पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०६१

विकिस्रोतः तः
← अध्यायः ०६० पद्मपुराणम्
अध्यायः ०६१
वेदव्यासः
अध्यायः ०६२ →

शत्रुघ्न उवाच।
जानासि किं महामंत्रिन्को बालो हयमाहरत् ।
येन मे क्षपितं सर्वं बलं वारिधिसन्निभम् १।
सुमतिरुवाच।
स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान् ।
क्षत्त्रियाणामत्र वासो नास्त्येव परतापन २।
इंद्रो भविष्यति परममर्षी हयमाहरत् ।
पुरारिर्वान्यथा वाहं तव कः समुपाहरेत् ३।
कालजिद्येन नाशं वै प्राप्तः परमदारुणः ।
तं प्रति श्रीमहाराज गंता कः पुष्कलान्यतः ४।
त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः ।
तत्र गच्छस्व सैन्येन महता शत्रुकृंतन ५।
गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने ।
दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ६।
इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत् ।
सैन्येन महता यात यूयमायामि पृष्ठतः ७।
निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली ।
धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम् ८।
आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम् ।
न किंचिन्मनसा बिभ्येलवेन बलशालिना ९।
लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान् ।
धनुर्विस्फारयन्रोषाच्छरान्मुंचन्सहस्रशः १०।
ते शरैः पीड्यमानास्तु महारोषेण पूरिताः ।
वीरं बालं मन्यमानाः संमुखं प्राद्रवंस्तदा ११।
वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान् ।
लवो जवेन संधाय शरान्रोषप्रपूरितः १२।
भ्रमिराद्या सहस्रेण द्वितीयायुतसंख्यया ।
तृतीयायुतयुग्मेन तुरीयायुतपंचभिः १३।
पंचमी लक्षयोधानां षष्ठी योधायुताधिकैः ।
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः १४।
मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा ।
दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् १५।
काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुंतलैः ।
पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना १६।
सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः ।
मेघवृंदविनिर्मुक्तः शशीव शरदागमे १७।
प्राहरत्सर्वथा योधान्भिंदन्गजकरान्बहून् ।
छिंदञ्छिरांसि वीराणां चक्रभ्रूणि महांति च १८।
अनेके पतिता वीरा लवबाणप्रपीडिताः ।
मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः १९।
पलायनपरं सैन्यं लवबाणप्रपीडितम् ।
वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसंज्ञकः २०।
तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः ।
रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली २१।
स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित् ।
तिष्ठ दत्ते मया संख्ये रथे सुहयशोभिते २२।
पदातिना त्वया युद्धं करोमि किमथाहवे ।
तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह ।
एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् २३।
त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे ।
तदा मे पापमेव स्याज्जयः संदिग्ध एव हि २४।
न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः ।
वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः २५।
इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान् ।
पादचारी भवत्येव पश्चाद्युद्धं करिष्यति २६।
पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम् ।
विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत् २७।
तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः ।
चापं चिच्छेद पाणिस्थं शरसंधानमाचरन् २८।
स यावत्स गुणं चापं कुरुते तावदुद्धतः ।
रथभंगं चकारास्य समरे प्रहसन्बली २९।
भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना ।
महावीरं मन्यमानः पदातिः प्राद्रवद्रणे ३०।
उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ ।
उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ ३१।
परस्परं बाणघातविशीर्णावपुलक्षितौ ।
जयाकांक्षां प्रकुर्वंतौ परस्परवधैषिणौ ३२।
जयंतकार्तिकेयौ वा पुरारिः पुरभिद्यथा ।
एवं परस्परं युद्धं प्रकुर्वाणौ रणांगणे ३३।
पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे ।
त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः ३४।
शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः ।
मा पलायस्व समरे प्राणान्रक्षस्व संयतः ३५।
एवमुक्त्वा लवं वीरं चकार शरपंजरे ।
पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः ३६।
शरपंजरमध्यस्थो लवः पुष्कलमब्रवीत् ।
महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् ३७।
इत्युक्त्वा बाणसंघातं प्रच्छिद्य वचनं पुनः ।
जगाद पुष्कलं वीरः शरसंधानकोविदः ३८।
पालयात्मानमाजिस्थं मच्छराघातपीडितः ।
पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः ३९।
एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः ।
रणे संयोधयामास लवं वीरं महाबलम् ४०।
लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम् ।
जग्राह लवतः कोशादाशीविषमिव क्रुधा ४१।
जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च ।
हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः ४२।
छिन्ने भारतिना संख्ये शरेण प्राणहारिणा ।
अत्यंतं कुपितो घोरं शरमन्यं समाददे ४३।
आकर्णाकृष्टचापेन स मुक्तो निशितः शरः ।
बिभेद हृदयं तस्य पुष्कलस्य महारणे ४४।
भिन्नो वक्षसि वीरेण सायकेनाशुगामिना ।
पपात धरणीपृष्ठे महाशूरशिरोमणिः ४५।
पतितं तं समालोक्य पुष्कलं पवनात्मजः ।
गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम् ४६।
मूर्च्छितं तं समालोक्य शोकविह्वलमानसः ।
हनूमंतं लवं हंतुं निदिदेश क्रुधान्वितः ४७।
हनूमान्क्रोधसंप्लुष्टो लवं संख्ये महाबलम् ।
विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम् ४८।
वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली ।
तमापतंतं तरसा चिच्छेद शतधा लवः ४९।
छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः ।
ताडयामास हृदये मस्तके च महाबलः ५०।
यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः ।
तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः ५१।
तदा शिलाः समुत्पाट्य गंडशैलोपमाः कपिः ।
पातयामास शिरसि क्षिप्रवेगेन मारुतिः ५२।
स आहतः शिलासंघैः संख्ये कोदंडमुन्नयन् ।
बाणैस्ताश्चूर्णयामास यंत्रिकाभिर्यथा कणाः ५३।
तदात्यंतं प्रकुपितो मारुतिः पुच्छवेष्टनम् ।
चकार समरोपांते लवस्य बलिनः कृती ५४।
स्वं पुच्छेन समाविद्धं वीक्ष्य स्वांबां हृदि स्मरन् ।
मुष्टिना ताडयामास लांगूलं मारुतेर्बली ५५।
तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत् ।
स मुक्तः पुच्छतो युद्धे शरान्मुंचन्नभूद्बली ५६।
दुर्वारशरघातेन संपीडिततनुः कपिः ।
बाणवर्षं मन्यमानो दुःसहं समरे बहु ५७।
किंकर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते ।
तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम् ५८।
ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि ।
दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना ५९।
शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात् ।
अहं तावज्जयाकांक्षी शये कपटमूर्च्छया ६०।
इत्येवं मानसे कृत्वा पपात रणमंडले ।
पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः ६१।
तं मूर्च्छितं समाज्ञाय हनूमंतं महाबलम् ।
जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः ६२।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे।
हनुमत्पतनंनामैकषष्टितमोऽध्यायः ६१।