पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५९
← अध्यायः ०५८ | पद्मपुराणम् अध्यायः ०५९ वेदव्यासः |
अध्यायः ०६० → |
शेष उवाच।
अथ नावा समुत्तीर्य जाह्नवीं लक्ष्मणस्तदा ।
जानकीं परतस्तीरे हस्ते धृत्वा वनं ययौ १।
सा चलंती पथि तदा शुष्यद्वदनलक्षिता ।
कंटकक्षतसत्पादा स्खलंती च पदे पदे २।
लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि ।
प्रवेशयामास तदा राघवाज्ञाविधायकः ३।
यत्र वृक्षा महाघोरा बर्बूलाः खदिरा घनाः ।
श्लेष्मातकाश्चिंचिणीकाः शुष्का दावेन वह्निना ४।
कोटरस्था महासर्पाः फूत्कुर्वंति सुकोपिताः ।
घूका घूत्कुर्वते यत्र लोकचित्तभयंकराः ५।
व्याघ्राः सिंहाः सृगालाश्च द्वीपिनोऽतिभयंकराः ।
दृश्यंते यत्र सरला मनुष्यादाः सुकोपनाः ६।
महिषाः सूकरा दुष्टा दंष्ट्रा द्वयविलक्षिताः ।
कुर्वंति प्राणिनां तापं मानसस्य मदोद्धुराः ७।
ईदृग्वनं प्रपश्यंती भयेनोपगतज्वरा ।
कंटकैर्दष्टचरणा लक्ष्मणं वाक्यमब्रवीत् ८।
जानक्युवाच।
वीरर्षिमुनिसंसेव्या नाश्रमान्नेत्रसौख्यदान् ।
नाहं पश्यामि नो तेषां पत्नीश्च सुतपोधनाः ९।
पश्यामि केवलं घोरान्पक्षिणः शुष्कवृक्षकान् ।
दावानलेन तत्सर्वं दह्यमानमिदं वनम् १०।
त्वां च पश्यामि दुःखार्तमश्रुपूर्णाकुलेक्षणम् ।
शकुनेतरसाहस्रं भवेन्मम पदे पदे ११।
तन्मे कथय वीराग्र्य कथं मुक्ता महात्मना ।
रामेण दुष्टहृदया क्षिप्रं कथय मे हि तत् १२।
इति वाक्यं समाकर्ण्य लक्ष्मणः शोककर्शितः ।
संरुद्धबाष्पवदनो न किंचित्प्रोक्तवांस्तदा १३।
तदेव विपिनं घोरं गच्छंती लक्ष्मणान्विता ।
पुनरप्याह तं वीरं दुःखार्ता पश्यती मुखम् १४।
तदापि स न तां वक्ति किमपि प्रेक्षुलोलुपः ।
तदा सात्यंतनिर्बंधं चकार परिपृच्छती १५।
आग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा ।
रुद्धकंठो मुहुः शोचन्नवदत्त्यागसंभवम् १६।
तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम ।
सुलताकृत्तमूलेव बभूवाकल्पवर्जिता १७।
तदैव पृथिवी तां न जग्राह तनयामिमाम् ।
रामो विपापिनीं सीतां न जह्यादिति शंकिनी १८।
पतितां तां तु वैदेहीं दृष्ट्वा सौमित्रिरुत्सुकः ।
पल्लवाग्र्यसमीरेण संज्ञितां तु चकार सः १९।
संज्ञां प्राप्ता ह्युवाचेदं मा हास्यं कुरु देवर ।
कथं मां पापरहितां त्यजते स रघूद्वहः २०।
एवं बहुविलप्याथ लक्ष्मणं दुःखसंयुतम् ।
संवीक्ष्यमू र्च्छिता भूमौ पपात परिदुःखिता २१।
मुहूर्तेनापि संज्ञां सा प्राप्य दुःखपरिप्लुता ।
जगाद रामचरणौ स्मंरती शोकविक्षता २२।
रघुनाथो महाबुद्धिस्त्यजते मां कथं महान् ।
यो मदर्थे पयोराशिं बद्धवान्वानरैर्युतः २३।
स कथं मां महावीरो निष्पापां रजकोक्तितः ।
त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलितम् २४।
एवं वदन्ती पुनरपि मूर्च्छां प्राप्ता विदेहजा ।
मूर्च्छितां तां समीक्ष्याथ रुरोद विकृतस्वरः २५।
पुनः संज्ञामवाप्यैवं सौमित्रिं निजगाद सा ।
दुःखातुरं वीक्षमाणा रुद्धकंठं सुदुःखिता २६।
सौमित्रे गच्छ रामं त्वं धर्ममूर्तिं यशोनिधिम् ।
मद्वाक्यमेवैतद्ब्रूयाः समक्षं तपसां निधेः २७।
मां तत्याज भवान्यद्वै जानन्नपि विपापिनीम् ।
कुलस्य सदृशं किं वा शास्त्रज्ञानस्य तत्फलम् २८।
नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि माम् ।
भवांस्तत्याज तत्सर्वं मम दैवं तु कारणम् २९।
कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम ।
अहं तावद्वने त्वां हि स्मरंती प्राणधारिका ३०।
मनसा कर्मणा वाचा भवानेव ममोत्तमः ।
अन्ये तुच्छीकृताः सर्वे मनसा रघुवंशज ३१।
भवेभवे भवानेव पतिर्भूयान्महीश्वर ।
त्वत्पदस्मरणानेक हतपापा सतीश्वरी ३२।
श्वश्रूजनं ब्रूहि सर्वं मत्संदेशं रघूत्तम ।
त्यक्ता वने महाघोरे रामेण निरघा सती ३३।
स्मरामि चरणौ युष्मद्वने मृगगणैर्युते ।
अंतर्वत्नी वने त्यक्ता रामेण सुमहात्मना ३४।
सौमित्रे शृणु मद्वाक्यं भद्रं भूयाद्रघूत्तमे ।
इदानीं संत्यजे प्राणान्रामवीर्यं सुरक्षती ३५।
त्वं रामवचनं तथ्यं यत्करोषि शुभं तव ।
परतंत्त्रेण तत्कार्यं रामपादाब्जसेविना ३६।
गच्छ त्वं राम सविधे शिवाः पंथान एव ते ।
ममोपरि कृपा कार्या स्मर्तव्याहं कदा कदा ३७।
इत्युक्त्वा मूर्च्छिता भूमौ पपात पुरतस्तदा ।
लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्च्छितजानकीम् ३८।
वीजयामास वासोग्रैः संज्ञां प्राप्तां प्रकृत्य च ।
सौमित्रिः सांत्वयामास वचनैर्मधुरैर्मुहुः ३९।
लक्ष्मण उवाच।
एष गच्छामि रामं वै गत्वा शंसामि सर्वशः ।
समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान् ४०।
इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पपूरितः ।
मुंचन्नश्रुकलां दुःखाद्ययौ रामं महीपतिम् ४१।
जानकी देवरं यांतं वीक्ष्य विस्मितलोचना ।
हसत्ययं महाभागो लक्ष्मणो देवरो मम ४२।
कथं मां प्राणतः प्रेष्ठां विपापां राघवोऽत्यजत् ।
इति संचिंतयंती सा तमैक्षदनिमेषणा ४३।
जाह्नवीं सर्वथोत्तीर्णां ज्ञात्वा सत्यं स्वहापनम् ।
पतिता प्राणसंदेहं प्राप्ता मूर्च्छां गता तदा ४४।
तदा हंसाः स्वपक्षाभ्यां जलमानीय सर्वतः ।
सिषिचुर्मधुरो वायुर्ववौ पुष्पसुगंधिमान् ४५।
करिणः पुष्करैः स्वीयैर्जलपूर्णैः समंततः ।
व्याप्तं शरीरं रजसा क्षालयंत इवागताः ४६।
मृगास्तदंतिकं प्राप्य संतस्थुर्विस्मितेक्षणाः ।
नगाः पुष्पयुता आसंस्तत्कालं मधुना विना ४७।
एतस्मिन्समये वृत्ते संज्ञां प्राप्य तदा सती ।
विललाप सुदुःखार्ता रामरामेति जल्पती ४८।
हा नाथ दीनबंधो हे करुणामयसंनिधे ।
अपराधादृते मां त्वं कथं त्यजसि वै वने ४९।
इत्येवमादिभाषंती विलपंती मुहुर्मुहुः ।
इतस्ततः प्रपश्यंती संमूर्च्छंती पुनःपुनः ५०।
तदा स्वशिष्यैर्भगवान्वाल्मीकिः संगतो वनम् ।
शुश्राव रुदितं तत्र करुणास्वरभाषितम् ५१।
शिष्यान्प्रति जगादाथ पश्यंतु वनमध्यतः ।
को रोदिति महाघोरे विपिने दुःखितस्वरः ५२।
ते प्रयुक्ताश्च मुनिना संजग्मुर्यत्र जानकी ।
रामरामेति भाषंती बाष्पपूरपरिप्लुता ५३।
तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकिं प्रत्यगुर्मुनिम् ।
श्रुत्वा तदीरितं वाक्यं जगामासौ ततो मुनिः ५४।
दृष्ट्वा तं तपसां राशिं जानकी पतिदेवता ।
नमोस्तु मुनये वेदमूर्तये व्रतवार्धये ५५।
इत्युक्तवंतीं तां सीतामाशीर्भिरभ्यनंदयत् ।
भर्त्रा सह चिरंजीव पुत्रौ प्राप्नुहि शोभनौ ५६।
कासि त्वं किं वने घोरे संगतासि किमीदृशी ।
सर्वं मे शंस जानीयां तव दुःखस्य कारणम् ५७।
सा तदा प्रत्युवाचेमं रामस्य महिला मुनिम् ।
निःश्वसंती करुणया गिरासंजातवेपथुः ५८।
शृणु मे वाक्यमर्थोक्तं सर्वदुःखस्य कारणम् ।
जानीहि मां भूमिपते रघुनाथस्य सेवकीम् ५९।
अपराधं विना त्यक्ता न जाने तत्र कारणम् ।
लक्ष्मणो मां विमुच्यात्र गतवान्राघवाज्ञया ६०।
इत्युक्त्वाश्रुकलापूर्णं बिभ्रतीं मुखपंकजम् ।
वाल्मीकिः सांत्वयन्प्राह जानकीं कमलेक्षणाम् ६१।
वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिम् ।
दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमम् ६२।
भिन्नस्थाने पितुर्गेहं जानीहि पतिदेवते ।
ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः ६३।
एवं वचः समाकर्ण्य जानकी पतिदेवता ।
दुःखपूर्णाश्रुवदना किंचित्सुखमवाप सा ६४।
शेष उवाच।
वाल्मीकिः सांत्वयित्वैनां दुःखपूराकुलेक्षणाम् ।
निनाय स्वाश्रमं पुण्यं तापसीवृन्दपूरितम् ६५।
सा गच्छंती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः ।
रराजेंदोः पृष्ठतो वै तारकेव मनोहरा ६६।
वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम् ।
तापसीः प्रतिसंचख्यौ जानकीं स्वाश्रमं गताम् ६७।
वैदेही तापसीः सर्वा नमश्चक्रे महामनाः ।
परस्परं प्रहृषिताः परिरंभं समाचरन् ६८।
वाल्मीकिर्निजशिष्यान्स प्रत्युवाच तपोनिधिः ।
रच्यतां बत जानक्याः पर्णशाला मनोरमा ६९।
इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम् ।
व्यरचन्पत्रकैः शालां दारुभिः सुमनोहराम् ७०।
तत्रावसद्धि वैदेही पतिव्रतपरायणा ।
वाल्मीकेः परिचर्यां च कुर्वंती फलभक्षिका ७१।
जपंती रामरामेति मनसा वचसा स्वयम् ।
निनाय दिवसांस्तत्र जानकी पतिदेवता ७२।
काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ ।
रामचंद्र प्रतिनिधी ह्यश्विनाविव जानकी ७३।
तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसंभवम् ।
चकार जातकर्मादि संस्कारान्मंत्रवित्तमः ७४।
कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत् ।
तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा ७५।
वाल्मीकिर्यत्र विरजा मंगलं तद्यथाचरत् ।
अत्यंतं हृष्टचित्ता सा बभूव कमलेक्षणा ७६।
तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः ।
आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने ७७।
तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम् ।
मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः ७८।
जानकीपुत्रकौ तत्र ववृधाते मनोरमौ ।
कंदमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ ७९।
शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ ।
कालेन संस्कृतौ जातावुपनीतौ मनोहरौ ८०।
उपनीयमुनिर्वेदं सांगमध्यापयत्सुतौ ।
सरहस्यं धनुर्वेदं रामायणमपाठयत् ८१।
वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते ।
अभेद्ये सगुणे श्रेष्ठे वैरिवृंदविदारणे ८२।
इषुधी बाणसंपूर्णौ अक्षये करवालके ।
चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा ८३।
धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा ।
चरंतौ तत्र रेजाते अश्विनाविव शोभनौ ८४।
जानकी वीक्ष्य पुत्रौ द्वौ खड्गचर्मधरौ वरौ ।
परमं हर्षमापन्ना विरहोद्भवमत्यजत् ८५।
एष ते कथितो विप्र जानक्याः पुत्रसंभवः ।
अतः शृणुष्व यद्वृत्तं वीरबाहुविकृंतनम् ८६।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवोत्पत्तिकथानकंनामैकोनषष्टितमोऽध्यायः ५९।