पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०३२
← अध्यायः ०३१ | पद्मपुराणम् अध्यायः ०३२ वेदव्यासः |
अध्यायः ०३३ → |
सुमतिरुवाच।
असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः ।
निजधर्मेण लोकेशं रघुनाथमतोषयत् १।
अस्मै तुष्टो रमानाथो ददौ भक्तिमचंचलाम् ।
निजांघ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः २।
नित्यं श्रीरघुनाथस्य कथानकमनातुरः ।
कुरुते सर्वलोकानां पावनं कृपयायुतः ३।
यो न पूजयते देवं रघुनाथं रमापतिम् ।
स तेन ताड्यते दंडैर्यमस्यापि भयावहैः ४।
अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत् ।
तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना ५।
तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम् ।
न मुंचति रमानाथ पादपद्मस्रगुत्तमा ६।
ऋषीणामपि पूज्योयमितरेषां कथं नहि ।
रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः ७।
ज्ञात्वायं रामचंद्रस्य वाजिनं परमाद्भुतम् ।
आगत्य तुभ्यं संदास्यत्येतद्राज्यमकंटकम् ८।
त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम् ।
पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत् ९।
शेष उवाच।
गतोऽश्वस्तत्पुरांतस्तु नानाश्चर्यसमन्वितः ।
तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् १०।
जनता ऊचुः।
कोऽप्यश्वः सितवर्णेन गंगाजलसमेन वै ।
भाले सौवर्णपत्रेण राजमानः समागतः ११।
तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम् ।
ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः १२।
ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः ।
आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः १३।
रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम् ।
जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः १४।
मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि ।
तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम १५।
हनूमांस्तत्र रामांघ्रिसेवाकर्ता भविष्यति ।
कदाचिदपि यो रामं न विस्मरति मानसे १६।
गच्छामि यत्र शत्रुघ्नो यत्र मारुतनंदनः ।
अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः १७।
अमात्यमादिदेशाथ सर्वं राजधनं महत् ।
गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः १८।
यास्येऽहं रघुनाथस्य हयं पालयितुं वरम् ।
कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् १९।
इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः ।
तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः २०।
वीरा गर्जंति प्रबला रथाः सुनिनदंति च ।
जयशंखस्वनास्तत्र वेणुनादाश्च सर्वतः २१।
आगत्य सत्यवान्राजा मंत्रिभिः सुसमन्वितः ।
चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम् २२।
शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम् ।
तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् २३।
हनूमंतं परीरभ्य सुबाहुं रामसेवकम् ।
अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः २४।
कृतार्थमिव चात्मानं मेने सत्यसमन्वितः ।
ननंद चेतसि तदा शत्रुघ्नेन समन्वितः २५।
हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः ।
शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः २६।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवत्समागमोनाम द्वात्रिंशोऽध्यायः ३२ ।