पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२९ पद्मपुराणम्
अध्यायः ०३०
वेदव्यासः
अध्यायः ०३१ →

शेष उवाच
अथ तेजःपुरं प्राप्तस्तुरगः पत्रशोभितः
यस्यां पालयते राजा प्रजाः सत्येन सत्यवान् १
अथ कोटिपरीवारो रघुनाथानुजस्ततः
हयानुगो ययौ तस्य पुरतः पुरधर्षणः २
तद्दृष्ट्वा नगरं रम्यं चित्रप्राकारशोभितम्
कांचनैः कलशैस्तत्र परितः प्रतिभासितम् ३
देवायतनसाहस्रैः सर्वतश्च विराजितम्
यतीनां तु मठास्तत्र शोभंते यतिपूरिताः ४
वहत्यत्र महादेवी शिखिलोचनमूर्धगा
हंसकारंडवाकीर्णामुनिवृंदनिषेविता ५
ब्राह्मणानां प्रत्यगारमग्निहोत्रभवः पुनः
धूमस्तत्र पुनात्यंग पातकाप्लुतमानसान् ६
उवाच सुमतिं राजा शत्रुघ्नः शत्रुतापनः
तत्पुरप्रेक्षणोद्भूतहर्षविस्मितमानसः ७
शत्रुघ्न उवाच
मंत्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम्
करोति मानसाह्लादं धर्मेण प्रतिपालितम् ८
शेष उवाच
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महीपतेः
उवाच सुमतिः सर्वं यथातथमनुद्धतम् ९
सुमतिरुवाच
शृणुष्वावहितः स्वामिन्वैष्णवस्य कथाः शुभाः
याः श्रुत्वा मुच्यते पापाद्ब्रह्महत्यासमादपि १०
जीवन्मुक्तो वरीवर्ति रामांघ्र्यंबुजषट्पदः
सत्यवान्यज्ञयज्ञांग ज्ञाता कर्ताऽविता महान् ११
धेनुं प्रसाद्य बहुभिर्व्रतैर्यं प्राप तत्पिता
ऋतंभराख्यो जगति ख्यातः परमधार्मिकः १२
गौः प्रसन्ना ददौ पुत्रमनेकगुणसंस्कृतम्
सत्यवंतं सुशोभाढ्यं तं जानीहि नृपोत्तमम् १३
शत्रुघ्न उवाच
को वा ऋतंभरो राजा किमर्थं धेनुपूजनम्
कथं प्राप्तः सुतस्तस्य वैष्णवो विष्णुसेवकः १४
सर्वमेतत्समाचक्ष्व वैष्णवस्य कथानकम्
श्रुतं हरति जंतूनां महापातकपर्वतम् १५
शेष उवाच
इति वाक्यं समाकर्ण्य शत्रुघ्नस्य महार्थकम्
कथयामास विशदं तदुत्पत्तिकथानकम् १६
ऋतंभरो नरपतिरनपत्यः पुराऽभवत्
कलत्राणि बहून्यस्य न पुत्रं प्राप तेषु वै १७
तदा जाबालिनामानं मुनिं दैवादुपागतम्
प्रपच्छ कुशलोद्युक्तः सपुत्रोत्पत्तिकारणम् १८
ऋतंभर उवाच
स्वामिन्वंध्यस्य मे ब्रूहि पुत्रोत्पत्तिकरं वचः
यत्कृत्वा जायतेऽपत्यं मम वंशधरं वरम् १९
तज्ज्ञात्वा भवतो भव्यं प्रकुर्यां निश्चितं वचः
दानं व्रतं वा तीर्थं वा मखं वा मुनिसत्तम २०
इति राज्ञोवचः श्रुत्वा जगाद मुनिसत्तमः
सुतोत्पत्तिकरं वाक्यं प्रणतस्य सुतार्थिनः २१
अपत्यप्राप्तिकामस्य संत्युपायास्त्रयः प्रभो
विष्णोः प्रसादो गोश्चापि शिवस्याप्यथवा पुनः २२
तस्मात्त्वं कुरु वै पूजां धेनोर्देवतनोर्नृप
यस्याः पुच्छे मुखे शृंगे पृष्ठे देवाः प्रतिष्ठिताः २३
सा तुष्टा दास्यति क्षिप्रं वांछितं धर्मसंयुतम्
एवं विदित्वा गोपूजां विधेहि त्वमृतंभर २४
यो वै नित्यं पूजयति गां गेहे यवसादिभिः
तस्य देवाश्च पितरो नित्यं तृप्ता भवंति हि २५
यो वै गवाह्निकं दद्यान्नियमेन शुभव्रतः
तेन सत्येन तस्य स्युः सर्वे पूर्णा मनोरथाः २६
तृषिता गौर्गृहे बद्धा गेहे कन्या रजस्वला
देवता च सनिर्माल्या हंति पुण्यं पुराकृतम् २७
यो वै गां प्रतिषिद्ध्येत चरंतीं स्वं तृणं नरः
तस्य पूर्वे च पितरः कंपंते पतनोन्मुखाः २८
यो वै यष्ट्या ताडयति धेनुं मर्त्यो विमूढधीः
धर्मराजस्य नगरं स याति करवर्जितः २९
यो वै दंशान्वारयति तस्य पूर्वे ह्यधोगताः
नृत्यंति मत्सुतो ह्यस्मांस्तारयिष्यति भाग्यवान् ३०
अत्रैवोदाहरंतीममितिहासं पुरातनम्
जनकस्य पुरावृत्तं धर्मराजपुरेऽद्भुतम् ३१
एकदा जनको राजा योगेनासून्समत्यजत्
तदा विमानं संप्राप्तं किंकिणीजालभूषितम् ३२
तदारुह्य गतो राजा सेवकैरूढदेहवान्
मार्गे जगाम धर्मस्य संयमिन्याः पुरोंऽतिके ३३
तदा नरककोटीषु पीड्यंते पापकारिणः
जनकस्यांगपवनं प्राप्य सौख्यं प्रपेदिरे ३४
निरये दाहजापीडा जातैषां सुखकारिणी
महादुःखं तदा नष्टं जनकस्यांगवायुना ३५
तदा तं निर्गतं दृष्ट्वा जंतवः पापपीडिताः
अत्यंतं चुक्रुशुर्भीतास्तद्वियोगमनिच्छवः ३६
ऊचुस्ते करुणां वाचं मा गच्छ सुकृतिन्नितः
त्वदंगवायुसंस्पर्शात्सुखिनः स्यामपीडिताः ३७
इति वाक्यं समाकर्ण्य राजा परमधार्मिकः
मानसे चिंतयामास करुणापूरपूरितः ३८
चेन्मत्तः प्राणिनां सौख्यं भवेदिह तदा पुनः
अत्रैव च पुरे स्थास्ये स्वर्ग एष मनोरमः ३९
एवं कृत्वा नृपस्तस्थौ तत्रैव निरयाग्रतः
विदधत्प्राणिनां सौख्यमनुकंपितमानसः ४०
तत्र धर्मस्तु संप्राप्तो निरयद्वारि दुःखदे
कारयन्यातनास्तीव्रा नानापातककारिणाम् ४१
तदा ददर्श राजानं जनकं द्वारिसंस्थितम्
विमानेन महापुण्यकारिणं दययायुतम् ४२
तमुवाच प्रेतपतिर्जनकं सहसन्गिरा
राजन्कुतस्त्वं संप्राप्तः सर्वधर्मशिरोमणिः ४३
एतत्स्थानं पातकिनां दुष्टानां प्राणघातिनाम्
नायांति पुरुषा भूप त्वादृशाः पुण्यकारिणः ४४
अत्रायांति नरास्ते वै ये परद्रोहतत्पराः
परापवादनिरताः परद्रव्यपरायणाः ४५
यो वै कलत्रं धर्मिष्ठं निजसेवापरायणम्
अपराधादृते जह्यात्सनरोऽत्र समाव्रजेत् ४६
मित्रं वञ्चयते यस्तु धनलोभेन लोभितः
आगत्यात्र नरः पीडां मत्तः प्राप्नोति दारुणाम् ४७
यो रामं मनसा वाचा कर्मणा दंभतोऽपि वा
द्वेषाद्वाचोपहासाद्वा न स्मरत्येव मूढधीः ४८
तं बध्नामि पुनस्त्वेषु निक्षिप्य श्रपयामि च
यैः स्मृतो न रमानाथो नरकक्लेशवारकः ४९
तावत्पापं मनुष्याणामंगेषु नृप तिष्ठति
यावद्रामं न रसना गृणाति कलि दुर्मतेः ५०
महापापकरा राजन्ये भवंति महामते
तानानयंति मद्भृत्यास्त्वादृशान्द्रष्टुमक्षमाः ५१
तस्माद्गच्छ महाराज भुंक्ष्व भोगाननेकशः
विमानवरमारुह्य भुंक्ष्व पुण्यमुपार्जितम् ५२
इति वाक्यं समाकर्ण्यध र्मराजस्य तत्पतेः
उवाच धर्मराजानं करुणापूरपूरितः ५३
जनक उवाच
अहं गच्छामि नो नाथ जीवानामनुकम्पया
मदंगवायुना ह्येते सुखं प्राप्ताः स्म संस्थिताः ५४
एतान्मुंचसि चेद्राजन्सर्वान्वै निरयस्थितान्
ततो गच्छामि सुखितः स्वर्गं पुण्यजनाश्रितम् ५५
जाबालिरुवाच
इति वाक्यमथाश्रुत्य जनकं प्रत्युवाच सः
प्रत्येकं निर्दिशञ्जीवान्निरयस्थाननेकशः ५६
धर्म उवाच
अयं मित्र कलत्रं वै विश्वस्तमनुजग्मिवान्
तस्मादेनं लोहशंकौ वर्षायुतमपीपचम् ५७
पश्चादेनं सूकराणां योनौ निक्षिप्य दोषिणम्
मानुषेष्ववतार्योऽयं षंढचिह्नेन चिह्नितः ५८
अनेन परदाराश्च बलादालिगिता मुहुः
तस्मादयं पच्यतेऽत्र रौरवे शतहायनम् ५९
अयं तु परकीयं स्वं मुषित्वा बुभुजे कुधीः
तस्मादस्य करौ छित्त्वा पचेयं पूयशोणिते ६०
अयं सायंतने प्राप्तमतिथिं क्षुधयार्दितम्
वाण्यापि नाकरोत्तस्य पूजनं स्वागतं न च ६१
तस्मादयं पातनीयस्तामिस्रेंधनपूरिते
भ्रमरैः पीडितो यातु यातनां शतहायनम् ६२
अयं तावत्परस्योच्चैर्निंदां कुर्वन्नलज्जितः
अयमप्यशृणोत्कर्णौ प्रेरयन्बहुशस्तु ताम् ६३
तस्मादिमावंधकूपे पतितौ दुःखदुःखितौ
अयं मित्रध्रुगुद्विग्नः पच्यते रौरवे भृशम् ६४
तस्मादेतान्पापभोगान्कारयित्वा विमोचये
त्वं गच्छ नरशार्दूल पुण्यराशिविधायकः ६५
जाबालिरुवाच
एवं स निर्दिशञ्जीवांस्तूष्णीमासाघकारिणः
प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः ६६
जनक उवाच
कथं निरयनिर्मुक्तिर्जीवानां दुःखिनां भवेत्
तदाशु कथय त्वं वै यत्कृत्वा सुखमाप्नुयुः ६७
धर्म उवाच
नैभिराराधितो विष्णुर्नैभिस्तस्य कथाः श्रुताः
कथं निरयनिर्मुक्तिर्भवेद्वै पापकारिणाम् ६८
यदि त्वं मोचयस्येतान्महापापकरानपि
तर्ह्यर्पय महाराज पुण्यं तत्कथयामि यत् ६९
एकदा प्रातरुत्थाय शुद्धभावेन चेतसा
ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः ७०
रामरामेति यच्चोक्तं त्वया शुद्धेन चेतसा
तत्पुण्यमर्पयैतेभ्यो येन स्यान्निरयाच्च्युतिः ७१
जाबालिरुवाच
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य धीमतः
पुण्यं ददौ महाराज आजन्मसमुपार्जितम् ७२
यदा जन्मकृतैः पुण्यै रघुनाथार्चनोद्भवैः
एतेषां निरयान्मुक्तिर्भवत्वत्र मनोरमा ७३
एवं कथयतस्तस्य जीवा निरयसंस्थिताः
तत्क्षणान्निरयान्मुक्ता जाता दिव्यवपुर्धराः ७४
ऊचुस्ते जनकं राजंस्त्वत्प्रसादाद्वयं क्षणात्
दुःखदान्निरयान्मुक्ता यास्यामः परमं पदम् ७५
तान्दृष्ट्वा सूर्यसंकाशान्नरान्निरयनिःसृतान्
तुतोष चित्ते सुभृशं सर्वभूतदयापरः ७६
ते सर्वे प्रययुर्लोकं दिवं देवैरलंकृतम्
जनकं तु प्रशंसंतो महाराजं दयानिधिम् ७७
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदाख्याने जनकेन नरकस्थप्राणिमोचनंनाम त्रिंशोऽध्यायः ३०