवाच-
य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमम् १०९
विमुक्तपापबंधश्च शिवभक्तो भविष्यति
स याति च शिवस्थाने वक्ता चापि तथा भवेत् ११०
यश्च वक्ति कथामेनां हरेण सदृशो भवेत्
उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः १११
स्वर्गं स गतवान्राजा कृतपापोथ भार्यया ११२
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्येन
नवोत्तरशततमोऽध्यायः १०९