सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८०

विकिस्रोतः तः
← अध्यायः ०७९ पद्मपुराणम्
अध्यायः ०८०
वेदव्यासः
अध्यायः ०८१ →

पार्वत्युवाच-
घोरे कलियुगे प्राप्ते विषयग्राहसंकुले ।
पुत्रदारधनाद्यार्तैस्तत्कथं धार्यते विभो १।
तदुपायं महादेव कथयस्व कृपानिधे ।
ईश्वर उवाच-
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् २।
हरेराम हरेकृष्ण कृष्णकृष्णेति मंगलम् ।
एवं वदंति ये नित्यं न हि तान्बाधते कलि ३।
अंतरांतरकर्माणि कृत्वा नामानि च स्मरेत् ।
कृष्णकृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः ४।
मन्नाम चैव त्वन्नाम योजयित्वा व्यतिक्रमात् ।
सोऽपि पापात्प्रमुच्येत तूलराशेरिवानलः ५।
जयाद्येतत्त्वया वाप्यथवा श्रीशब्दपूर्वकम् ।
तच्च मे मंगलं नाम जपन्पापात्प्रमुच्यते ६।
दिवानिशि च संध्यायां सर्वकालेषु संस्मरेत् ।
अहर्निशं स्मरन्रामं कृष्णं पश्यति चक्षुषा ७।
अशुचिर्वा शुचिर्वापि सर्वकालेषु सर्वदा ।
नामसंस्मरणादेव संसारान्मुच्यते क्षणात् ८।
नानापराधयुक्तस्य नामापि च हरत्यघम् ।
यज्ञव्रततपोदानं सांगं नैव कलौ युगे ९।
गंगास्नानं हरेर्नाम निरपायमिदं द्वयम् १०।
हत्यायुतं पापसहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च ।
स्तेयान्यथान्यानि हरेः प्रियेण गोविंदनाम्ना न च संति भद्रे ११।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुंडीकाक्षं स बाह्याभ्यंतरः शुचिः १२।
नामसंस्मरणादेव तथा तस्यार्थचिंतनात् ।
सौवर्णीं राजतीं वापि तथा पैष्टीं स्रगाकृतिम् १३।
पादयोश्चिह्नितां कृत्वा पूजां चैव समारभेत् ।
दक्षिणस्य पदोंगुष्ठमूले चक्रं बिभर्ति यः १४।
तत्र नम्रजनस्यापि संसारच्छेदनाय च ।
मध्यमांगुलिमूले तु धत्ते कमलमच्युतः १५।
ध्यातृचित्तद्विरेफाणां लोभनायातिशोभनम् ।
पद्मस्याधोध्वजं धत्ते सर्वानर्थजयध्वजम् १६।
कनिष्ठामूलतो वज्रं भक्तपापौघभेदनम् ।
पार्श्वमध्येंऽकुशं भक्तचित्ते रभसकारणम् १७।
भोगसंपन्मयं धत्ते यवमंगुष्ठपर्वणि ।
मूले गदां च पापाद्रिभेदनीं सर्वदेहिनाम् १८।
सर्वविद्याप्रकाशाय धत्ते स भगवानजः ।
पद्मादीन्यपि चिह्नानि तत्र दक्षेण यत्पुनः १९।
वामपादे वसेत्सोऽयं बिभर्त्ति करुणानिधिः ।
तस्माद्गोविंदमाहात्म्यमानंदरससुंदरम् २०।
शृणुयात्कीर्त्तयेन्नित्यं स निर्मुक्तो न संशयः ।
मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् २१।
ज्येष्ठे तु स्नापनं कुर्याच्छ्रीविष्णोर्यत्नतः शुचिः ।
दैनंदिनं तु दुरितं पक्षमासर्त्तुवर्षजम् २२।
ब्रह्महत्यासहस्राणि ज्ञाता ज्ञातकृतानि च ।
स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च २३।
कोटिकोटिसहस्राणि ह्युपपापानि यानि च ।
सर्वाण्यथ प्रणश्यंति पौर्णमास्यां तु वासरे २४।
आसिंचेदच्युतं मूर्ध्नि तदैतत्कलशोदकम् ।
पुरुषसूक्तेन मंत्रेण पावमानीभिरेव च २५।
नालिकेरोदकेनाथ तथा तालफलांबुना ।
रत्नोदकेन गंधेन तथा पुष्पोदकेन च २६।
पंचोपचारैराराध्य यथाविभवविस्तरैः ।
घं घंटायै नम इति घंटावाद्यं प्रदापयेत् २७।
पतितस्य महाध्वानन्यस्तपातकसंचये ।
पाहि मां पापिनं घोरसंसारार्णवपातिनम् २८।
य एवं कुरुते विद्वान्ब्राह्मणः श्रोत्रियः शुचिः ।
सर्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति २९।
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् ।
आषाढे च रथं कुर्याच्छ्रावणे श्रवणाविधिम् ३०।
भाद्रे च जन्मदिवस उपवासपरो भवेत् ।
प्रसुप्तस्य परीवर्तमाश्विने मासि कारयेत् ३१।
उत्थानं श्रीहरेः कुर्यादन्यथा विष्णुद्रोहकृत् ।
शुभे चैवाश्विने मासि महामायां च पूजयेत् ३२।
सौवर्णीं राजतीं वापि विष्णुरूपां बलिं विना ।
हिंसाद्वेषौ न कर्तव्यौ धर्मात्मा विष्णुपूजकः ३३।
कार्तिके पुष्यमासे च कामतः पुण्यमाचरेत् ।
दामोदराय दीपं च प्रांशुस्थाने प्रदापयेत् ३४।
सप्तवर्तिप्रमाणेन दीपः स्याच्चतुरंगुलः ।
पक्षांते च प्रकर्तव्या दीपमालावलि शुभा ३५।
मार्गशीर्षे सिते पक्षे षष्ठ्यां च सितवस्त्रकैः ।
पूजयेज्जगदीशं च ब्रह्माणं च विशेषतः ३६।
पौषे पुष्पाभिषेकं च वर्जयेच्चंदनं श्लथम् ।
संक्रांत्यां माघमासे च साधिवासित तंडुलात् ३७।
नैवेद्यं विष्णवे दद्यादिमं मंत्रमुदीरयेत् ।
ब्राह्मणान्भोजयेद्भक्त्या देवदेवपुरः स्थितान् ३८।
अभ्यर्च्य भगवद्भक्तान्द्विजांश्च भगवद्धिया ।
एकस्मिन्भोजिते भक्ते कोटिर्भवति भोजिता ३९।
विप्रभोजनमात्रेण व्यंगं सांगं ध्रुवं भवेत् ।
पंचम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ४०।
पूजयित्वा विधानेन चूतपल्लवसंयुतैः ।
फलचूर्णैश्च विविधैर्वासितैः पटसाधितैः ४१।
काननं रमणीयं च प्रदीप्तं दीपदीपितम् ।
द्राक्षेक्षु रंभा जंबीर नागरंगं च पूगकम् ४२।
नालिकेरं च धात्रीं च पनसं च हरीतकीम् ।
अन्यैश्च वृक्षखंडैश्च सर्वर्तुकुसुमान्वितैः ४३।
अन्यैश्च विविधैश्चैव फलपुष्पसमन्वितैः ।
वितानैः कुसुमोद्दामैर्वारिपूर्णघटैस्तथा ४४।
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः ।
जयकृष्णेति संस्मृत्य प्रदक्षिणपुरस्सरम् ४५।
विशेषतः कलियुगे दोलोत्सवो विधीयते ।
फाल्गुने च चतुर्दश्यामष्टमे यामसंज्ञके ४६।
अथवा पौर्णमास्यां तु प्रतिपत्संधिसंज्ञके ।
पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ४७।
सितरक्तैर्गौरपीतैः कर्पूरादि विमिश्रितैः ।
हरिद्रारागयोगाच्च रंगरूपैर्मनोहरैः ४८।
अन्यैर्वा रंगरूपैश्च प्रीणयेत्परमेश्वरम् ।
एकादश्यां समारभ्य पंचम्यां तं समापयेत् ४९।
पंचाहानि त्र्यहानि वा दोलोत्सवो विधीयते ।
दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः ५०।
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ।
निक्षिप्य जलपात्रे च मासि माधवसंज्ञके ५१।
सौवर्णपात्रे रौप्ये वा ताम्रे वाप्यथ मृण्मये ।
तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ५२।
प्रतिमां वा महाभागे तस्य पुण्यं न गण्यते ।
दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ५३।
वैशाखे श्रावणे भाद्रे कर्तव्यं वा तदर्पणम् ।
पूर्वेपूर्वे तु वातस्थे दमनादिषु कर्मसु ५४।
प्रकर्तव्यं विधानेन अन्यथा निष्फलं भवेत् ।
वैशाखे च तृतीयायां जलमध्ये विशेषतः ५५।
अथवा मंडले कुर्यान्मंडपे वा बृहद्वने ।
सुगंधचंदनेनांगं सुपुष्टं च दिनेदिने ५६।
यथाप्रयत्नतः कुर्यात्कृशांगस्येव पुष्टिदम् ।
चंदनागुरु ह्रीबेर कृष्णकुंकुम रोचना ५७।
जटामांसी मुरा चैव विष्णोर्गंधाष्टकं विदुः ।
तैस्तैर्गंधयुतैश्चापि विष्णोरंगानि लेपयेत् ५८।
धृष्टं च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।
अथवा केसरैर्योज्यं हरिचंदनमुच्यते ५९।
यात्राकाले च ये कृष्णं भक्त्या पश्यंति मानवाः ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ६०।
सुगंधमिश्रितैस्तोयैर्देवदेवं गलंति ये ।
अथवा पुष्पमध्ये तु स्थापयेज्जगदीश्वरम् ६१।
वृंदावनं तत्र गत्वा उपस्कृत्य फलानि च ।
विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ६२।
नारिकेलफलं बीजकोशं चोद्धृत्य दापयेत् ।
घोंटाफलं च पनसं कोशमुद्धृत्य दापयेत् ६३।
दध्ना विमिश्रितं चान्नं घृतेनाप्लुत्य दापयेत् ।
पाचितं पिष्टकं पूपमष्टादशघृतेन च ६४।
तैलैश्च तिलसंमिश्रैः फलं पक्वं प्रदापयेत् ।
यद्यदेवात्मनः प्रीतं तत्तदीशाय दापयेत् ६५।
दत्वा नैवेद्यवस्त्रादि नाददीत कथंचन ।
त्यक्तं च विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ६६।
इति ते कथितं किंचित्समासेन महेश्वरि ।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ६७।
श्रीकृष्णरूपगुणवर्णन शास्त्रवर्गबोधाधिकार इह चेदलमन्यपाठैः ।
तत्प्रेमभावरसभक्तिविलास नामहारेषु चेत्खलु मनः किमु कामिनीभिः ६८।
तच्चेतसा प्रभजतां व्रजबालकेंद्रं वृंदावनक्षितितलं यमुनाजलं च ।
तल्लोकनाथपदपंकजधूलिमिश्रलिप्तं वपुः किल वृथागरुचंदनाद्यैः ६९।
इति श्रीपद्मपुराणे पातालखंडे उमामहेश्वरसंवादे वृंदावनमाहात्म्ये अशीतितमोऽध्यायः ८०।