पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५५

विकिस्रोतः तः
← अध्यायः ०५४ पद्मपुराणम्
अध्यायः ०५५
वेदव्यासः
अध्यायः ०५६ →

व्यास उवाच।
एतां श्रुत्वा कथां रम्यां लवस्य बलिनो मुनिः ।
संशयानः पर्यपृच्छन्नागं दशशताननम् १।
श्रीवात्स्यायन उवाच।
त्वयोक्तं तु पुरा रामः सीतामेकाकिनीं वने ।
रजकस्य दुरुक्त्यासौ तत्याज महि लोलुपः २।
जानक्यां क्व सुतौ जातौ क्व धनुर्धरतां गतौ ।
कथं च शिक्षिता विद्या यो रामहयमाहरत् ३।
व्यास उवाच।
इति श्रुत्वा मुनेर्वाक्यं शेषो नागो महामतिः ।
प्रशस्य विप्रं जगदे रामचारित्रमद्भुतम् ४।
शेष उवाच।
रामो राज्यमयोध्यायां भ्रातृभिः सहितोऽकरोत् ।
धर्मेण पालयन्सर्वं क्षितिखंडं स्वया स्त्रिया ५।
सीता दधार तद्वीर्यं मासाः पंचाभवंस्तदा ।
अत्यंतं शुशुभे देवी त्रयीव पुरुषं धरा ६।
कदाचित्समये रामः पप्रच्छ च विदेहजाम् ।
कीदृशो दोहदः साध्वि मया ते साध्यते हि सः ७।
रहस्येव तु सा पृष्टा त्रपमाणा पतिं सती ।
लज्जा गद्गद वाग्रामं निजगाद वचोऽमृतम् ८।
सीतोवाच।
त्वत्कृपातो मया सर्वं भुक्तं भोक्ष्यामि शोभनम् ।
न कश्चिन्मानसे कांत विषयो ह्यतिरिच्यते ९।
यस्याभवादृशः स्वामी देवसंस्तुतसत्पदः ।
तस्याः सर्वं वरीवर्ति न किंचिदवशिष्यते १०।
त्वमाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम् ।
ब्रवीमि पुरतः सत्यं तव स्वामिन्मनोहर ११।
चिरं जातं मया सत्यो लोपामुद्रादिकाः स्त्रियः ।
दृष्ट्वा स्वामिन्मनो द्रष्टुं ता उत्सुकति सुंदरीः १२।
राज्यं प्राप्ता त्वया सार्द्धमनेकसुखमास्थिता ।
कृतघ्नाहं कदापीह ता नमस्कर्तुमानसा १३।
तत्र गत्वा तपःकोशान्वस्त्राद्यैः परिपूजये ।
रत्नानि चैव भास्वंति भूषा अपि समर्पये १४।
यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः ।
एष मे दोहदः कांत परिपूरय मानसः १५।
इत्थमाकर्ण्य वचनं सीतायाः सुमनोहरम् ।
जगाद परमप्रीतो रामचंद्रः प्रियां प्रति १६।
धन्यासि जानकी प्रातर्गमिष्यसि तपोधनाः ।
प्रेक्ष्यतास्तु कृतार्था त्वमागमिष्यसि मेंऽतिकम् १७।
इति रामवचः श्रुत्वा परमां प्रीतिमाप सा ।
प्रातर्मम भवत्यद्धा तापसीनां समीक्षणम् १८।
अथ तन्निशि रामेण चाराः कीर्तिं निजां श्रुताम् ।
प्रेक्षितुं प्रेषितास्ते तु निशीथे ह्यगमनञ्छनैः १९।
ते प्रत्यहं रामकथाः शृण्वंतः सुमनोहराः ।
तद्दिने गतवंतस्तु धनाढ्यस्य गृहं महत् २०।
दीपं वीक्ष्य प्रज्वलंतं वचनं वीक्ष्य मानुषम् ।
स्थितास्तत्र क्षणं चाराः समशृण्वन्यशो भृशम् २१।
तत्र काचन वामाक्षी बालकं प्रति हर्षिता ।
स्तनं धयंतं निजगौ वाक्यं तु सुमनोहरम् २२।
पिब पुत्र यथेष्टं त्वं स्तन्यं मम मनोहरम् ।
पश्चात्तव सुदुष्प्रापं भविष्यति ममात्मज २३।
एतत्पुर्याः पती रामो नीलोत्पलदलप्रभः ।
तत्पुरीस्थजनानां तु न भविष्यति वै जनुः २४।
जन्माभावात्कथं पानं स्तन्यस्य भुवि जायते ।
तस्मात्पिब मुहुः स्तन्यं दुर्ल्लभं हृदि मन्य च २५।
ये श्रीरामं स्मरिष्यंति ध्यायंति च वदंति ये ।
तेषामपि पयःपानं न भविष्यति जातुचित् २६।
इत्यादिवाक्यं संश्रुत्य श्रीरामयशसोऽमृतम् ।
हर्षिताः प्रययुर्गेहमन्यद्भाग्यवतो महत् २७।
तावदन्यश्चरस्तत्र मनोरममिदं गृहम् ।
मत्वा तिष्ठन्हि रामस्य क्षणं शुश्रूषया यशः २८।
तत्र काचिन्निजं कांतं पर्यंकोपरि सुस्थितम् ।
तांबूलं चर्वती दत्तं भर्त्तास्नेहेन सुंदरी २९।
कंकणस्वरशोभाढ्या कर्पूरागरुधूपिता ।
कांतं वीक्ष्य चलन्नेत्रा कामरूपमवोचत ३०।
नाथ त्वं तादृशो मह्यं भासि यादृग्रघोः पतिः ।
अत्यंतं सुंदरतरं वपुर्बिभ्रत्सुकोमलम् ३१।
पद्मप्रांतं नेत्रयुग्मं वक्षो मोहनविस्तृतम् ।
भुजौ च सांगदौ बिभ्रत्साक्षाद्राम इवासि मे ३२।
इति वाक्यं समाकर्ण्य कांतायाः सुमनोहरम् ।
उवाच नेत्रयोः प्रांतं नर्तयन्कामसुंदरः ३३।
शृणु कांते त्वया प्रोक्तं साध्व्या तु सुमनोहरम् ।
पतिव्रतानां तद्योग्यं स्वकांतो राम एव हि ३४।
परं क्वाहं मंदभाग्यः क्व रामो भाग्यवान्महान् ।
क्व चाहं कीटवत्तुच्छः क्व ब्रह्मादिसुरार्चितः ३५।
खद्योतः क्व नभोरत्नं शलभः क्व नु पामरः ।
गजारिः क्व मृगेंद्रोऽसौ शशकः क्व नु मंदधीः ३६।
क्व च सा जाह्नवी देवी क्व रथ्या जलमुत्पथम् ।
क्व मेरुः सुरसंवासः क्व गुंजापुंजकोल्पकः ३७।
तथाहं क्व क्व रामोऽसौ यत्पादरजसांगना ।
शिलीभूता क्षणाज्जाता ब्रह्ममोहनरूपधृक् ३८।
इति वाक्यं प्रब्रुवाणं परिरेभे निजं पतिम् ।
जातकामा हृतप्रेम्णा नर्तित भ्रू धनुर्धरा ३९।
इत्यादि वाक्यं संश्रुत्य गतश्चान्यनिवेशनम् ।
तावदन्यश्चरो वाक्यं शुश्राव यशसान्वितम् ४०।
काचित्पुष्पमयीं शय्यां चंदनं सह चंद्रकम् ।
सर्वं विधाय कामार्हं जगाद वचनं पतिम् ४१।
पते कुरुष्व भोगार्हे शयनं पुष्पमंचके ।
चंदनादिकलेपं च तथा भोगमनेकधा ४२।
त्वादृशा एव भोगार्हा न च रामपराङ्मुखाः ।
सर्वं रामकृपाप्राप्तमुपभुंक्ष्व यथातथम् ४३।
मत्सदृशी कामिनी ते चंदनं तापहारकम् ।
पर्यंकः पुष्परचितः सर्वं रामकृपाभवम् ४४।
ये रामं न भजिष्यंति ते नरा जठरं स्वयम् ।
न भर्तुं शक्नुवंत्येव वस्त्रभोगादि वर्जिताः ४५।
इति ब्रुवंतीं महिलां हर्षितः पतिरब्रवीत् ।
सर्वं तथ्यं ब्रवीषि त्वं मम रामकृपाभवम् ४६।
इत्येवं रामभद्रस्य यशः श्रुत्वा गतश्चरः ।
तावदन्यस्य वेश्मस्थश्चरोऽन्य शुश्रुवे वचः ४७।
काचित्कांतेन पर्यंके वीणावादनतत्परा ।
कांतेन रामसत्कीर्तिं गायमाना पतिं जगौ ४८।
स्वामिन्वयं धन्यतमा येषां पुर्याः पतिः प्रभुः ।
श्रीरामः स्वप्रजाः पुत्रानिव पाति च रक्षकः ४९।
यो महत्कर्मदुःसाध्यं कृतवान्सुलभं न तत् ।
समुद्रं यो निजग्राह सेतुं तत्र बबंध च ५०।
रावणं यो रिपुं हत्वा लंकां संभज्य वानरैः ।
जानकीमाजहारात्र महदाचारमाचरत् ५१।
इति प्रोक्तं समाकर्ण्य वचः सुमधुराक्षरम् ।
पतिः स्मितं चकारेमां वाक्यं पुनरथाब्रवीत् ५२।
मुग्धेनेदं महत्कर्म रामचंद्रस्य भामिनी ।
दशाननवधादीनि समुद्र दमनानि च ५३।
लीलयायोऽवनिं प्राप्तो ब्रह्मादिप्रार्थितो महान् ।
करोति सच्चरित्राणि महापापहराणि च ५४।
मा जानीहि नरं रामं कौसल्यानंददायकम् ।
सृजत्यवति हंत्येतद्विश्वं लीलात्तमानुषः ५५।
धन्या वयं ये रामस्य पश्यामो मुखपंकजम् ।
ब्रह्मादिसुरदुर्दर्शं महत्पुण्यकृतो वयम् ५६।
अशृणोद्रामचंद्रस्य चरित्रं श्रुतिसौख्यदम् ।
इत्यादिवाक्यं शुश्राव चारो द्वारिस्थितो मुहुः ५७।
अन्यो ह्यन्यं गृहं गत्वा तस्थौ श्रोतुं हरेर्यशः ।
तत्रापि रामभद्रस्य यशः शुश्राव शोभनम् ५८।
खेलंती स्वामिना सार्धं द्यूतेन सुमनोहरा ।
उवाच वाक्यं मधुरं नर्तयंतीव कंकणे ५९।
जितं मया कांत जवेन सर्वं ।
करिष्यसि त्वं किमु हारिमानसः ।
इत्यादि वाक्यं परिहासपूर्वकं ।
कृत्वा स्वकांतं परिषस्वजे मुदा ६०।
उवाच कांतश्चार्वंगि जितमेव सुशोभने ।
रामं मे स्मरतो नित्यं न कुत्रापि पराजयः ६१।
इदानीं त्वां तु जेष्यामि रामं स्मृत्वा मनोहरम् ।
देवा यथा पुरा स्मृत्वा दितिजानजयन्क्षणात् ६२।
एवमुक्त्वा पाशकानां परिवर्तनमाकरोत् ।
तावज्जयं प्रपेदेऽसौ हर्षितो वाक्यमब्रवीत् ६३।
मम प्रोक्तमृतं जातं जिता त्वं नवयौवना ।
रामस्मारी कदाप्येव न भवेद्रिपुतो भयी ६४।
इत्येवं तौ वदंतौ च परस्परमथोत्सुकौ ।
परिरभ्य दृढं प्रेम्णा ततश्चारो गतो गृहम् ६५।
एवं पंचमहाचारा राज्ञः संश्रुत्य वै यशः ।
परस्परं प्रशंसंतो गेहं स्वं स्वं ययुर्मुदा ६६।
एकः षष्ठश्चरः कारुगेहानालोक्य तत्र ह ।
जगाम श्रोतुकामोऽसौ यशो राज्ञो महीपतेः ६७।
रजकः क्रोधसंस्पृष्टो भार्यामन्यगृहोषिताम् ।
पदा संताडयामास धिक्कुर्वञ्छोणनेत्रवान् ६८।
गच्छ त्वं मद्गृहात्तस्य गेहं यत्रोषिता दिनम् ।
नाहं गृह्णामि भवतीं दुष्टां वचनलंघिनीम् ६९।
तदास्य माता प्रोवाच मा त्यजैनां गृहागताम् ।
अपराधेन रहितां दुष्टकर्मविवर्जिताम् ७०।
मातरं प्रत्युवाचाथ रजकः क्रोधसंयुतः ।
नाहं रामइव प्रेष्ठां गृह्णाम्यन्यगृहोषिताम् ७१।
स राजा यत्करोत्येव तत्सर्वं नीतिमद्भवेत् ।
अहं गृह्णामि नो भार्यां परवेश्मनि संस्थिताम् ७२।
पुनःपुनरुवाचेदं नाहं रामो महीश्वरः ।
यः परस्य गृहे संस्थां जानकीं वै ररक्ष सः ७३।
इति वाक्यं समाश्रुत्य चारः क्रोधपरिप्लुतः ।
खड्गं गृहीत्वा स्वकरे तं हंतुं विदधे मनः ७४।
स रामोक्तं च सस्मार न वध्यः कोपि मे जनः ।
इति ज्ञात्वा सरोषं तु संजहार महामनाः ७५।
तदा श्रुत्वा सुदुःखार्तः पंचचारा यतः स्थिताः ।
ततो गतः प्रकुपितो निःश्वसन्मुहुरुच्छ्वसन् ७६।
ते वै परस्परं तत्र मिलितास्तु समब्रुवन् ।
स्वश्रुतं रामचरितं सर्वलोकैकपूजितम् ७७।
ते तद्भाषितमाकर्ण्य परस्परममंत्रयन् ।
न वाच्यं रघुनाथाया वाच्यं दुष्टजनोदितम् ७८।
इति संमंत्र्य ते गेहं गत्वा सुषुपुरुत्सुकाः ।
प्राता राज्ञे प्रशंसाम इति बुद्ध्या व्यवस्थिताः ७९।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे चारनिरीक्षणंनाम पंचपंचाशत्तमोऽध्यायः ५५।