पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३१
← अध्यायः ०३० | पद्मपुराणम् अध्यायः ०३१ वेदव्यासः |
अध्यायः ०३२ → |
जाबालिरुवाच।
अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु ।
राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम् १।
राजोवाच।
धर्मराज त्वया प्रोक्तं यत्पातककरा नराः ।
आयांति तव संस्थानं न च धर्मकथारताः २।
मदागमनमत्राभूत्केनपापेन धार्मिक ।
तद्वै कथय सर्वं मे पापकारणमादितः ३।
इति श्रुत्वा तु तद्वाक्यं धर्मराजः परंतप ।
कथयामास तस्यैवं यमपुर्यागमं तदा ४।
धर्मराज उवाच।
राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले ।
रघुनाथपदद्वंद्वमकरंद मधुव्रत ५।
त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान् ।
पुनाति परमाह्लादकारिणी दुष्टतारिणी ६।
तथापि पापलेशस्ते वर्तते नृपसत्तम ।
येन संयमिनीपार्श्वमागतः पुण्यपूरितः ७।
एकदा तु चरंतीं गां वारयामास वै भवान् ।
तेन पापविपाकेन निरयद्वारदर्शनम् ८।
इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः ।
भुंक्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून् ९।
एतेषां करुणावार्धी रघुनाथो सुखं हरन् ।
संयमिन्या महामार्गे प्रेरयामास वैष्णवम् १०।
नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत ।
अभविष्यत्कथं तेषां निरयात्परिमोचनम् ११।
त्वादृशाः परदुःखेन दुःखिताः करुणालयाः ।
प्राणिनां दुःखविच्छेदं कुर्वंत्येव महामते १२।
जाबालिरुवाच।
एवं वदंतं शमनं प्रणम्य स दिवंगतः ।
दिव्येन सुविमानेन अप्सरोगणशोभिना १३।
तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत् ।
गर्हयन्निरयं याति यावदिंद्राश्चतुर्दश १४।
तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर ।
सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् १५।
सुमतिरुवाच।
तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात् ।
पूजनीया प्रयत्नेन कीदृशं कुरुते नरम् १६।
जाबालि कथयामास धेनुपूजां यथाविधि ।
प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः १७।
गवे यवांस्तु संभोज्य गोमयस्थान्समाहरेत् ।
भक्षणीया यवास्ते तु पुत्रकामेन भूपते १८।
सा यदा पिबते तोयं तदा पेयं जलं शुचि ।
सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः १९।
दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत् ।
एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् २०।
सुमतिरुवाच।
इति वाक्यं समाकर्ण्य पुत्रकाम ऋतंभरः ।
व्रतं चकार धर्मात्मा धेनुपूजां समाचरन् २१।
प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम् ।
दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः २२।
एवं धेनुं पूजयतो गतास्तु दिवसा घनाः ।
वनमध्ये तृणादींश्च चरंतीमकुतोभयाम् २३।
एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे ।
न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली २४।
तदागत्याहनद्गां वै पंचास्यः काननांतरात् ।
क्रोशंतीं बहुधा दीनां सिंहभारेणदुःखिताम् २५।
तदा नृपः समागत्य विलोक्य निजमातरम् ।
सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः २६।
स दुःखितः समागत्य जाबालिमुनिसत्तमम् ।
निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः २७।
ऋतंभर उवाच।
स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः ।
कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः २८।
तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया ।
कथं वा व्रतसंपूर्तिर्मम पुत्रप्रदायिनी २९।
इत्युक्तवंतं तं भूपं जगाद मुनिसत्तमः ।
संत्युपाया महीपाल पापस्यास्यापनुत्तये ३०।
ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते ।
प्रायश्चित्तानि वर्तंते सर्वपापहराणि च ३१।
कृच्छ्रैश्चांद्रायणैर्दानैर्व्रतैः सनियमैर्यमैः ।
पापानि प्रलयं यांति नियमादनुतिष्ठतः ३२।
द्वयोश्च निष्कृतिर्नास्ति पापपुंजकृतोस्तयोः ।
मत्या गोवधकर्तुश्च नारायणविनिंदितुः ३३।
गवां यो मनसा दुःखं वांच्छत्यधमसत्तमः ।
स याति निरयस्थानं यावदिंद्राश्चतुर्दश ३४।
योऽपि देवं हरिं निंदेत्सकृद्दुर्भाग्यवान्नरः ।
स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः ३५।
तस्माज्ज्ञात्वा हरिं निंदन्गोषु दुःखं समाचरन् ।
कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर ३६।
अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते ।
रामभक्तं तु धीमंतं याहि त्वमृतुपर्णकम् ३७।
स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति ।
तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम् ३८।
तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा ।
वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ३९।
स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः ।
यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति ४०।
स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम् ।
रामभक्तं रिपौ मित्रे समदृष्ट्या समंजसम् ४१।
स तस्मै कथयामास यज्जातं गोवधादिकम् ।
तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिंतयत् ४२।
क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतंभरम् ।
उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः ४३।
कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम् ।
तान्हित्वा किं तु मां प्राप्तो मूर्खंपंडितमानिनम् ४४।
तव मय्यस्ति चेच्छ्रद्धा तदा किंचिद्ब्रवीम्यहम् ।
शृणुष्व नरशार्दूल गदितं मम सादरः ४५।
भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा ।
नैष्कापट्येन लोकेशं तोषयस्व महामते ४६।
स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम् ।
अज्ञानकृत गोहत्यापापनाशं करिष्यति ४७।
रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम ।
दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि ४८।
सुमतिरुवाच।
एतच्छ्रुत्वा तु तद्वाक्यमृतंभरनृपस्तदा ।
विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ४९।
पूर्ववत्पालयन्धेनुं जगाम विपिनं महत् ।
रामनामस्मरन्नित्यं सर्वभूतहिते रतः ५०।
तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता ।
राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम् ५१।
तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम् ।
रामभक्तं पितृरतं स्वधर्मप्रतिपालकम् ५२।
तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने ।
जगामादर्शनं देवी कामधेनुः कृपावती ५३।
स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम् ।
सत्यवत्संज्ञयायुक्तमकरोत्तत्र तत्पिता ५४।
सत्यवंतं सुतं लब्ध्वा पितृभक्तिपरं महान् ।
परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ५५।
स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः ।
राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम् ५६।
तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा ।
निर्धूतपापः सतनुरगाद्धरिपदं नृपः ५७।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदा-।
ख्याने धेनुव्रतवर्णनंनाम एकत्रिंशोऽध्यायः ३१ ।